आत्मतत्त्वशोधनाय त्रिलक्षं प्रजपेद्बुधः । अथवा चैकलक्षं तु श्रुतिप्रोक्तेन वर्त्मना
आत्मशुद्धिं विना कर्तुर्जपहोमादिकाः क्रियाः । निष्फलास्तास्तु विज्ञेयाः कारणं श्रुतिचोदितम्
तपसा तापयेद्देहं पितृदेवांश्च तर्पयेत् । तपसा स्वर्गमाप्नोति तपसा विन्दते महत्
क्षत्रियो बाहुवीर्येण तरेदापद आत्मनः । धनेन वैश्यः शूद्रस्तु जपहोमैर्द्विजोत्तमः ॥ ११ अतएव तु विप्रेन्द्र तपः कुर्यात्प्रयत्नतः । शरीरशोषणं प्राहुस्तापसास्तप उत्तमम् ॥ १२ शोधयेद्विधिमार्गेण कृच्छ्रचान्द्रायणादिभिः । अथान्नशुद्धिकरणं वक्ष्यामि शृणु नारद ॥ १३ अयाचितोञ्छशुक्लाख्यभिक्षावृत्तिचतुष्टयम् । तान्त्रिकैर्वैदिकैश्चैवं प्रोक्तान्नस्य विशुद्धता ॥ १४ भिक्षान्नं शुद्धमानीय कृत्वा भागचतुष्टयम् । एकं भागं द्विजेभ्यस्तु गोग्रासस्तु द्वितीयकः ॥ १५ अतिथिभ्यस्तृतीयस्तु तदूर्ध्वं तु स्वभार्ययोः । आश्रमस्य यथा यस्य कृत्वा ग्रासविधिं क्रमात् ॥ १६ आदौ क्षिप्त्वा तु गोमूत्रं यथाशक्ति यथाक्रमम् । तदूर्ध्वं ग्राससंख्या स्याद्वानप्रस्थगृहस्थयोः ॥ १७ कुक्कुटाण्डप्रमाणं तु ग्रासमानं विधीयते । अष्टौ ग्रासा गृहस्थस्य वनस्थस्य तदर्धकम् ॥ १८ ब्रह्मचारी यथेष्टं च गोमूत्रं विधिपूर्वकम् । प्रोक्षणं नववारं च षड्वारं च त्रिवारकम् ॥ १९ निश्छिद्रं च करं कृत्वा सावित्रीं च तदित्यृचम् । मन्त्रमुच्चार्य मनसा प्रोक्षणे विधिरुच्यते ॥ २० चौरो वा यदि चाण्डालो वैश्यः क्षत्रस्तथैव च । अन्नं दद्यात्तु यः कश्चिदधमो विधिरुच्यते ॥ २१ शूद्रान्नं शूद्रसम्पर्कं शूद्रेण च सहाशनम् । ते यान्ति नरकं घोरं यावच्चन्द्रदिवाकरौ ॥ २२ गायत्रीच्छन्दो मन्त्रस्य यथासंख्याक्षराणि च । तावल्लक्षाणि कर्तव्यं पुरश्चरणकं तथा ॥ २३ द्वात्रिंशल्लक्षमानं तु विश्वामित्रमतं तथा । जीवहीनो यथा देहः सर्वकर्मसु न क्षमः ॥ २४ पुरश्चरणहीनस्तु तथा मन्त्रः प्रकीर्तितः । ज्येष्ठाषाढौ भाद्रपदं पौषं तु मलमासकम् ॥ २५ अङ्गारं शनिवारं च व्यतीपातं च वैधृतिम् । अष्टमीं नवमीं षष्ठीं चतुर्थीं च त्रयोदशीम् ॥ २६ चतुर्दशीममावास्यां प्रदोषं च तथा निशाम् । यमाग्निरुद्रसर्पेन्द्रवसुश्रवणजन्मभम् ॥ २७ मेषकर्कतुलाकुम्भान्मकरं चैव वर्जयेत् । सर्वाण्येतानि वर्ज्यानि पुरश्चरणकर्मणि ॥ २८ चन्द्रतारानुकूले च शुक्लपक्षे विशेषतः । पुरश्चरणकं कुर्यान्मन्त्रसिद्धिः प्रजायते ॥ २९ स्वस्तिवाचनकं कुर्यान्नान्दीश्राद्धं यथाविधि । विप्रान्सन्तर्प्य यत्नेन भोजनाच्छादनादिभिः ॥ ३० आरभेत्तु ततः पश्चादनुज्ञानपुरःसरम् । प्रत्यङ्मुखः शिवस्थाने द्विजश्चान्यतमे जपेत् ॥ ३१ काशीपुरी च केदारो महाकालोऽथ नासिकम् । त्र्यम्बकं च महाक्षेत्रं पञ्च दीपा इमे भुवि ॥ ३२ सर्वत्रैव हि दीपस्तु कूर्मासनमिति स्मृतम् । प्रारम्भदिनमारभ्य समाप्तिदिवसावधि ॥ ३३ न न्यूनं नातिरिक्तं च जपं कुर्याद्दिने दिने । नैरन्तर्येण कुर्वन्ति पुरश्चर्यां मुनीश्वराः ॥ ३४ प्रातरारभ्य विधिवज्जपेन्मध्यदिनावधि । मनःसंहरणं शौचं ध्यानं मन्त्रार्थचिन्तनम् ॥ ३५ गायत्रीच्छन्दो मन्त्रस्य यथासंख्याक्षराणि च । तावल्लक्षाणि कर्तव्यं पुरश्चरणकं तथा ॥ ३६ जुहुयात्तद्दशांशेन सघृतेन पयोऽन्धसा । तिलैः पत्रैः प्रसूनैश्च यवैश्च मधुरान्वितैः ॥ ३७ कुर्याद्दशांशतो होमं ततः सिद्धो भवेन्मनुः । गायत्री चैव संसेव्या धर्मकामार्थमोक्षदा ॥ ३८ नित्ये नैमित्तिके काम्ये त्रितये तु परायणः । गायत्र्यास्तु परं नास्ति इह लोके परत्र च ॥ ३९ मध्याह्नमितभुङ् मौनी त्रिःस्नानार्चनतत्परः । जले लक्षत्रयं धीमाननन्यमानसक्रियः ॥ ४० कर्मणा यो जपेत्पश्चात्कर्मभिः स्वेच्छयापि वा । यावत्कार्यं न सिध्येत्तु तावत्कुर्याज्जपादिकम् ॥ ४१ सामान्यकाम्यकर्मादौ यथावद्विधिरुच्यते । आदित्यस्योदये स्नात्वा सहस्रं प्रत्यहं जपेत् ॥ ४२ आयुरारोग्यमैश्वर्यं धनं च लभते ध्रुवम् । षण्मासं वा त्रिमासं वा वर्षान्ते सिद्धिमाप्नुयात् ॥ ४३ पद्मानां लक्षहोमेन घृताक्तानां हुताशने । प्राप्नोति निखिलं मोक्षं सिध्यत्येव न संशयः ॥ ४४ मन्त्रसिद्धिं विना कर्तुर्जपहोमादिकाः क्रियाः । काम्यं वा यदि वा मोक्षः सर्वं तनिष्फलं भवेत् ॥ ४५ पञ्चविंशतिलक्षेण दध्ना क्षीरेण वा हुतात् । स्वदेहे सिध्यते जन्तुर्महर्षीणां मतं तथा ॥ ४६ अष्टाङ्गयोगसिद्ध्या च नरः प्राप्नोति यत्फलम् । तत्फलं सिद्धिमाप्नोति नात्र कार्या विचारणा ॥ ४७ शक्तो वापि त्वशक्तो वा आहारं नियतं चरेत् । षण्मासात्तस्य सिद्धिः स्याद्गुरुभक्तिरतः सदा ॥ ४८ एकाहं पञ्चगव्याशी चैकाहं मारुताशनः । एकाहं ब्राह्मणान्नाशी गायत्रीजपकृद्भवेत् ॥ ४९ स्नात्वा गङ्गादितीर्थेषु शतमन्तर्जले जपेत् । शतेनापस्ततः पीत्वा सर्वपापैः प्रमुच्यते ॥ ५० चान्द्रायणादिकृच्छ्रस्य फलं प्राप्नोति निश्चितम् । राजा वा यदि वा विप्रस्तपः कुर्यात्स्वके गृहे ॥ ५१ गृहस्थो ब्रह्मचारी वा वानप्रस्थोऽथवापि च । अधिकारपरत्वेन फलं यज्ञादिपूर्वकम् ॥ ५२ श्रौतस्मार्तादिकं कर्म क्रियते मोक्षकाङ्क्षिभिः । साग्निकश्च सदाचारो विद्वद्भिश्च सुशिक्षितः ॥ ५३ ततः कुर्यात्प्रयत्नेन फलमूलोदकादिभिः । भिक्षान्नं शुद्धमश्नीयादष्टौ ग्रासान्स्वयं भुजेत् ॥ ५४ एवं पुरश्चरणकं कृत्वा मन्त्रसिद्धिमवाप्नुयात् । देवर्षे यदनुष्ठानाद्दारिद्र्यं विलयं व्रजेत् । यच्छ्रुत्वापि च पुण्यानां महतीं सिद्धिमाप्नुयात् ॥ ५५ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां एकादशस्कन्धे गायत्रीपुरश्चरणविधिकथनं नामैएकविंशोऽध्यायः
वैश्वदेवादिविधिनिरूपणम् श्रीनारायण उवाच अथातः श्रूयतां ब्रह्मन् वैश्वदेवविधानकम् । पुरश्चर्याप्रसङ्गेन ममापि स्मृतिमागतम्
देवयज्ञो ब्रह्मयज्ञो भूतयज्ञस्तथैव च । पितृयज्ञो मनुष्यस्य यज्ञश्चैव तु पञ्चमः
पञ्चसूना गृहस्थस्य चुल्ली पेषण्युपस्करः । कण्डणी चोदकुम्भश्च तेषां पापस्य शान्तये
न चुल्ल्यां नायसे पात्रे न भूमौ न च खर्परे । वैश्वदेवं प्रकुर्वीत कुण्डे वा स्थण्डिलेऽपि वा
न पाणिना न शूर्पेण न च मेध्याजिनादिभिः । मुखेनोपधमेदग्निं मुखादेव व्यजायत
पटकेन भवेद्व्याधिः शूर्पेण धननाशनम् । पाणिना मृत्युमाप्नोति कर्मसिद्धिर्मुखेन तु
फलैर्दधिघृतैः कुर्यान्मूलशाकोदकादिभिः । अलाभे येन केनापि काष्ठमूलतृणादिभिः
जुहुयात्सर्पिषाभ्यक्तं तैलक्षारविवर्जितम् । दध्यक्तं वा पायसाक्तं तदभावेऽम्भसापि वा
शुष्कैः पर्युषितैः कुष्ठी उच्छिष्टेन द्विषां वशी । रुक्षैर्द्ररिद्रतां याति क्षारं हुत्वा व्रजत्यधः
अङ्गारान्भस्ममिश्रांस्तु निर्हृत्योत्तरतोऽनलात् । जुहुयाद्वैश्वदेवं तु न क्षारादिविमिश्रितम्
अकृत्वा वैश्वदेवं तु यो भुङ्क्ते मूढधीर्द्विजः । स मूढो नरकं याति कालसूत्रमवाक्शिराः
शाकं वा यदि वा पत्रं मूलं वा यदि वा फलम् । सङ्कल्पयेद्यदाहारं तेनाग्नौ जुहुयादपि
अकृते वैश्वदेवे तु भिक्षौ भिक्षार्थमागते । उद्धृत्य वैश्वदेवार्थं भिक्षां दत्त्वा विसर्जयेत्
वैश्वदेवकृतं दोषं शक्तो भिक्षुर्व्यपोहितुम् । न तु भिक्षुकृतं दोषं वैश्वदेवो व्यपोहति
यतिश्च ब्रह्मचारी च पक्वान्नस्वामिनावुभौ । तयोरन्नमदत्त्वा तु भुक्त्वा चान्द्रायणं चरेत्
वैश्वदेवानन्तरं च गोग्रासं प्रतिपादयेत् । तद्विधानं प्रवक्ष्यामि शृणु देवर्षिपूजित
सुरभिर्वैष्णवी माता नित्यं विष्णुपदे स्थिता । गोग्रासं च मया दत्तं सुरभे प्रतिगृह्यताम्
गोभ्यश्च नम इत्येव पूजां कृत्वा गवेऽर्पयेत् । गोग्रासेन तु गोमाता सुरभिः सम्प्रसीदति
ततो गोदोहनं कालं तिष्ठेच्चैव गृहाङ्गणे । अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते
स तस्मै दुष्कृतं दत्त्वा पुण्यमादाय गच्छति । माता पिता गुरुर्भ्राता प्रजा दासः समाश्रितः
अभ्यागतोऽतिथिश्चाग्निरेते पोष्या उदाहृताः । एवं ज्ञात्वा तु यो मोहान्न करोति गृहाश्रमम्
तस्य नायं तु न परो लोको भवति धर्मतः । यत्फलं सोमयागेन प्राप्नोति धनवान्द्विजः
सम्यक् पञ्चमहायज्ञैर्दरिद्रस्तेन चाप्नुयात् । अथ प्राणाग्निहोत्रं तु वक्ष्यामि मुनिपुङ्गव
यज्ज्ञात्वा मुच्यते जन्तुर्जन्ममृत्युजरादिभिः । परिज्ञानेन मुच्यन्ते नराः पातककिल्बिषैः
विधिना भुज्यते येन मुच्येत स ऋणत्रयात् । कुलान्युद्धरते विप्रो नरकानेकविंशतिम्
सर्वयज्ञफलप्राप्तिः सर्वलोकेषु गच्छति । हृत्पुण्डरीकमरणिर्मनो मन्धानसंज्ञकम्