अथ सायन्तनीं सन्ध्यां प्रवक्ष्यामि महामुने । यदनुष्ठानमात्रेण महामाया प्रसीदति
आचम्य प्राणानायम्य साधकः स्थिरमानसः । बद्धपद्मासनो योगी सायंकाले स्थिरो भवेत्
श्रुतिस्मृत्यादिकर्मादौ सगर्भः प्राणसंयमः । अगर्भो ध्यानमात्रं तु स चामन्त्रः प्रकीर्तितः
भूतशुद्ध्यादिकं कृत्वा नान्यथा कर्म कीर्तितम् । सलक्षो देवतां ध्यात्वा पूरकुम्भकरेचकैः
ध्यानं प्रकुर्यात्सन्ध्यायां सायंकाले विचक्षणः । वृद्धां सरस्वतीं देवीं कृष्णाङ्गीं कृष्णवाससम्
शङ्खचक्रगदापद्महस्तां गरुडवाहनाम् । नानारत्नलसद्भूषां क्वणन्मञ्जीरमेखलाम्
अनर्घ्यरत्नमुकुटां तारहारावलीयुताम् । ताटङ्कबद्धमाणिक्यकान्तिशोभिकपोलकाम्
पीताम्बरधरां देवीं सच्चिदानन्दरूपिणीम् । सामवेदेन सहितां संयुतां सत्त्ववर्त्मना
व्यवस्थितां च स्वर्लोके आदित्यपय्हगामिनीम् । आवाहयाम्यहं देवीमायान्तीं सूर्यमण्डलात्
एवं ध्यात्वा च तां देवीं सन्ध्यासङ्कल्पमाचरेत् । आपो हि ष्ठेति मन्त्रेण अग्निश्चेति तथैव च
विदध्यादाचमनकं शेषं पूर्ववदीरितम् । गायत्रीमन्त्रमुक्च्चार्य श्रीनारायणप्रीतये
अर्घ्यं दद्याच्च सूर्याय साधकः शुद्धमानसः । उभौ पादौ समौ कृत्वा हस्ते धूत्वा जलाञ्जलिम्
देवं ध्यात्वा मण्डलस्थं क्षिपेदर्घ्यं ततः क्रमात् । अर्घ्यं दद्यात्तु यो नीरे मूढात्मा ज्ञानवर्जितः
उल्लङ्घ्य स्मृतिमन्त्रांश्च प्रायश्चित्ती भवेद्द्विजः । ततः सूर्यमुपस्थायाप्यसावादित्यमन्त्रतः
गायत्र्याश्च जपं कुर्यादुपविश्य ततो बृसीम् । सहस्रं वा तदर्धं वा श्रीदेवीध्यानपूर्वकम्
यथा प्रातः पुनस्तद्वदुपस्थानादिकं चरेत् । सायं सन्ध्यातर्पणे च क्रमेण परिकीर्तयेत्
वसिष्ठो ऋषिरेवात्र सरस्वत्याः प्रकीर्तितः । देवता विष्णुरूपा सा छन्दश्चैव सरस्वती
सायंकालीनसन्ध्यायास्तर्पणे विनियोगकः । स्वरित्युक्त्वा च पुरुषं सामवेदं तथैव च
मण्डलं चेति सम्प्रोच्य हिरण्यगर्भकं तथा । तथैव परमात्मानं ततोऽपि च सरस्वतीम्
वेदमातरमेवात्र सङ्कृतिं तद्वदेव च । सन्ध्यां वृद्धां तथा विष्णुरूपिणीमुषसीं तथा
निर्मृजीं च तथा सर्वसिद्धीनां कारिणीं तथा । सर्वमन्त्राधिपतिकां भूर्भुवः स्वश्च पूरुषम्
इत्येवं तर्पणं कार्यं सन्ध्यायाः श्रुतिसम्मतम् । सायं सन्ध्याविधानं च कथितं पापनाशनम्
सर्वदुःखहरं व्याधिनाशकं मोक्षदं तथा । सदाचारेषु सन्ध्यायाः प्राधान्यं मुनिपुङ्गव । सन्ध्याचरणतो देवी भक्ताभीष्टं प्रयच्छति
गायत्रीपुरश्चरणविधिकथनम् श्रीनारायण उवाच अथातः श्रूयतां ब्रह्मन् गायत्र्या पापनाशनम् । पुरश्चरणकं पुण्यं यथैष्टफलदायकम्
पर्वताग्रे नदीतीरे बिल्वमूले जलाशये । गोष्ठे देवालयेऽश्वत्थे उद्याने तुलसीवने
पुण्यक्षेत्रे गुरोः पार्श्वे चित्तैकाग्र्यस्थलेऽपि च । पुरश्चरणकृन्मन्त्री सिध्यत्येव न संशयः
यस्य कस्यापि मन्त्रस्य पुरश्चरणमारभेत् । व्याहृतित्रयसंयुक्तां गायत्रीं चायुतं जपेत्
नृसिंहार्कवराहाणां तान्त्रिकं वैदिकं तथा । विना जप्त्वा तु गायत्रीं तत्सर्वं निष्कलं भवेत्
सर्वे शाक्ता द्विजाः प्रोक्ता न शैवा न च वैष्णवाः । आदिशक्तिमुपासन्ते गायत्रीं वेदमातरम्
मन्त्रं संशोध्य यत्नेन पुरश्चरणतत्परः । मन्त्रशोधनपूर्वाङ्गमात्मशोधनमुत्तमम्