सर्वाणि चैव छन्दांसि तथोङ्कारस्तथैव च । वषट्कारो व्याहृतयः सावित्री च ततः परम्
गायत्री चैव यज्ञाश्च द्यावापृथिवी इत्यपि । अन्तरिक्षं त्वहोरात्राणि च सांख्या अतः परम्
सिद्धाः समुद्रा नद्यश्च गिरयश्च ततः परम् । क्षेत्रौषधिवनस्पत्यो गन्धर्वाप्सरसस्तथा
नागा वयांसि गावश्च साध्या विप्रास्तथैव च । यक्षा रक्षांसि भूतानीत्येवमन्तानि कीर्तयेत्
अथो निवीती भूत्वा च ऋषीन्सन्तर्पयेदपि । शतर्चिनो माध्यमाश्च गृत्समदस्तथैव च
विश्वामित्रो वामदेवोऽत्रिर्भरद्वाज एव च । वसिष्ठश्च प्रगाथश्च पावमान्यस्ततः परम्
क्षुद्रसूक्ता महासूक्ताः सनकश्च सनन्दनः । सनातनस्तथैवात्र सनत्कुमार एव च
कपिलासुरिनामानौ वोहलिः पञ्चशीर्षकः । प्राचीनावीतिना तच्च कर्तव्यमथ तर्पणम्
सुमन्तुर्जैमिनिर्वैशम्पायनः पैलसूत्रयुक् । भाष्यभारतपूर्वं च महाभारत इत्यपि
धर्माचार्या इमे सर्वे तृप्यन्त्विति च कीर्तयेत् । जानन्ति बाहविगार्ग्यगौतमाश्चैव शाकलः
बाभ्रव्यमाण्डव्ययुतोमाण्डूकेयस्ततः परम् । गार्गी वाचक्नवी चैव वडवा प्रातिथेयिका
सुलभायुक्तमैत्रेयी कहोलश्च ततः परम् । कौषीतकं महाकौषीतकं वै तर्पयेत्ततः
भारद्वाजं च पैङ्ग्यं च महापैङ्ग्यं सुयज्ञकम् । सांख्यायनमैतरेयं महैतरेयमेव च
बाष्कलं शाकलं चैव सुजातवक्त्रमेव च । औदवाहिं च सौजामिं शौनकं चाश्वलायनम्
ये चान्ये सर्व आचार्यास्ते सर्वे तृप्तिमाप्नुयुः । ये के चास्मत्कुले जाता अपुत्रा गोत्रिणो मृताः
ते गृह्णन्तु मया दत्तं वस्त्रनिष्पीडनोदकम् । एवं ते ब्रह्मयज्ञस्य विधिरुक्तो महामुने
यश्चायं कुरुते ब्रह्मयज्ञस्य विधिमुत्तमम् । सर्ववेदाङ्गपाठस्य फलमाप्नोति साधकः
वैश्वदेवं ततः कुर्यान्नित्यश्राद्धं तथैव च । अतिथिभ्योऽन्नदानं च नित्यमेव समाचरेत्
गोग्रासं च ततो दत्त्वा भुञ्जीत ब्राह्मणैः सह । अह्नस्तु पञ्चमे भागे प्रकुर्यादेतदुत्तमम्
इतिहासपुराणाद्यैः षष्ठसप्तमकौ नयेत् । अष्टमे लोकयात्रा तु बहिः सन्ध्यां ततः पुनः
अथ सायन्तनीं सन्ध्यां प्रवक्ष्यामि महामुने । यदनुष्ठानमात्रेण महामाया प्रसीदति
आचम्य प्राणानायम्य साधकः स्थिरमानसः । बद्धपद्मासनो योगी सायंकाले स्थिरो भवेत्
श्रुतिस्मृत्यादिकर्मादौ सगर्भः प्राणसंयमः । अगर्भो ध्यानमात्रं तु स चामन्त्रः प्रकीर्तितः
भूतशुद्ध्यादिकं कृत्वा नान्यथा कर्म कीर्तितम् । सलक्षो देवतां ध्यात्वा पूरकुम्भकरेचकैः
ध्यानं प्रकुर्यात्सन्ध्यायां सायंकाले विचक्षणः । वृद्धां सरस्वतीं देवीं कृष्णाङ्गीं कृष्णवाससम्
शङ्खचक्रगदापद्महस्तां गरुडवाहनाम् । नानारत्नलसद्भूषां क्वणन्मञ्जीरमेखलाम्
अनर्घ्यरत्नमुकुटां तारहारावलीयुताम् । ताटङ्कबद्धमाणिक्यकान्तिशोभिकपोलकाम्
पीताम्बरधरां देवीं सच्चिदानन्दरूपिणीम् । सामवेदेन सहितां संयुतां सत्त्ववर्त्मना
व्यवस्थितां च स्वर्लोके आदित्यपय्हगामिनीम् । आवाहयाम्यहं देवीमायान्तीं सूर्यमण्डलात्
एवं ध्यात्वा च तां देवीं सन्ध्यासङ्कल्पमाचरेत् । आपो हि ष्ठेति मन्त्रेण अग्निश्चेति तथैव च