उदुत्यमिति सूक्तेन सूर्योपस्थानमेव च । चित्रं देवानामिति च सूर्योपस्थानमाचरेत्
ततो जपं प्रकुर्वीत मन्त्रसाधनतत्परः । जपस्यापि प्रकारं तु वक्ष्यामि शृणु नारद
कृत्वोत्तानौ करौ प्रातः सायं चाधः करौ तथा । मध्याह्ने हृदयस्थौ तु कृत्वा जपमुदीरयेत्
पर्वद्वयमनामिक्याः कनिष्ठादिक्रमेण तु । तर्जनीमूलपर्यन्तं करमाला प्रकीर्तिता
गोघ्नः पितृघ्नो मातृघ्नो भ्रूणहा गुरुतल्पगः । ब्रह्मस्वक्षेत्रहारी च यश्च विप्रः सुरां पिबेत्
स गायत्र्या सहस्रेण पूतो भवति मानवः । मानसं वाचिकं पापं विषयेन्द्रियसङ्गजम्
तत्किल्बिषं नाशयति त्रीणि जन्मानि मानवः । गायत्रीं यो न जानाति वृथा तस्य परिश्रमः
पठेच्च चतुरो वेदान् गायत्रीं चैकतो जपेत् । वेदानां चावृतेस्तद्वद्गायत्रीजप उत्तमः
इति मध्याह्नसन्ध्यायाः प्रकारः कीर्तितो मया । अतः परं प्रवक्ष्यामि ब्रह्मयज्ञविधिक्रमम्
ब्रह्मयज्ञादिकीर्तनम् श्रीनारायण उवाच त्रिराचम्य द्विजः पूर्वं द्विर्मार्जनमथाचरेत् । उपस्पृशेत्सव्यपाणिं पादौ च प्रोक्षयेत्ततः
शिरसि चक्षुषि तथा नासायां श्रोत्रदेशके । हृदये च तथा मौलौ प्रोक्षणं सम्यगाचरेत्
देशकालौ समुच्चार्य ब्रह्मयज्ञमथाचरेत् । द्वौ दर्भौ दक्षिणे हस्ते वामे त्रीनासने सकृत्
उपवीते शिखायां च पादमूले सकृत्सकृत् । विमुक्तये सर्वपापक्षयार्थं चैवमेव हि
सूत्रोक्तदेवताप्रीत्यै ब्रह्मयज्ञं करोम्यहम् । गायत्रीं त्रिर्जपेत्पूर्वं चाग्निमीळे ततः परम्
यदङ्गेति ततः प्रोच्य अग्निर्वै इति कीर्तयेत् । अथ महाव्रतं चैव पन्था एतच्च कीर्तयेत्
अथातः संहितायाश्च विदा मघवदित्यपि । महाव्रतस्येति तथा इषे त्वोर्जे इतीव हि
अग्न आयाहि चेत्येवं शन्तो देवीरितीति च । अथ तस्य समाम्नायो वृद्धिरादैजितीव हि
अथ शिक्षां प्रवक्ष्यामि पञ्चसंवत्सरेति च । मयरसतजभनेत्येव गौर्ग्मा इत्येव कीर्तयेत्
अथातो धर्मजिज्ञासा अथातो ब्रह्म इत्यपि । तच्छंयोरिति च प्रोच्य ब्रह्मणे नम इत्यपि
तर्पणं चैव देवानां ततः कुर्यात्प्रदक्षिणम् । प्रजापतिश्च ब्रह्मा च वेदा देवास्तथर्षयः
सर्वाणि चैव छन्दांसि तथोङ्कारस्तथैव च । वषट्कारो व्याहृतयः सावित्री च ततः परम्
गायत्री चैव यज्ञाश्च द्यावापृथिवी इत्यपि । अन्तरिक्षं त्वहोरात्राणि च सांख्या अतः परम्
सिद्धाः समुद्रा नद्यश्च गिरयश्च ततः परम् । क्षेत्रौषधिवनस्पत्यो गन्धर्वाप्सरसस्तथा
नागा वयांसि गावश्च साध्या विप्रास्तथैव च । यक्षा रक्षांसि भूतानीत्येवमन्तानि कीर्तयेत्
अथो निवीती भूत्वा च ऋषीन्सन्तर्पयेदपि । शतर्चिनो माध्यमाश्च गृत्समदस्तथैव च
विश्वामित्रो वामदेवोऽत्रिर्भरद्वाज एव च । वसिष्ठश्च प्रगाथश्च पावमान्यस्ततः परम्
क्षुद्रसूक्ता महासूक्ताः सनकश्च सनन्दनः । सनातनस्तथैवात्र सनत्कुमार एव च
कपिलासुरिनामानौ वोहलिः पञ्चशीर्षकः । प्राचीनावीतिना तच्च कर्तव्यमथ तर्पणम्
सुमन्तुर्जैमिनिर्वैशम्पायनः पैलसूत्रयुक् । भाष्यभारतपूर्वं च महाभारत इत्यपि
धर्माचार्या इमे सर्वे तृप्यन्त्विति च कीर्तयेत् । जानन्ति बाहविगार्ग्यगौतमाश्चैव शाकलः