किं मया बहु वक्तव्यं स्थाने संशयवर्जिते । सेवनीयं पदाम्भोजं भगवत्या निरन्तरम्
नातः परतरं किञ्चिदधिकं जगतीतले । सेवनीया परा देवी निर्गुणा सगुणाथवा
श्रीनारायण उवाच इति तस्य वचः श्रुत्वा राजर्षेर्धार्मिकस्य च । प्रसन्नहृदयाः सर्वे गताः स्वस्वनिकेतनम्
एवंप्रभावा सा देवी तत्पूजायाः फलं कियत् । अस्तीति केन प्रष्टव्यं वक्तव्यं वा न केनचित्
येषां तु जन्मसाफल्यं तेषां श्रद्धा तु जायते । येषां तु जन्मसाङ्कर्यं तेषां श्रद्धा न जायते
मध्याह्नसंध्यावर्णनम् श्रीनारायण उवाच अथातः श्रूयतां ब्रह्मन् सन्ध्यां माध्याह्निकीं शुभाम् । यदनुष्ठानतोऽपूर्वं जायतेऽत्युत्तमं फलम्
सावित्रीं युवतीं श्वेतवर्णां चैव त्रिलोचनाम् । वरदां चाक्षमालाढ्यां त्रिशूलाभयहस्तकाम्
वृषारूढां यजुर्वेदसंहितां रुद्रदेवताम् । तमोगुणयुतां चैव भुवर्लोकव्यवस्थिताम्
आदित्यमार्गसंचारकर्त्रीं मायां नमाम्यहम् । आदिदेवीमथ ध्यात्वाऽऽचमनादि च पूर्ववत्
अथ चार्घ्यप्रकरणं पुष्पाणि चिनुयात्ततः । तदलाभे बिल्वपत्रं तोयेन मिश्रयेत्ततः
ऊर्ध्वं च सूर्याभिमुखं क्षिप्त्वार्घ्यं प्रतिपादयेत् । प्रातःसन्ध्यादिवत्सर्वमुपसंहारपूर्वकम्
मध्याह्ने केचिदिच्छन्ति सावित्रीं तु तदित्यृचम् । असम्प्रदायं तत्कर्म कार्यहानिस्तु जायते
कारणं सन्ध्ययोश्चात्र मन्देहा नाम राक्षसाः । भक्षितुं सूर्यमिच्छन्ति कारणं श्रुतिचोदितम्
अतस्तु कारणाद्विप्रः सन्ध्यां कुर्यात्प्रयत्नतः । सन्ध्ययोरुभयोर्नित्यं गायत्र्या प्रणवेन च
अम्भस्तु प्रक्षिपेत्तेन नान्यथा श्रुतिघातकः । आकृष्णेनेति मन्त्रेण पुष्पैर्वाम्बुविमिश्रितम्
अलाभे बिल्वदूर्वादिपत्रेणोक्तेन पूर्वकम् । अर्ध्यं दद्यात्प्रयत्नेन साङ्गं सन्ध्याफलं लभेत्
अत्रैव तर्पणं वक्ष्ये शृणु देवर्षिसत्तम । भुवः पुनः पूरुषं तु तर्पयामि नमो नमः
यजुर्वेदं तर्पयामि मण्डलं तर्पयामि च । हिरण्यगर्भं च तथान्तरात्मानं तथैव च
सावित्रीं च ततो देवमातरं साङ्कृतिं तथा । सन्ध्यां तथैव युवतीं रुद्राणीं नीमृजां तथा
सर्वार्थानां सिद्धिकरीं सर्वमन्त्रार्थसिद्धिदाम् । भूर्भुवः स्वः पूरुषं तु इति मध्याह्नतर्पणम्
उदुत्यमिति सूक्तेन सूर्योपस्थानमेव च । चित्रं देवानामिति च सूर्योपस्थानमाचरेत्
ततो जपं प्रकुर्वीत मन्त्रसाधनतत्परः । जपस्यापि प्रकारं तु वक्ष्यामि शृणु नारद
कृत्वोत्तानौ करौ प्रातः सायं चाधः करौ तथा । मध्याह्ने हृदयस्थौ तु कृत्वा जपमुदीरयेत्
पर्वद्वयमनामिक्याः कनिष्ठादिक्रमेण तु । तर्जनीमूलपर्यन्तं करमाला प्रकीर्तिता
गोघ्नः पितृघ्नो मातृघ्नो भ्रूणहा गुरुतल्पगः । ब्रह्मस्वक्षेत्रहारी च यश्च विप्रः सुरां पिबेत्
स गायत्र्या सहस्रेण पूतो भवति मानवः । मानसं वाचिकं पापं विषयेन्द्रियसङ्गजम्
तत्किल्बिषं नाशयति त्रीणि जन्मानि मानवः । गायत्रीं यो न जानाति वृथा तस्य परिश्रमः
पठेच्च चतुरो वेदान् गायत्रीं चैकतो जपेत् । वेदानां चावृतेस्तद्वद्गायत्रीजप उत्तमः
इति मध्याह्नसन्ध्यायाः प्रकारः कीर्तितो मया । अतः परं प्रवक्ष्यामि ब्रह्मयज्ञविधिक्रमम्
ब्रह्मयज्ञादिकीर्तनम् श्रीनारायण उवाच त्रिराचम्य द्विजः पूर्वं द्विर्मार्जनमथाचरेत् । उपस्पृशेत्सव्यपाणिं पादौ च प्रोक्षयेत्ततः