सूर्यलोकमवाप्नोति नात्र कार्या विचारणा । शतदीपांस्तथा दद्यात्सहस्रान्वा समाहितः
नैवेद्यं पुरतो देव्याः स्थापयेत्पर्वताकृतिम् । लेह्यैश्चोष्यैस्तथा पेयैः षड्रसैस्तु समाहितैः
नानाफलानि दिव्यानि स्वादूनि रसवन्ति च । स्वर्णपात्रस्थितान्नानि दद्याद्देव्यै निरन्तरम्
तृप्तायां श्रीमहादेव्यां भवेत्तृप्तं जगत्त्रयम् । यतस्तदात्मकं सर्वं रज्जौ सर्पो यथा तथा
ततः पानीयकं दद्याच्छुभं गङ्गाजलं महत् । कर्पूरवालासंयुक्तं शीतलं कलशस्थितम्
ताम्बूलं च ततो देव्यै कर्पूरशकलान्वितम् । एलालवङ्गसंयुक्तं मुखसौगन्ध्यदायकम्
दद्याद्देव्यै महाभक्त्या येन देवी प्रसीदति । मृदङ्गवीणामुरजढक्कादुन्दुभिनिःस्वनैः
तोषयेज्जगतां धात्रीं गायनैरतिमोहनैः । वेदपारायणैः स्तोत्रैः पुराणादिभिरप्युत
छत्रं च चामरे द्वे च दद्याद्देव्यै समाहितः । राजोपचारान् श्रीदेव्यै नित्यमेव समर्पयेत्
प्रदक्षिणां नमस्कारं कुर्याद्देव्या अनेकधा । क्षमापयेज्जगद्धात्रीं जगदम्बां मुहुर्मुहुः
सकृत्स्मरणमात्रेण यत्र देवी प्रसीदति । एतादृशोपचारैश्च प्रसीदेदत्र कः स्मयः
स्वभावतो भवेन्माता पुत्रेऽतिकरुणावती । तेन भक्तौ कृतायां तु वक्तव्यं किं ततः परम्
अत्र ते कथयिष्यामि पुरावृत्तं सनातनम् । बृहद्रथस्य राजर्षेः प्रियं भक्तिप्रदायकम्
चक्रवाकोऽभवत्पक्षी क्वचिद्देशे हिमालये । भ्रमन्नानाविधान्देशान्ययौ काशीपुरं प्रति
अन्नपूर्णामहास्थाने प्रारब्धवशतो द्विजः । जगाम लीलया तत्र कणलोभादनाथवत्
कृत्वा प्रदक्षिणामेकां जगाम स विहायसा । देशान्तरं विहायैव पुरीं मुक्तिप्रदायिनीम्
कालान्तरे ममारासौ गतः स्वर्गपुरीं प्रति । बुभुजे विषयान्सर्वान् दिव्यरूपधरो युवा
कल्पद्वयं तथा भुक्त्वा पुनः प्राप भुवं प्रति । क्षत्रियाणां कुले जन्म प्राप सर्वोत्तमोत्तमम्
बृहद्रथेति नाम्नाभूत्प्रसिद्धः क्षितिमण्डले । महायज्वा धार्मिकश्च सत्यवादी जितेन्द्रियः
त्रिकालज्ञः सार्वभौमो यमी परपुरञ्जयः । पूर्वजन्मस्मृतिस्तस्य वर्तते दुर्लभा भुवि
इति श्रुत्वा किंवदन्तीं मुनयः समुपागताः । कृतातिथ्या नृपेन्द्रेण विष्टरेषूषुरेव ते
पप्रच्छुर्मुनयः सर्वे संशयोऽस्ति महान्नृप । केन पुण्यप्रभावेण पूर्वजन्मस्मृतिस्तव
त्रिकालज्ञानमेवापि केन पुण्यप्रभावतः । ज्ञानं तवेति तज्ज्ञातुमागताः स्म तवान्तिकम्
वद निर्व्याजया वृत्त्या तदस्माकं यथातथम् । श्रीनारायण उवाच इति तेषां वचः श्रुत्वा राजा परमधार्मिकः
उवाच सकलं ब्रह्मन् त्रिकालज्ञानकारणम् । श्रूयतां मुनयः सर्वे मम ज्ञानस्य कारणम्
चक्रवाकः स्थितः पूर्वं नीचयोनिगतोऽपि वा । अज्ञानतोऽपि कृतवानन्नपूर्णाप्रदक्षिणाम्
तेन पुण्यप्रभावेण स्वर्गे कल्पद्वयस्थितिः । त्रिकालज्ञानताप्यस्मिन्नभूज्जन्मनि सुव्रताः
को वेद जगदम्बायाः पदस्मृतिफलं कियत् । स्मृत्वा तन्महिमानं तु पतन्त्यश्रूणि मेऽनिशम्
धिगस्तु जन्म तेषां वै कृतघ्नानां तु पापिनाम् । ये सर्वमातरं देवीं स्वोपास्यां न भजन्ति हि
न शिवोपासना नित्या न विष्णूपासना तथा । नित्योपास्तिः परा देव्या नित्या श्रुत्यैव चोदिता