काश्मीरचन्दनं दत्त्वा कस्तूरीबिन्दुभूषितम् । तथा सीमन्तसिन्दूरं चरणेऽलक्तपत्रकम्
इन्द्रासने समारूढो भवेद्देवपतिः परः । पुष्पाणि विविधान्याहुः पूजाकर्मणि साधवः
तानि दत्त्वा यथालाभं कैलासं लभते स्वयम् । बिल्वपत्राण्यमोघानि यो दद्यात्परशक्तये
तस्य दुःखं कदाचिच्च क्वचिच्च न भविष्यति । बिल्वपत्रत्रये रक्तचन्दनेन तु संल्लिखेत्
मायाबीजत्रयं यत्नात्सुस्फुटं चातिसुन्दरम् । मायाबीजादिकं नाम चतुर्थ्यन्तं समुच्चरेत्
नमोऽन्तं परया भक्त्या देवीचरणपङ्कजे । समर्पयेन्महादेव्यै कोमलं तच्च पत्रकम्
य एवं कुरुते भक्त्या मनुत्वं लभते हि सः । यस्तु कोटिदलैरेवं कोमलैरतिनिर्मलैः
पूजयेद्भुवनेशानीं ब्रह्माण्डाधिपतिर्भवेत् । कुन्दपुष्पैर्नवीनैस्तु लुलितैरष्टगन्धतः
कोटिसङ्ख्यैः पूजयेत्तु प्राजापत्यं लभेद्ध्रुवम् । मल्लिकामालतीपुष्पैरष्टगन्धेन लोलितैः
कोटिसङ्ख्यैः पूजया तु जायते स चतुर्मुखः । दशकोटिभिरप्येवं तैरेव कुसुमैर्मुने
विष्णुत्वं लभते मर्त्यो यत्सुरेष्वपि दुर्लभम् । विष्णुनैतद्व्रतं पूर्वं कृतं स्वपदलब्धये
शतकोटिभिरप्येवं सूत्रात्मत्वं व्रजेद्ध्रुवम् । व्रतमेतत्पुरा सम्यक्कृतं भक्त्या प्रयत्नतः
तेन व्रतप्रभावेण हिरण्योदरतां व्रजेत् । जपाकुसुमपुष्पस्य बन्धूककुसुमस्य च
दाडिमीकुसुमस्यापि विधिरेष उदीरितः । एवमन्यानि पुष्पाणि श्रीदेव्यै विधिनार्पयेत्
तस्य पुण्यफलस्यान्तं न जानातीश्वरोऽपि सः । तत्तदृतूद्भवैः पुष्पैर्नामसाहस्रसंख्यया
समर्पयेन्महादेव्यै प्रतिवर्षमतन्द्रितः । य एवं कुरुते भक्त्या महापातकसंयुतः
उपपातकयुक्तोऽपि मुच्यते सर्वपातकैः । देहान्ते श्रीपदाम्भोजं दुर्लभं देवसत्तमैः
प्राप्नोति साधकवरो मुने नास्त्यत्र संशयः । कृष्णागुरुं सकर्पूरं चन्दनेन समन्वितम्
सिल्हकं चाज्यसंयुक्तं गुग्गुलेन समन्वितम् । धूपं दद्यान्महादेव्यै येन स्याद्धूपितं गृहम्
तेन प्रसन्ना देवेशी ददाति भुवनत्रयम् । दीपं कर्पूरखण्डैश्च दद्याद्देव्यै निरन्तरम्
सूर्यलोकमवाप्नोति नात्र कार्या विचारणा । शतदीपांस्तथा दद्यात्सहस्रान्वा समाहितः
नैवेद्यं पुरतो देव्याः स्थापयेत्पर्वताकृतिम् । लेह्यैश्चोष्यैस्तथा पेयैः षड्रसैस्तु समाहितैः
नानाफलानि दिव्यानि स्वादूनि रसवन्ति च । स्वर्णपात्रस्थितान्नानि दद्याद्देव्यै निरन्तरम्
तृप्तायां श्रीमहादेव्यां भवेत्तृप्तं जगत्त्रयम् । यतस्तदात्मकं सर्वं रज्जौ सर्पो यथा तथा
ततः पानीयकं दद्याच्छुभं गङ्गाजलं महत् । कर्पूरवालासंयुक्तं शीतलं कलशस्थितम्
ताम्बूलं च ततो देव्यै कर्पूरशकलान्वितम् । एलालवङ्गसंयुक्तं मुखसौगन्ध्यदायकम्
दद्याद्देव्यै महाभक्त्या येन देवी प्रसीदति । मृदङ्गवीणामुरजढक्कादुन्दुभिनिःस्वनैः
तोषयेज्जगतां धात्रीं गायनैरतिमोहनैः । वेदपारायणैः स्तोत्रैः पुराणादिभिरप्युत
छत्रं च चामरे द्वे च दद्याद्देव्यै समाहितः । राजोपचारान् श्रीदेव्यै नित्यमेव समर्पयेत्
प्रदक्षिणां नमस्कारं कुर्याद्देव्या अनेकधा । क्षमापयेज्जगद्धात्रीं जगदम्बां मुहुर्मुहुः