शल्लकीमाधवीपुष्पमर्कमन्दारपुष्पकम् । केतकीं कर्णिकारं च कदम्बकुसुमं तथा
पुन्नागश्चम्पकस्तद्वद्यूथिकातगरौ तथा । एवमादीनि पुष्पाणि देवीप्रियकराणि च
गुग्गुलस्य भवेद्धूपो दीपः स्यात्तिलतैलतः । कृत्वेत्थं देवतापूजां ततो मूलमनुं जपेत्
एवं पूजां समाप्यैव वेदाभ्यासं चरेद्बुधः । ततः स्ववृत्त्या कुर्वीत पोष्यवर्गार्थसाधनम् । तृतीयदिनभागे तु नियमेन विचक्षणः
बृहद्रथकथानकम् नारद उवाच पूजाविशेषं श्रीदेव्याः श्रोतुमिच्छामि मानद । येनाश्रितेन मनुजः कृतकृत्यत्वमावहेत्
श्रीनारायण उवाच देवर्षे शृणु वक्ष्यामि श्रीमत्सु पूजनक्रमम् । भुक्तिमुक्तिप्रदं साक्षात्समस्तापन्निवारणम्
आचम्य मौनी सङ्कल्प्य भूतशुद्ध्यादिकं चरेत् । मातृकान्यासपूर्वं तु षडङ्गन्यासमाचरेत्
शङ्खस्य स्थापनं कृत्वा सामान्यार्घ्यं विधाय च । पूजाद्रव्याणि चास्त्रेण प्रोक्षयेन्मतिमान्नरः
गुरोरनुज्ञामादाय ततः पूजां समारभेत् । पीठपूजां पुरा कृत्वा देवीं ध्यायेत्ततः परम्
आसनाद्युपचारैश्च भक्तिप्रेमयुतः सदा । स्नापयेत्परदेवीं तां पञ्चामृतरसादिभिः
पौण्ड्रेक्षुरसपूर्णैस्तु कलशैः शतसंख्यकैः । स्तापयेद्यो महेशानीं न स भूयोऽभिजायते
यश्च चूतरसैरेवं स्नापयेज्जगदम्बिकाम् । वेदपारायणं कृत्वा रसेनेक्षूद्भवेन वा
तद्गेहं न त्यजेन्नित्यं रमा चैव सरस्वती । यस्तु द्राक्षारसेनैव वेदपारायणं चरन्
अभिषिञ्चेन्महेशानीं सकुटुम्बो नरोत्तमः । रसरेणुप्रमाणं च देवीलोके महीयते
कर्पूरागुरुकाश्मीरकस्तूरीपङ्कपङ्किलैः । सलिलैः स्नापयेद्देवीं वेदपारायणं चरन्
भस्मीभवन्ति पापानि शतजन्मार्जितानि च । यो दुग्धकलशैर्देवीं स्तापयेद्वेदपाठतः
आकल्पं स वसेन्नित्यं तस्मिन् वै क्षीरसागरे । यस्तु दध्नाभिषिञ्चेत्तां दधिकुल्यापतिर्भवेत्
मधुना च धृतेनैव तथा शर्करयापि च । स्नापयेन्मधुकुल्यादिनदीनां स पतिर्भवेत्
सहस्रकलशैर्देवीं स्नापयन्भक्तितत्परः । इह लोके सुखी भूत्वाप्यन्यलोके सुखी भवेत्
क्षौमं वस्त्रद्वयं दत्त्वा वायुलोकं स गच्छति । रत्ननिर्मितभूषाणां दाता निधिपतिर्भवेत्
काश्मीरचन्दनं दत्त्वा कस्तूरीबिन्दुभूषितम् । तथा सीमन्तसिन्दूरं चरणेऽलक्तपत्रकम्
इन्द्रासने समारूढो भवेद्देवपतिः परः । पुष्पाणि विविधान्याहुः पूजाकर्मणि साधवः
तानि दत्त्वा यथालाभं कैलासं लभते स्वयम् । बिल्वपत्राण्यमोघानि यो दद्यात्परशक्तये
तस्य दुःखं कदाचिच्च क्वचिच्च न भविष्यति । बिल्वपत्रत्रये रक्तचन्दनेन तु संल्लिखेत्
मायाबीजत्रयं यत्नात्सुस्फुटं चातिसुन्दरम् । मायाबीजादिकं नाम चतुर्थ्यन्तं समुच्चरेत्
नमोऽन्तं परया भक्त्या देवीचरणपङ्कजे । समर्पयेन्महादेव्यै कोमलं तच्च पत्रकम्
य एवं कुरुते भक्त्या मनुत्वं लभते हि सः । यस्तु कोटिदलैरेवं कोमलैरतिनिर्मलैः
पूजयेद्भुवनेशानीं ब्रह्माण्डाधिपतिर्भवेत् । कुन्दपुष्पैर्नवीनैस्तु लुलितैरष्टगन्धतः
कोटिसङ्ख्यैः पूजयेत्तु प्राजापत्यं लभेद्ध्रुवम् । मल्लिकामालतीपुष्पैरष्टगन्धेन लोलितैः
कोटिसङ्ख्यैः पूजया तु जायते स चतुर्मुखः । दशकोटिभिरप्येवं तैरेव कुसुमैर्मुने