यं रं लं वं हमिति च पुष्पाञ्जलिमथार्पयेत् । एवं पूजां विधायाथ चान्ते मुद्राः प्रदर्शयेत्
ध्यायेत्तु मनसा देवीं मन्त्रमुच्चारयेच्छनैः । न कम्पयेच्छिरो ग्रीवा दन्तान्नैव प्रकाशयेत्
विधिनाष्टोत्तरशतमष्टाविंशतिरेव वा । दशवारमशक्तो वा नातो न्यूनं कदाचन
तत उद्वासयेद्देवीमुत्तमेत्यनुवाकतः । न गायत्रीं जपेद्विद्वाञ्जलमध्ये कथञ्चन
यतः साग्निमुखी प्रोक्तेत्याहुः केचिन्महर्षयः । सुरभिर्ज्ञानशूर्पं च कूर्मो योनिश्च पङ्कजम्
लिङ्गं निर्वाणकं चैव जपान्तेऽष्टौ प्रदर्शयेत् । यदक्षरपदभ्रष्टं स्वरव्यञ्जनवर्जितम्
तत्सर्वं क्षम्यतां देवि कश्यपप्रियवादिनि । गायत्रीतर्पणं चातः करणीयं महामुने
गायत्री छन्द आख्यातं विश्वामित्रऋषिः स्मृतः । सविता देवता प्रोक्ता विनियोगश्च तर्पणे
भूरित्युक्त्वा च ऋग्वेदपुरुषं तर्पयामि च । भुव इत्येतदुक्त्वा च यजुर्वेदमथो वदेत्
स्वर्व्याहृतिं समुक्त्वा च सामवेदं समुच्चरेत् । मह इत्येतदुक्त्वान्तेऽथर्ववेदं च तर्पयेत्
जनः पदान्त इतिहासपुराणमितीरयेत् । तपः सर्वागमं चैव पुरुषं तर्पयामि च
सत्यं च सत्यलोकाख्यपुरुषं तर्पयामि च । ॐ भूर्भूर्लोकपुरुषं तर्पयामि ततो वदेत्
भुवश्चेति भुवर्लोकपुरुषं तर्पयामि च । स्वः स्वर्गलोकपुरुषं तर्पयामि ततः परम्
ॐभूरेकपदा नाम गायत्रीं तर्पयामि च । भुवो द्विपदां गायत्रीं तर्पयामीति कीर्तयेत्
स्वश्च त्रिपदां गायत्रीं तर्पयामि ततो वदेत् । ॐभूर्भुवः स्वश्चेति तथा गायत्रीं च चतुष्पदाम्
उषसीं चैव गायत्रीं सावित्रीं च सरस्वतीम् । वेदानां मातरं पृथ्वीमजां चैव तु कौशिकीम्
साङ्कृतिं वै सार्वजितिं गायत्रीं तर्पणे वदेत् । तर्पणान्ते च शान्त्यर्थं जातवेदसमीरयेत्
मानस्तोकेति मन्त्रं च शान्त्यर्थं प्रजपेत्सुधीः । ततोऽपि त्र्यम्बको मन्त्रः शान्त्यर्थः परिकीर्तितः
तच्छंयोरिति मन्त्रं च जपेच्छान्त्यर्थमेव तु । अतो देवा इति द्वाभ्यां सर्वाङ्गस्पर्शनं चरेत्
स्योनापृथिविमन्त्रेण भूम्यै कुर्यात्प्रणामकम् । यथाविधि च गोत्रादीनुच्चरेद्द्विजसत्तमः
एवं विधानं सन्ध्यायाः प्रातःकाले प्रकीर्तितम् । सन्ध्याकर्म समाप्यान्तेऽप्यग्निहोत्रं स्वयं हुनेत्
पञ्चायतनपूजां च ततः कुर्यात्समाहितः । शिवां शिवं गणपतिं सूर्यं विष्णुं तथार्चयेत्
पौरुषेण तु सूक्तेन व्याहृत्या वा समाहितः । मूलमन्त्रेण वा कुर्याद्ह्रीश्च ते इति मन्त्रतः
भवानीं तु यजेन्मध्ये तथैशान्यां तु माधवम् । आग्नेय्यां गिरिजानाथं गणेशं रक्षसां दिशि
वायव्यामर्चयेत्सूर्यमिति देवस्थितिक्रमः । षोडशानुपचारांश्च षोडशर्ग्भिर्हरेन्नरः
देवीमभ्यर्च्य पुरतो यजेदन्याननुक्रमात् । न देवीपूजनात्पुण्यमधिकं क्वचिदीक्ष्यते
अत एव तु सन्ध्यासु सन्ध्योपास्तिः श्रुतीरिता । नाक्षतैरर्चयेर्द्विष्णुं न तुलस्या गणेश्वरम्
दूर्वाभिर्नार्चयेद्दुर्गां केतकैर्न महेश्वरम् । मल्लिकाजातिकुसुमं कुटजं पनसं तथा
किंशुकं बकुलं कुन्दं लोध्रं तु करवीरकम् । शिंशपाऽपराजितापुष्पं बब्धूकागस्त्यपुष्पके
मदन्तं सिन्दुवारं च पालाशकुसुमं तथा । दूर्वाङ्कुरं बिल्वदलं कुशमञ्जरिकां तथा