श्रीनारायण उवाच प्रथमोऽयं मनुः स्वायम्भुव उक्तो महामुने । देव्याराधनतो येन प्राप्तं राज्यमकण्टकम्
प्रियव्रतोत्तानपादौ मनुपुत्रौ महौजसौ । राज्यपालनकर्तारौ विख्यातौ वसुधातले
द्वितीयश्च मनुः स्वारोचिष उक्तो मनीषिभिः । प्रियव्रतसुतः श्रीमानप्रमेयपराक्रमः
स स्वारोचिषनामापि कालिन्दीकूलतो मनुः । निवासं कल्पयामास सर्वसत्त्वप्रियङ्करः
जीर्णपत्राशनो भूत्वा तपः कर्तुमनुव्रतः । देव्या मूर्तिं मृण्मयीं च पूजयामास भक्तितः
एवं द्वादश वर्षाणि वनस्थस्य तपस्यतः । देवी प्रादुरभूत्तात सहस्रार्कसमद्युतिः
ततः प्रसन्ना देवेशी स्तवराजेन सुव्रता । ददौ स्वारोचिषायैव सर्वमन्वन्तराश्रयम्
आधिपत्यं जगद्धात्री तारिणीति प्रथामगात् । एवं स्वारोचिषमनुस्तारिण्याराधनात्ततः
आधिपत्यं च लेभे स सर्वारातिविवर्जितम् । धर्मं संस्थाप्य विधिवद्राज्यं पुत्रैः समं विभुः
भुक्त्वा जगाम स्वर्लोकं निजमन्वन्तराश्रयात् । तृतीय उत्तमो नाम प्रियव्रतसुतो मनुः
गङ्गाकूले तपस्तप्त्वा वाग्भवं सञ्जपन् रहः । वर्षाणि त्रीण्युपवसन् देव्यनुग्रहमाविशत्
स्तुत्वा देवीं स्तोत्रवरैर्भक्तिभावितमानसः । राज्यं निष्कण्टकं लेभे सन्ततिं चिरकालिकीम्
राज्योत्थान्यानि सौख्यानि भुक्त्वा धर्मान्युगस्य च । सोऽप्याजगाम पदवीं राजर्षिवरभाविताम्
चतुर्थस्तामसो नाम प्रियव्रतसुतो मनुः । नर्मदादक्षिणे कूले समाराध्य जगन्मयीम्
महेश्वरीं कामराजकूटजापपरायणः । वासन्ते शारदे काले नवरात्रसपर्यया
तोषयामास देवेशीं जलजाक्षीमनूपमाम् । तस्याः प्रसादमासाद्य नत्वा स्तोत्रैरनुत्तमैः
अकण्टकं महद्राज्यं बुभुजे गतसाध्वसः । पुत्रान्वलोद्धताञ्छूरान्दश वीर्यनिकेतनान्
उत्पाद्य निजभार्यायां जगामाम्बरमुत्तमम् । पञ्चमो मनुराख्यातो रैवतस्तामसानुजः
कालिन्दीकूलमाश्रित्य जजाप कामसंज्ञकम् । बीजं परमवाग्दर्पदायकं साधकाश्रयम्
एतदाराधनादाप स्वाराज्यर्द्धिमनुत्तमाम् । बलमप्रहतं लोके सर्वसिद्धिविधायकम्
सन्ततिं चिरकालीनां पुत्रपौत्रमयीं शुभाम् । धर्मान्व्यस्य व्यवस्थाप्य विषयानुपभुज्य च । जगामाप्रतिमः शूरो महेन्द्रालयमुत्तमम्
चाक्षुषमनुवृत्तवर्णनम् श्रीनारायण उवाच अथातः श्रूयतां चित्रं देवीमाहाक्त्यमुत्तमम् । अङ्गपुत्रेण मनुना यथाऽऽप्तं राज्यमुत्तमम्
अङ्गस्य राज्ञः पुत्रोऽभूच्चाक्षुषो मनुरुत्तमः । षष्ठः सुपुलहं नाम ब्रह्मर्षिं शरणं गतः
ब्रह्मर्षे त्वामहं प्राप्तः शरणं प्रणतार्तिहन् । शाधि मां किङ्करंस्वामिन् येनाहं प्राप्नुयां श्रियम्
मेदिन्याश्चाधिपत्यं मे स्याद्यथावदखण्डितम् । अव्याहतं भुजबलं शस्त्रास्त्रनिपुणं क्षमम्
सन्ततिश्चिरकालीनाप्यखण्डं वय उत्तमम् । अन्तेऽपवर्गलाभश्च स्यात्तथोपदिशाद्य मे
इत्येवं वचनं तस्य मनोः कर्णपथेऽभवत् । प्रत्युवाच मुनिः श्रीमान् देव्याः संराधनं परम्
राजन्नाकर्णय वचो मम श्रोत्रसुखं महत् । शिवामाराधयाद्य त्वं तत्प्रसादादिदं भवेत्
चाक्षुष उवाच कीदृगाराधनं देव्यास्तस्याः परमपावनम् । केनाकारेण कर्तव्यं कारुण्याद्वक्तुमर्हसि
मुनिरुवाच राजन्नाकर्ण्यतां देव्याः पूजनं परमव्ययम् । वाग्भवं बीजमव्यक्तं सञ्जप्यमनिशं तथा