षण्मुखाधोमुखं चैव व्यापकाञ्जलिकं तथा । शकटं यमपाशं च ग्रथितं सन्मुखोन्मुखम्
विलम्बं मुष्टिकं चैव मत्स्यं कूर्मं वराहकम् । सिंहाक्रान्तं महाक्रान्तं मुद्गरं पल्लवं तथा
चतुर्विंशतिमुद्राश्च गायत्र्याः सम्प्रदर्शयेत् । शताक्षरां च गायत्रीं सकृदावर्तयेत्सुधीः
चतुर्विंशत्यक्षराणि गायत्र्या कीर्तितानि हि । जातवेदसनाम्नीं च ऋचमुच्चारयेत्ततः
त्र्यम्बकस्यर्चमावृत्य गायत्री शतवर्णका । भवतीयं महापुण्या सकृज्जप्या बुधैरियम्
ॐकारं पूर्वमुच्चार्य भूर्भुवः स्वस्तथैव च । चतुर्विंशत्यक्षरां च गायत्रीं प्रोच्चरेत्ततः
एवं नित्यं जपं कुर्याद्ब्राह्मणो विप्रपुङ्गवः । स समग्रं फलं प्राप्य सन्ध्यायाः सुखमेधते
सन्ध्यादिकृत्यवर्णनम् श्रीनारायण उवाच भिन्नपादा तु गायत्री ब्रह्महत्याप्रणाशिनी । अभिन्नपादा गायत्री ब्रह्महत्यां प्रयच्छति
अच्छिन्नपादागायत्रीजपं कुर्वन्ति ये द्विजाः । अथोमुखाश्च तिष्ठन्ति कल्पकोटिशतानि च
सम्पुटैका षडोङ्कारा गायत्री विविधा मता । धर्मशास्त्रपुराणेषु इतिहासेषु सुव्रत
पञ्चप्रणवसंयुक्तां जपेदित्यनुशासनम् । जपसंख्याष्टभागान्ते पादो जप्यस्तुरीयकः
स द्विजः परमो ज्ञेयः परं सायुज्यमाप्नुयात् । अन्यथा प्रजपेद्यस्तु स जपो विफलो भवेत्
सम्पुटैका षडोङ्कारा भवेत्सा ऊर्ध्वरेतसाम् । गृहस्थो ब्रह्मचारी वा मोक्षार्थी तुरीयां जपेत्
तुरीयपादो गायत्र्याः परोरजसे सावदोम् । ध्यानमस्य प्रवक्ष्यामि जपसाङ्गफलप्रदम्
हृदि विकसितपद्मं सार्कसोमाग्निबिम्बं प्रणवमयमचिन्त्यं यस्य पीतं प्रकल्प्यम् । अचलपरमसूक्ष्मं ज्योतिराकाशसारं भवतु मम मुदेऽसौ सच्चिदानन्दरूपः
त्रिशूलयोनी सुरभिमक्षमालां च लिङ्गकम् । अम्बुजं च महामुद्रामिति सप्त प्रदर्शयेत्
या सन्ध्या सैव गायत्री सच्चिदानन्दरूपिणी । भक्त्या तां ब्राह्मणो नित्यं पूजयेच्च नमेत्ततः
ध्यातस्य पूजां कुर्वीत पञ्चभिश्चोपचारकैः । लं पृथिव्यात्मने गन्धमर्पयामि नमो नमः
हमाकाशात्मने पुष्पं चार्पयामि नमो नमः । यं च वाय्वात्मने धूपं चार्पयामि ततो वदेत्
रं च वह्न्यात्मने दीपमर्पयामि ततो वदेत् । वममृतात्मने तस्मै नैवेद्यमपि चार्पयेत्
यं रं लं वं हमिति च पुष्पाञ्जलिमथार्पयेत् । एवं पूजां विधायाथ चान्ते मुद्राः प्रदर्शयेत्
ध्यायेत्तु मनसा देवीं मन्त्रमुच्चारयेच्छनैः । न कम्पयेच्छिरो ग्रीवा दन्तान्नैव प्रकाशयेत्
विधिनाष्टोत्तरशतमष्टाविंशतिरेव वा । दशवारमशक्तो वा नातो न्यूनं कदाचन
तत उद्वासयेद्देवीमुत्तमेत्यनुवाकतः । न गायत्रीं जपेद्विद्वाञ्जलमध्ये कथञ्चन
यतः साग्निमुखी प्रोक्तेत्याहुः केचिन्महर्षयः । सुरभिर्ज्ञानशूर्पं च कूर्मो योनिश्च पङ्कजम्
लिङ्गं निर्वाणकं चैव जपान्तेऽष्टौ प्रदर्शयेत् । यदक्षरपदभ्रष्टं स्वरव्यञ्जनवर्जितम्
तत्सर्वं क्षम्यतां देवि कश्यपप्रियवादिनि । गायत्रीतर्पणं चातः करणीयं महामुने
गायत्री छन्द आख्यातं विश्वामित्रऋषिः स्मृतः । सविता देवता प्रोक्ता विनियोगश्च तर्पणे
भूरित्युक्त्वा च ऋग्वेदपुरुषं तर्पयामि च । भुव इत्येतदुक्त्वा च यजुर्वेदमथो वदेत्
स्वर्व्याहृतिं समुक्त्वा च सामवेदं समुच्चरेत् । मह इत्येतदुक्त्वान्तेऽथर्ववेदं च तर्पयेत्