भ्रूमध्ये चैव योकारं योकारं च ललाटके । नकारं वै पूर्वमुखे प्रकारं दक्षिणे मुखे
चोकारं पश्चिममुखे दकारं चोत्तरे मुखे । याकारं मूर्ध्नि विन्यस्य तकारं व्यापकं न्यसेत्
एतन्न्यासविधिं केचिन्नेच्छन्ति जपतत्पराः । ततो ध्यायेन्महादेवीं जगन्मातरमम्बिकाम्
भास्वज्जपाप्रसूनाभां कुमारीं परमेश्वरीम् । रक्ताम्बुजासनारूढां रक्तगन्धानुलेपनाम्
रक्तमाल्याम्बरधरां चतुरास्यां चतुर्भुजाम् । द्विनेत्रां स्रुक्स्रुवो मालां कुण्डिकां चैव बिभ्रतीम्
सर्वाभरणसन्दीप्तामृग्वेदाध्यायिनीं पराम् । हंसपत्रामाहवनीयमध्यस्थां ब्रह्मदेवताम्
चतुष्पदामष्टकुक्षिं सप्तशीर्षां महेश्वरीम् । अग्निवक्त्रां रुद्रशिखां विष्णुचित्तां तु भावयेत्
ब्रह्मा तु कवचं यस्या गोत्रं सांख्यायनं स्मृतम् । आदित्यमण्डलान्तःस्थां ध्यायेद्देवीं महेश्वरीम्
एवं ध्यात्वा विधानेन गायत्रीं वेदमातरम् । ततो मुद्राः प्रकुर्वीत देव्याः प्रीतिकराः शुभाः
सुमुखं सपुटं चैव विततं विस्तृतं तथा । द्विमुखं त्रिमुखं चैव चतुष्कं पञ्चकं तथा
षण्मुखाधोमुखं चैव व्यापकाञ्जलिकं तथा । शकटं यमपाशं च ग्रथितं सन्मुखोन्मुखम्
विलम्बं मुष्टिकं चैव मत्स्यं कूर्मं वराहकम् । सिंहाक्रान्तं महाक्रान्तं मुद्गरं पल्लवं तथा
चतुर्विंशतिमुद्राश्च गायत्र्याः सम्प्रदर्शयेत् । शताक्षरां च गायत्रीं सकृदावर्तयेत्सुधीः
चतुर्विंशत्यक्षराणि गायत्र्या कीर्तितानि हि । जातवेदसनाम्नीं च ऋचमुच्चारयेत्ततः
त्र्यम्बकस्यर्चमावृत्य गायत्री शतवर्णका । भवतीयं महापुण्या सकृज्जप्या बुधैरियम्
ॐकारं पूर्वमुच्चार्य भूर्भुवः स्वस्तथैव च । चतुर्विंशत्यक्षरां च गायत्रीं प्रोच्चरेत्ततः
एवं नित्यं जपं कुर्याद्ब्राह्मणो विप्रपुङ्गवः । स समग्रं फलं प्राप्य सन्ध्यायाः सुखमेधते
सन्ध्यादिकृत्यवर्णनम् श्रीनारायण उवाच भिन्नपादा तु गायत्री ब्रह्महत्याप्रणाशिनी । अभिन्नपादा गायत्री ब्रह्महत्यां प्रयच्छति
अच्छिन्नपादागायत्रीजपं कुर्वन्ति ये द्विजाः । अथोमुखाश्च तिष्ठन्ति कल्पकोटिशतानि च
सम्पुटैका षडोङ्कारा गायत्री विविधा मता । धर्मशास्त्रपुराणेषु इतिहासेषु सुव्रत
पञ्चप्रणवसंयुक्तां जपेदित्यनुशासनम् । जपसंख्याष्टभागान्ते पादो जप्यस्तुरीयकः
स द्विजः परमो ज्ञेयः परं सायुज्यमाप्नुयात् । अन्यथा प्रजपेद्यस्तु स जपो विफलो भवेत्
सम्पुटैका षडोङ्कारा भवेत्सा ऊर्ध्वरेतसाम् । गृहस्थो ब्रह्मचारी वा मोक्षार्थी तुरीयां जपेत्
तुरीयपादो गायत्र्याः परोरजसे सावदोम् । ध्यानमस्य प्रवक्ष्यामि जपसाङ्गफलप्रदम्
हृदि विकसितपद्मं सार्कसोमाग्निबिम्बं प्रणवमयमचिन्त्यं यस्य पीतं प्रकल्प्यम् । अचलपरमसूक्ष्मं ज्योतिराकाशसारं भवतु मम मुदेऽसौ सच्चिदानन्दरूपः
त्रिशूलयोनी सुरभिमक्षमालां च लिङ्गकम् । अम्बुजं च महामुद्रामिति सप्त प्रदर्शयेत्
या सन्ध्या सैव गायत्री सच्चिदानन्दरूपिणी । भक्त्या तां ब्राह्मणो नित्यं पूजयेच्च नमेत्ततः
ध्यातस्य पूजां कुर्वीत पञ्चभिश्चोपचारकैः । लं पृथिव्यात्मने गन्धमर्पयामि नमो नमः
हमाकाशात्मने पुष्पं चार्पयामि नमो नमः । यं च वाय्वात्मने धूपं चार्पयामि ततो वदेत्
रं च वह्न्यात्मने दीपमर्पयामि ततो वदेत् । वममृतात्मने तस्मै नैवेद्यमपि चार्पयेत्