उत्तिष्ठ देवि गन्तव्यं पुनरागमनाय च । अर्घ्येषु देवि गन्तव्यं प्रविश्य हृदयं मम
ततः शुद्धस्थले नैजमासनं स्थापयेद्बुधः । तत्रारुह्य जपेत्पश्चाद्गायत्रीं वेदमातरम्
अत्रैव खेचरी मुद्रा प्राणायामोत्तरं मुने । प्रातःसन्ध्याविधाने च कीर्तिता मुनिपुङ्गव
तन्नामार्थं प्रवक्ष्यामि सादरं शृणु नारद । चित्तं चरति खे यस्माज्जिह्वा चरति खे गता
भ्रुवोरन्तर्गता दृष्टिर्मुद्रा भवति खेचरी । न चासनं सिद्धसमं न कुम्भसदृशोऽनिलः
न खेचरीसमा मुद्रा सत्यं सत्यं च नारद । घण्टावत्पणवोच्चाराद्वायुं निर्जित्य यत्नतः
स्थिरासने स्थिरो भूत्वा निरहङ्कारनिर्ममः । लक्षणं नारद मुने शृणु सिद्धासनस्य च
योनिस्थानकमङ्घ्रिमूलघटितं कृत्वा दृढं विन्यसे- न्मेढ्रे पादमथैकमेव हृदयं कृत्वा समं विग्रहम् । स्थाणुः संयमितेन्द्रियोऽचलदृशा पश्यन्भ्रुवोरन्तरं तिष्ठत्येतदतीव योगिसुखदं सिद्धासनं प्रोच्यते
आयातु वरदा देवी अक्षरं ब्रह्मसम्मितम् । गायत्री छन्दसां मातरिदं ब्रह्म जुषस्व मे
यदह्ना कुरुते पापं तदह्ना प्रतिमुच्यते । यद्रात्र्या कुरुते पापं तद्रात्र्या प्रतिमुच्यते
सर्ववर्णे महादेवि सन्ध्याविद्ये सरस्वति । अजरे अमरे देवि सर्वदेवि नमोऽस्तु ते
तेजोऽसीत्यादिमन्त्रेण देवीमावाहयेत्ततः । यत्कृतं त्वदनुष्ठानं तत्सर्वं पूर्णमस्तु मे
ततः शापविमोक्षाय विधानं सम्यगाचरेत् । ब्रह्मशापस्ततो विश्वामित्रस्य च तथैव च
वसिष्ठशाप इत्येतत्त्रिविधं शापलक्षणम् । ब्रह्मणः स्मरणेनैव ब्रह्मशापो निवर्तते
विश्वामित्रस्मरणतो विश्वामित्रस्य शापतः । वसिष्ठस्मरणादेव तस्य शापो विनश्यति
हृत्पद्ममध्ये पुरुषं प्रमाणं सत्यात्मकं सर्वजगत्स्वरूपम् । ध्यायामि नित्यं परमात्मसंज्ञं चिद्रूपमेकं वचसामगम्यम्
अथ न्यासविधिं वक्ष्ये सन्ध्याया अङ्गसम्भवम् । ॐकारं पूर्ववद्योज्यं ततो मन्त्रानुदीरयेत्
भूरित्युक्त्वा च पादाभ्यां नम इत्येव चोच्चरेत् । भुवः पूर्वं तु जानुभ्यां स्व: कटिभ्यां नमो वदेत्
महर्नाभ्यै जनश्चैव हदयाय ततस्तपः । कण्ठाय च ततः सत्यं ललाटे परिकीर्तयेत्
अङ्गुष्ठाभ्यां तत्सवितुस्तर्जनीभ्यां वरेण्यकम् । भर्गो देवस्य मध्याभ्यां धीमहीत्येव कीर्तयेत्
अनामाभ्यां कनिष्ठाभ्यां धियो यो न: पदं वदेत् । प्रचोदयात्करपृष्ठतलयोर्विन्यसेत्सुधी:
ब्रह्मात्मने तत्सवितुर्हृदयाय नमस्तथा । विष्ण्वात्मने वरेण्यं च शिरसे नम इत्यपि
भर्गो देवस्थ रुद्रात्मने शिखायै प्रकीर्तितम् । शक्त्यात्मने धीमहीति कवचाय ततः परम्
कालात्मने धियो यो नो नेत्रत्रय उदीरितम् । प्रचोदयाच्च सर्वात्मनेऽस्त्राय परिकीर्तितम्
अक्षरन्यासमेवाग्रे कथयामि महामुने । गायत्रीवर्णसम्भूतन्यास: पापहरः पर:
प्रणवं पूर्वमुच्चार्य वर्णन्यासः प्रकीर्तितः । तत्कारमादावुच्चार्य पादाङ्गुष्ठद्वये न्यसेत्
सकारं गुल्फयोस्तद्वद्विकारं जङ्घयोर्न्यसेत् । जान्वोस्तुकारं विन्यस्य ऊर्वोश्चैव वकारकम्
रेकारं च गुदे न्यस्य णिकारं लिङ्ग एव च । कट्यां यकारमेवात्र भकारं नाभिमण्डले
गोकारं हृदये न्यस्य देकारं स्तनयोर्द्वयोः । वकारं हृदि विन्यस्य स्यकारं कण्ठकूपके
धीकारं मुखदेशे तु मकारं तालुदेशके । हिकारं नासिकाग्रे तु धिकारं नेत्रमण्डले