(सलक्षणं तु प्राणानामायामं कीर्त्यतेऽधुना । नानापापैकशमनं महापुण्यफलप्रदम् ॥) पञ्चाङ्गुलीभिर्नासाग्रं पीडयेत्प्रणवेन तु । सर्वपापहरा मुद्रा वानप्रस्थगृहस्थयोः
कनिष्ठानामिकाङ्गुष्ठैर्यतेश्च ब्रह्मचारिणः । आपो हि ष्ठेति तिसृभिः प्रोक्षणं स्यात्कुशोदकैः
ऋगन्ते मार्जनं कुर्यात्पादान्ते वा समाहितः । नवप्रणवयुक्तेन आपो हि ष्ठेत्यनेन तु
नश्येदघं मार्जनेन संवत्सरसमुद्भवम् । तत आचमनं कृत्वा सूर्यश्चेति पिबेदपः
अन्तःकरणसम्भिन्नं पापं तस्य विनश्यति । प्रणवेन व्याहृतिभिर्गायत्र्या प्रणवाद्यया
आपो हि ष्ठेति सूक्तेन मार्जनं चैव कारयेत् । उद्धृत्य दक्षिणे हस्ते जलं गोकर्णवत्कृते
नीत्वा तं नासिकाग्रं तु वामकुक्षौ स्मरेदघम् । पुरुषं कृष्णवर्णं च ऋतं चेति पठेत्ततः
द्रुपदां वा ऋचं पश्चाद्दक्षनासापुटेन च । श्वासमार्गेण तं पापमानयेत्करवारिणि
नावलोक्यैव तद्वारि वामभागेऽश्मनि क्षिपेत् । निष्पापं तु शरीरं मे सञ्जातमिति भावयेत्
उत्थाय तु ततः पादौ द्वौ समौ सन्नियोजयेत् । जलाञ्जलिं गृहीत्वा तु तर्जन्यङ्गुष्ठवर्जितम्
वीक्ष्य भानुं क्षिपेद्वारि गायत्र्या चाभिमन्त्रितम् । त्रिवारं मुनिशार्दूल विधिरेषोऽर्घ्यमोचने
ततः प्रदक्षिणां कुर्यादसावादित्यमन्त्रतः । मध्याह्ने सकृदेव स्यात्सन्ध्ययोस्तु त्रिवारतः
ईषन्नग्रः प्रभाते तु मध्याह्ने दण्डवत्स्थितः । आसने चोपविष्टस्तु द्विजः सायं क्षिपेदपः
उदकं प्रक्षिपेद्यस्मात्तत्कारणमतः शृणु । त्रिंशत्कोट्यो महावीरा मन्देहा नाम राक्षसाः
कृतघ्ना दारुणा घोराः सूर्यमिच्छन्ति खादितुम् । ततो देवगणाः सर्वे ऋषयश्च तपोधनाः
उपासते महासन्ध्यां प्रक्षिपन्त्युदकाञ्जलिम् । दह्यन्ते तेन दैत्यास्ते वज्रीभूतेन वारिणा
एतस्मात्कारणाद्विप्राः सन्ध्यां नित्यमुपासते । महापुण्यस्य जननं सन्ध्योपासनमीरितम्
अर्घ्याङ्गभूतमन्त्रोऽयं प्रोच्यते शृणु नारद । यदुच्चारणमात्रेण साङ्गं सन्ध्याफलं भवेत्
सोऽहमर्कोऽस्म्यहं ज्योतिरात्मा ज्योतिरहं शिवः । आत्मज्योतिरहं शुक्लः सर्वज्योती रसोऽस्म्यहम्
आगच्छ वरदे देवि गायत्रि ब्रह्मरूपिणि । जपानुष्ठानसिद्ध्यर्थं प्रविश्य हृदयं मम
उत्तिष्ठ देवि गन्तव्यं पुनरागमनाय च । अर्घ्येषु देवि गन्तव्यं प्रविश्य हृदयं मम
ततः शुद्धस्थले नैजमासनं स्थापयेद्बुधः । तत्रारुह्य जपेत्पश्चाद्गायत्रीं वेदमातरम्
अत्रैव खेचरी मुद्रा प्राणायामोत्तरं मुने । प्रातःसन्ध्याविधाने च कीर्तिता मुनिपुङ्गव
तन्नामार्थं प्रवक्ष्यामि सादरं शृणु नारद । चित्तं चरति खे यस्माज्जिह्वा चरति खे गता
भ्रुवोरन्तर्गता दृष्टिर्मुद्रा भवति खेचरी । न चासनं सिद्धसमं न कुम्भसदृशोऽनिलः
न खेचरीसमा मुद्रा सत्यं सत्यं च नारद । घण्टावत्पणवोच्चाराद्वायुं निर्जित्य यत्नतः
स्थिरासने स्थिरो भूत्वा निरहङ्कारनिर्ममः । लक्षणं नारद मुने शृणु सिद्धासनस्य च
योनिस्थानकमङ्घ्रिमूलघटितं कृत्वा दृढं विन्यसे- न्मेढ्रे पादमथैकमेव हृदयं कृत्वा समं विग्रहम् । स्थाणुः संयमितेन्द्रियोऽचलदृशा पश्यन्भ्रुवोरन्तरं तिष्ठत्येतदतीव योगिसुखदं सिद्धासनं प्रोच्यते
आयातु वरदा देवी अक्षरं ब्रह्मसम्मितम् । गायत्री छन्दसां मातरिदं ब्रह्म जुषस्व मे
यदह्ना कुरुते पापं तदह्ना प्रतिमुच्यते । यद्रात्र्या कुरुते पापं तद्रात्र्या प्रतिमुच्यते