हृषीकेशः पद्मनाभो दामोदर अतः परम् । सङ्कर्षणो वासुदेवः प्रद्युम्नोऽप्यनिरुद्धकः
पुरुषोत्तमाधोक्षजौ च नारसिंहोऽप्युतस्तथा । जनार्दन उपेन्द्रश्च हरिः कृष्णोऽन्तिमस्तथा
ॐकारपूर्वकं नाम चतुर्विंशतिसङ्ख्यया । स्वाहान्तैः प्राशयेद्वारि नमोऽन्तैः स्पर्शयेत्तथा
केशवादित्रिभिः पीत्वा द्वाभ्यां प्रक्षालयेत्करौ । मुखं प्रक्षालयेद्द्वाभ्यां द्वाभ्यामुन्मार्जनं तथा
एकेन पाणिं सम्प्रोक्ष्य पादावपि शिरोऽपि च । सङ्कर्षणादिदेवानां द्वादशाङ्गानि संस्पृशेत्
दक्षिणेनोदकं पीत्वा वामेन संस्पृशेद्बुध: । तावन्न शुध्यते तोयं यावद्वामेन न स्पृशेत्
गोकर्णाकृतिहस्तेन माषमात्रं जलं पिबेत् । ततो न्यूनाधिकं पीत्वा सुरापायी भवेद्द्विजः
संहताङ्गुलिना तोयं पाणिना दक्षिणेन तु । मुक्ताङ्गुष्ठकनिष्ठाभ्यां शेषेणाचमनं विदुः
प्राणायामं ततः कृत्वा प्रणवस्मृतिपूर्वकम् । गायत्रीं शिरसा सार्धं तुरीयपदसंयुताम्
दक्षिणे रेचयेद्वायुं वामेन पूरितोदरम् । कुम्भेन धारयेन्नित्यं प्राणायामं विदुर्बुधा:
पीडयेद्दक्षिणां नाडीमङ्गुष्ठेन तथोत्तराम् । कनिष्ठानामिकाभ्यां तु मध्यमां तर्जनीं त्यजेत्
रेचक: पूरकश्चैव प्राणायामोऽथ कुम्भक: । प्रोच्यते सर्वशास्त्रेषु योगिभिर्यतमानसै:
रेचकः सृजते वायुं पूरकः पूरयेत्तु तम् । साम्येन संस्थितिर्यत्तत्कुम्भकः परिकीर्तितः
नीलोत्पलदलश्यामं नाभिमध्ये प्रतिष्ठितम् । चतुर्भुजं महात्मानं पूरके चिन्तयेद्धरिम्
कुम्भके तु हृदि स्थाने ध्यायेत्तु कमलासनम् । प्रजापतिं जगन्नाथं चतुर्वक्त्रं पितामहम्
रेचके शङ्करं ध्यायेल्ललाटस्थं महेश्वरम् । शुद्धस्फटिकसंकाशं निर्मलं पापनाशनम्
पूरके विष्णुसायुज्यं कुम्भके ब्रह्मणो गतिम् । रेचकेन तृतीयं तु प्राप्नुयादीश्वरं परम्
पौराणाचमनाद्यं च प्रोक्तं देवर्षिसत्तम । श्रौतमाचमनाद्यं च शृणु पापापहं मुने
प्रणवं पूर्वमुच्चार्य गायत्रीं तु तदित्यृचम् । पादादौ व्याहृतीस्तिस्रः श्रौताचमनमुच्यते
गायत्रीं शिरसा सार्धं जपेद्व्याहृतिपूर्विकाम् । प्रतिप्रणवसंयुक्तां त्रितयं प्राणसंयमः
(सलक्षणं तु प्राणानामायामं कीर्त्यतेऽधुना । नानापापैकशमनं महापुण्यफलप्रदम् ॥) पञ्चाङ्गुलीभिर्नासाग्रं पीडयेत्प्रणवेन तु । सर्वपापहरा मुद्रा वानप्रस्थगृहस्थयोः
कनिष्ठानामिकाङ्गुष्ठैर्यतेश्च ब्रह्मचारिणः । आपो हि ष्ठेति तिसृभिः प्रोक्षणं स्यात्कुशोदकैः
ऋगन्ते मार्जनं कुर्यात्पादान्ते वा समाहितः । नवप्रणवयुक्तेन आपो हि ष्ठेत्यनेन तु
नश्येदघं मार्जनेन संवत्सरसमुद्भवम् । तत आचमनं कृत्वा सूर्यश्चेति पिबेदपः
अन्तःकरणसम्भिन्नं पापं तस्य विनश्यति । प्रणवेन व्याहृतिभिर्गायत्र्या प्रणवाद्यया
आपो हि ष्ठेति सूक्तेन मार्जनं चैव कारयेत् । उद्धृत्य दक्षिणे हस्ते जलं गोकर्णवत्कृते
नीत्वा तं नासिकाग्रं तु वामकुक्षौ स्मरेदघम् । पुरुषं कृष्णवर्णं च ऋतं चेति पठेत्ततः
द्रुपदां वा ऋचं पश्चाद्दक्षनासापुटेन च । श्वासमार्गेण तं पापमानयेत्करवारिणि
नावलोक्यैव तद्वारि वामभागेऽश्मनि क्षिपेत् । निष्पापं तु शरीरं मे सञ्जातमिति भावयेत्
उत्थाय तु ततः पादौ द्वौ समौ सन्नियोजयेत् । जलाञ्जलिं गृहीत्वा तु तर्जन्यङ्गुष्ठवर्जितम्