कालातिक्रमणे जाते चतुर्थार्घ्यं प्रदापयेत् । अथवाष्टशतं देवीं जप्त्वादौ तां समाचरेत्
यस्मिन्काले तु यत्कर्म तत्कालाधीश्वरीं च ताम् । सन्ध्यामुपास्य पश्चात्तु तत्कालीनं समाचरेत्
गृहे साधारणा प्रोक्ता गोष्ठे वै मध्यमा भवेत् । नदीतीरे चोत्तमा स्याद्देवीगेहे तदुत्तमा
यतो देव्या उपासेयं ततो देव्यास्तु सन्निधौ । सन्ध्यात्रयं प्रकर्तव्यं तदानन्त्याय कल्पते
एतस्या अपरं दैवं ब्राह्मणानां च विद्यते । न विष्णूपासना नित्या न शिवोपासना तथा
यथा भवेन्महादेव्या गायत्र्याः श्रुतिचोदिता । सर्ववेदसारभूता गायत्र्यास्तु समर्चना
ब्रह्मादयोऽपि सन्ध्यायां तां ध्यायन्ति जपन्ति च । वेदा जपन्ति तां नित्यं वेदोपास्या ततः स्मृता
तस्मात्सर्वे द्विजाः शाक्ता न शैवा न च वैष्णवाः । आदिशक्तिमुपासन्ते गायत्रीं वेदमातरम्
आचान्तः प्राणमायम्य केशवादिकनामभिः । केशवश्च तथा नारायणो माधव एव च
गोविन्दो विष्णुरेवाथ मधुसूदन एव च । त्रिविक्रमो वामनश्च श्रीधरोऽपि ततः परम्
हृषीकेशः पद्मनाभो दामोदर अतः परम् । सङ्कर्षणो वासुदेवः प्रद्युम्नोऽप्यनिरुद्धकः
पुरुषोत्तमाधोक्षजौ च नारसिंहोऽप्युतस्तथा । जनार्दन उपेन्द्रश्च हरिः कृष्णोऽन्तिमस्तथा
ॐकारपूर्वकं नाम चतुर्विंशतिसङ्ख्यया । स्वाहान्तैः प्राशयेद्वारि नमोऽन्तैः स्पर्शयेत्तथा
केशवादित्रिभिः पीत्वा द्वाभ्यां प्रक्षालयेत्करौ । मुखं प्रक्षालयेद्द्वाभ्यां द्वाभ्यामुन्मार्जनं तथा
एकेन पाणिं सम्प्रोक्ष्य पादावपि शिरोऽपि च । सङ्कर्षणादिदेवानां द्वादशाङ्गानि संस्पृशेत्
दक्षिणेनोदकं पीत्वा वामेन संस्पृशेद्बुध: । तावन्न शुध्यते तोयं यावद्वामेन न स्पृशेत्
गोकर्णाकृतिहस्तेन माषमात्रं जलं पिबेत् । ततो न्यूनाधिकं पीत्वा सुरापायी भवेद्द्विजः
संहताङ्गुलिना तोयं पाणिना दक्षिणेन तु । मुक्ताङ्गुष्ठकनिष्ठाभ्यां शेषेणाचमनं विदुः
प्राणायामं ततः कृत्वा प्रणवस्मृतिपूर्वकम् । गायत्रीं शिरसा सार्धं तुरीयपदसंयुताम्
दक्षिणे रेचयेद्वायुं वामेन पूरितोदरम् । कुम्भेन धारयेन्नित्यं प्राणायामं विदुर्बुधा:
पीडयेद्दक्षिणां नाडीमङ्गुष्ठेन तथोत्तराम् । कनिष्ठानामिकाभ्यां तु मध्यमां तर्जनीं त्यजेत्
रेचक: पूरकश्चैव प्राणायामोऽथ कुम्भक: । प्रोच्यते सर्वशास्त्रेषु योगिभिर्यतमानसै:
रेचकः सृजते वायुं पूरकः पूरयेत्तु तम् । साम्येन संस्थितिर्यत्तत्कुम्भकः परिकीर्तितः
नीलोत्पलदलश्यामं नाभिमध्ये प्रतिष्ठितम् । चतुर्भुजं महात्मानं पूरके चिन्तयेद्धरिम्
कुम्भके तु हृदि स्थाने ध्यायेत्तु कमलासनम् । प्रजापतिं जगन्नाथं चतुर्वक्त्रं पितामहम्
रेचके शङ्करं ध्यायेल्ललाटस्थं महेश्वरम् । शुद्धस्फटिकसंकाशं निर्मलं पापनाशनम्
पूरके विष्णुसायुज्यं कुम्भके ब्रह्मणो गतिम् । रेचकेन तृतीयं तु प्राप्नुयादीश्वरं परम्
पौराणाचमनाद्यं च प्रोक्तं देवर्षिसत्तम । श्रौतमाचमनाद्यं च शृणु पापापहं मुने
प्रणवं पूर्वमुच्चार्य गायत्रीं तु तदित्यृचम् । पादादौ व्याहृतीस्तिस्रः श्रौताचमनमुच्यते
गायत्रीं शिरसा सार्धं जपेद्व्याहृतिपूर्विकाम् । प्रतिप्रणवसंयुक्तां त्रितयं प्राणसंयमः