आरुह्य तस्य शिखराण्यवारुहदनुक्रमात् । गतो याम्यदिशं चापि श्रीशैलं प्रेक्ष्य वर्त्मनि
मलयाचलमासाद्य तत्राश्रमपरोऽभवत् । सापि देवी तत्र विन्ध्यमागता मनुपूजिता
लोकेषु प्रथिता विन्ध्यवासिनीति च शौनक । सूत उवाच एतच्चरित्रं परमं शत्रुनाशनमुत्तमम्
अगस्त्यविन्ध्यनगयोराख्यानं पापनाशनम् । राज्ञां विजयदं तच्च द्विजानां ज्ञानवर्धनम्
वैश्यानां धान्यधनदं शूद्राणां सुखदं तथा । धर्मार्थी धर्ममाप्नोति धनार्थी धनमाप्नुयात्
कामानवाप्नुयात्कामी भक्त्या चास्य सकृच्छ्रवात् । एवं स्वायम्भुवमनुर्देवीमाराध्य भक्तितः
लेभे राज्यं धरायाश्च निजमन्वन्तराश्रयम् । इत्येतद्वर्णितं सौम्य मया मन्वन्तराश्रितम् । आद्यं चरित्रं श्रीदेव्याः किं पुनः कथयामि ते
मनूत्पत्तिवर्णनम् शौनक उवाच आद्यो मन्वन्तरः प्रोक्तो भवता चायमुत्तमः । अन्येषामुद्भवं ब्रूहि मनूनां दिव्यतेजसाम्
सूत उवाच एवमाद्यस्य चोत्पत्तिं श्रुत्वा स्वायम्भुवस्य हि । अन्येषां क्रमशस्तेषां सम्भूतिं परिपृच्छति
नारदः परमो ज्ञानी देवीतत्त्वार्थकोविदः । नारद उवाच मनूनां मे समाख्याहि सूत्पत्तिं च सनातन
श्रीनारायण उवाच प्रथमोऽयं मनुः स्वायम्भुव उक्तो महामुने । देव्याराधनतो येन प्राप्तं राज्यमकण्टकम्
प्रियव्रतोत्तानपादौ मनुपुत्रौ महौजसौ । राज्यपालनकर्तारौ विख्यातौ वसुधातले
द्वितीयश्च मनुः स्वारोचिष उक्तो मनीषिभिः । प्रियव्रतसुतः श्रीमानप्रमेयपराक्रमः
स स्वारोचिषनामापि कालिन्दीकूलतो मनुः । निवासं कल्पयामास सर्वसत्त्वप्रियङ्करः
जीर्णपत्राशनो भूत्वा तपः कर्तुमनुव्रतः । देव्या मूर्तिं मृण्मयीं च पूजयामास भक्तितः
एवं द्वादश वर्षाणि वनस्थस्य तपस्यतः । देवी प्रादुरभूत्तात सहस्रार्कसमद्युतिः
ततः प्रसन्ना देवेशी स्तवराजेन सुव्रता । ददौ स्वारोचिषायैव सर्वमन्वन्तराश्रयम्
आधिपत्यं जगद्धात्री तारिणीति प्रथामगात् । एवं स्वारोचिषमनुस्तारिण्याराधनात्ततः
आधिपत्यं च लेभे स सर्वारातिविवर्जितम् । धर्मं संस्थाप्य विधिवद्राज्यं पुत्रैः समं विभुः
भुक्त्वा जगाम स्वर्लोकं निजमन्वन्तराश्रयात् । तृतीय उत्तमो नाम प्रियव्रतसुतो मनुः
गङ्गाकूले तपस्तप्त्वा वाग्भवं सञ्जपन् रहः । वर्षाणि त्रीण्युपवसन् देव्यनुग्रहमाविशत्
स्तुत्वा देवीं स्तोत्रवरैर्भक्तिभावितमानसः । राज्यं निष्कण्टकं लेभे सन्ततिं चिरकालिकीम्
राज्योत्थान्यानि सौख्यानि भुक्त्वा धर्मान्युगस्य च । सोऽप्याजगाम पदवीं राजर्षिवरभाविताम्
चतुर्थस्तामसो नाम प्रियव्रतसुतो मनुः । नर्मदादक्षिणे कूले समाराध्य जगन्मयीम्
महेश्वरीं कामराजकूटजापपरायणः । वासन्ते शारदे काले नवरात्रसपर्यया
तोषयामास देवेशीं जलजाक्षीमनूपमाम् । तस्याः प्रसादमासाद्य नत्वा स्तोत्रैरनुत्तमैः
अकण्टकं महद्राज्यं बुभुजे गतसाध्वसः । पुत्रान्वलोद्धताञ्छूरान्दश वीर्यनिकेतनान्
उत्पाद्य निजभार्यायां जगामाम्बरमुत्तमम् । पञ्चमो मनुराख्यातो रैवतस्तामसानुजः
कालिन्दीकूलमाश्रित्य जजाप कामसंज्ञकम् । बीजं परमवाग्दर्पदायकं साधकाश्रयम्
एतदाराधनादाप स्वाराज्यर्द्धिमनुत्तमाम् । बलमप्रहतं लोके सर्वसिद्धिविधायकम्