ललाटे भस्मना तिर्यक्त्रिपुण्ड्रं धार्यमेव हि । यस्तु नारायणं देवं प्रपन्नः परमं पदम् । धारयेत्सर्वदा शूलं ललाटे गन्धवारिणा
सन्ध्योपासननिरूपणम् श्रीनारायण उवाच अथातः श्रूयतां पुण्यं सन्ध्योपासनमुत्तमम् । भस्मधारणमाहात्म्यं कथितं चैव विस्तरात्
प्रातःसन्ध्याविधानं च कथयिष्यामि तेऽनघ । प्रातःसन्ध्यां सनक्षत्रां मध्याह्ने मध्यभास्कराम्
ससूर्यां पश्चिमां सन्ध्यां तिस्रः सन्ध्या उपासते । तद्भेदानपि वक्ष्यामि शृणु देवर्षिसत्तम
उत्तमा तारकोपेता मध्यमा लुप्ततारका । अधमा सूर्यसहिता प्रातःसन्ध्या त्रिधा मता
उत्तमा सूर्यसहिता मध्यमास्तमिते रवौ । अधमा तारकोपेता सायंसन्ध्या त्रिधा मता
विप्रो वृक्षो मूलकान्यत्र सन्ध्या वेदः शाखा धर्मकर्माणि पत्रम् । तस्मान्मूलं यत्नतो रक्षणीयं छिन्ने मूले नैव वृक्षो न शाखा
सन्ध्या येन न विज्ञाता सन्ध्या येनानुपासिता । जीवमानो भवेच्छूद्रो मृतः श्वा चैव जायते
तस्मान्नित्यं प्रकर्तव्यं सन्ध्योपासनमुत्तमम् । तदभावेऽन्यकर्मादावधिकारी भवेन्न हि
उदयास्तमयादूर्ध्वं यावत्स्याद्घटिकात्रयम् । तावत्सन्ध्यामुपासीत प्रायश्चित्तं ततः परम्
कालातिक्रमणे जाते चतुर्थार्घ्यं प्रदापयेत् । अथवाष्टशतं देवीं जप्त्वादौ तां समाचरेत्
यस्मिन्काले तु यत्कर्म तत्कालाधीश्वरीं च ताम् । सन्ध्यामुपास्य पश्चात्तु तत्कालीनं समाचरेत्
गृहे साधारणा प्रोक्ता गोष्ठे वै मध्यमा भवेत् । नदीतीरे चोत्तमा स्याद्देवीगेहे तदुत्तमा
यतो देव्या उपासेयं ततो देव्यास्तु सन्निधौ । सन्ध्यात्रयं प्रकर्तव्यं तदानन्त्याय कल्पते
एतस्या अपरं दैवं ब्राह्मणानां च विद्यते । न विष्णूपासना नित्या न शिवोपासना तथा
यथा भवेन्महादेव्या गायत्र्याः श्रुतिचोदिता । सर्ववेदसारभूता गायत्र्यास्तु समर्चना
ब्रह्मादयोऽपि सन्ध्यायां तां ध्यायन्ति जपन्ति च । वेदा जपन्ति तां नित्यं वेदोपास्या ततः स्मृता
तस्मात्सर्वे द्विजाः शाक्ता न शैवा न च वैष्णवाः । आदिशक्तिमुपासन्ते गायत्रीं वेदमातरम्
आचान्तः प्राणमायम्य केशवादिकनामभिः । केशवश्च तथा नारायणो माधव एव च
गोविन्दो विष्णुरेवाथ मधुसूदन एव च । त्रिविक्रमो वामनश्च श्रीधरोऽपि ततः परम्
हृषीकेशः पद्मनाभो दामोदर अतः परम् । सङ्कर्षणो वासुदेवः प्रद्युम्नोऽप्यनिरुद्धकः
पुरुषोत्तमाधोक्षजौ च नारसिंहोऽप्युतस्तथा । जनार्दन उपेन्द्रश्च हरिः कृष्णोऽन्तिमस्तथा
ॐकारपूर्वकं नाम चतुर्विंशतिसङ्ख्यया । स्वाहान्तैः प्राशयेद्वारि नमोऽन्तैः स्पर्शयेत्तथा
केशवादित्रिभिः पीत्वा द्वाभ्यां प्रक्षालयेत्करौ । मुखं प्रक्षालयेद्द्वाभ्यां द्वाभ्यामुन्मार्जनं तथा
एकेन पाणिं सम्प्रोक्ष्य पादावपि शिरोऽपि च । सङ्कर्षणादिदेवानां द्वादशाङ्गानि संस्पृशेत्
दक्षिणेनोदकं पीत्वा वामेन संस्पृशेद्बुध: । तावन्न शुध्यते तोयं यावद्वामेन न स्पृशेत्
गोकर्णाकृतिहस्तेन माषमात्रं जलं पिबेत् । ततो न्यूनाधिकं पीत्वा सुरापायी भवेद्द्विजः
संहताङ्गुलिना तोयं पाणिना दक्षिणेन तु । मुक्ताङ्गुष्ठकनिष्ठाभ्यां शेषेणाचमनं विदुः
प्राणायामं ततः कृत्वा प्रणवस्मृतिपूर्वकम् । गायत्रीं शिरसा सार्धं तुरीयपदसंयुताम्
दक्षिणे रेचयेद्वायुं वामेन पूरितोदरम् । कुम्भेन धारयेन्नित्यं प्राणायामं विदुर्बुधा: