उदरे दक्षिणे पार्श्वे विष्णुरित्यभिधीयते । तत्पार्श्वबाहुमध्ये च मधुसूदनमेव च
त्रिविक्रमं कर्णदेशे वामकुक्षौ तु वामनम् । श्रीधरं बाहुके वामे हृषीकेशं तु कर्णके
पृष्ठे च पद्मनाभं तु ककुद्दामोदरं स्मरेत् । द्वादशैतानि नामानि वासुदेवेति मूर्धनि
पूजाकाले च होमे च सायं प्रातः समाहितः । नामान्युच्चार्य विधिना धारयेदूर्ध्वपुण्ड्रकम्
अशुचिर्वाप्यनाचारो मनसा पापमाचरेत् । शुचिरेव भवेन्नित्यं मूर्ध्नि पुण्ड्राङ्कितो नरः
ऊर्ध्वपुण्ड्रधरो मर्त्यो म्रियते यत्र कुत्रचित् । श्वपाकोऽपि विमानस्थो मम लोके महीयते
एकान्तिनो महाभागा मत्स्वरूपविदोऽमलाः । सान्तरालान्प्रकुर्वन्ति पुण्ड्रान्विष्णुपदाकृतीन्
परमैकान्तिनोऽप्येवं मत्पादैकपरायणाः । हरिद्राचूर्णसंयुक्ताञ्छूलाकारांस्तु वामलान्
अन्ये तु वैष्णवाः पुण्ड्रानच्छिद्रानपि भक्तितः । प्रकुर्वीरन्दीपपद्मवेणुपत्रोपमाकृतीन्
अच्छिद्रानपि सच्छिद्रान् कुर्युः केवलवैष्णवाः । अच्छिद्रकरणे तेषां प्रत्यवायो न विद्यते
एकान्तिनां प्रपन्नानां परमैकान्तिनामपि । अच्छिद्रपुण्ड्राकरणे प्रत्यवायो महान्भवेत्
ऊर्ध्वपुण्ड्रं तु यः कुर्याद्दण्डाकारं तु शोभनम् । मध्ये छिद्रं वैष्णवाश्च नमोऽन्तैः केशवादिभिः
विमलान्यूर्ध्वपुण्ड्राणि सान्तरालानि यो नरः । करोति विपुलं तत्र मन्दिरं मे करोति सः
ऊर्ध्वपुण्ड्रस्य मध्ये तु विशाले सुमनोहरे । लक्ष्म्या साकं सहासीनो रमते विष्णुरव्ययः
निरन्तरालं यः कुर्यादूर्ध्वपुण्ड्रं द्विजाधमः । स हि तत्र स्थितं विष्णुं श्रियं चैव व्यपोहति
अच्छिद्रमूर्ध्वपुण्ड्रं तु यः करोति विमूढधीः । स पर्यायेण तानेति नरकानेकविंशतिम्
ऋजूनि स्फुटपार्श्वानि सान्तरालानि विन्यसेत् । ऊर्ध्वपुण्ड्राणि दण्डाब्जदीपमत्स्यनिभानि च
शिखोपवीतवद्धार्यमूर्ध्वपुण्ड्रं द्विजेन च । विना कृताश्चेद्विफलाः क्रियाः सर्वा महामुने
तस्मात्सर्वेषु कार्येषु कार्यं विप्रस्य धीमतः । ऊर्ध्वपुण्ड्रं त्रिशूलं च वर्तुलं चतुरस्रकम्
अर्धचन्द्रादिकं लिङ्गं वेदनिष्ठो न धारयेत् । जन्मना लब्धजातिस्तु वेदपन्थानमाश्रितः
पुण्ड्रान्तरं भ्रमाद्वापि ललाटे नैव धारयेत् । ख्यातिकान्त्यादिसिद्ध्यर्थं चापि विष्ण्वागमादिषु
स्थितं पुण्ड्रान्तरं नैव धारयेद्वैदिको जनः । तिर्यक्त्रिपुण्ड्रं सन्त्यज्य श्रौतं कथमपि भ्रमात्
ललाटे भस्मना तिर्यक्त्रिपुण्ड्रस्य च धारणम् । विना पुण्ड्रान्तरं मोहाद्धारयन्नारकी भवेत्
वेदमार्गैकनिष्ठस्तु मोहेनाप्यङ्कितो यदि । पतत्येव न सन्देहस्तथा पुण्ड्रान्तरादपि
नाङ्कनं विग्रहे कुर्याद्वेदमार्गं समाश्रितः । श्रौतधर्मैकनिष्ठानां लिङ्गं तु श्रौतमेव हि
अश्रौतधर्मनिष्ठानामश्रौत लिङ्गमीरितम् । देवता वेदसिद्धा यास्तासां लिङ्गं तु वैदिकम्
अश्रौततन्त्रनिष्ठा यास्तासामश्रौतमेव हि । वेदसिद्धो महादेवः साक्षात्संसारमोचकः
भक्तानामुपकाराय श्रौतं लिङ्गं दधाति च । वेदसिद्धस्य विष्णोश्च श्रौतं लिङ्गं न चेतरत्
प्रादुर्भावविशेषाणामपि तस्य तदेव हि । श्रौतं लिङ्गं तु विज्ञेयं त्रिपुण्ड्रोद्धूलनादिकम्
अश्रौतमूर्ध्वपुण्ड्रादि नैव तिर्यक्त्रिपुण्ड्रकम् । वेदमार्गैकनिष्ठानां वेदोक्तेनैव वर्त्मना