मल्लिङ्गस्थापनं तत्र कार्यं देव्याश्च सत्तम । पूजयिष्यन्ति ते तत्र पितृलोकनिवासिनः
त्रैलोक्ये यानि तीर्थानि तत्र श्रेष्ठमिदं भवेत् । पित्रीश्वरीपूजया तु त्रैलोक्यं पूजितं भवेत्
श्रीनारायण उवाच इति देववचः श्रुत्वा देवं मूर्ध्ना प्रणम्य च । तदनुज्ञां समादाय ययौ देवान्तिकं हरिः
तत्सर्वं कथयामास कारणं शङ्करोदितम् । साधु साध्विति ते प्रोचुरमरा मौलिचालनैः
शशंसुर्भस्ममाहात्म्यं हरिब्रह्मादयः सुराः । पितरश्चैव सन्तुष्टास्तीर्थलाभात्परन्तप
तत्तीर्थतीरे लिङ्गं च देव्या मूर्तिं यथाविधि । स्थापयामासुरमराः पूजयामासुरन्वहम्
तत्र ये प्राणिनोऽभूवन्पापभोगार्थमास्थिताः । ते विमानं समारुह्य गताः कैलासमण्डलम्
नाम्ना भद्रगणास्ते तु वसन्त्यद्यापि तत्र हि । पुनश्च दूरदेशे तु कुम्भीपाको विनिर्मितः
निरुद्धं शैवगमनं देवैस्तत्र तु तद्दिनात् । इति ते सर्वमाख्यातं भस्ममाहात्म्यमुत्तमम्
नातः परतरं किञ्चिदधिकं विद्यते मुने । ऊर्ध्वपुण्ड्रविधिं चैवाप्यधिकारिविभेदतः
प्रवक्ष्ये मुनिशार्दूल वैष्णवागमलोकनात् । ऊर्ध्वपुण्ड्रप्रमाणानि दिव्यान्यङ्गुलिभेदतः
वर्णाभिमन्त्रदेवांश्च प्रवक्ष्यामि फलानि च । पर्वताग्रे नदीतीरे शिवक्षेत्रे विशेषतः
सिन्धुतीरे च वल्मीके तुलसीमूलमाश्रिते । मृद एतास्तु सङ्ग्राह्या वर्जयेदन्यमृत्तिकाः
श्यामं शान्तिकरं प्रोक्तं रक्तं वश्यकरं भवेत् । श्रीकरं पीतमित्याहुर्धर्मदं श्वेतमुच्यते
अङ्गुष्ठः पुष्टिदः प्रोक्तो मध्यमायुष्करी भवेत् । अनामिकान्नदा नित्यं मुक्तिदा च प्रदेशिनी
एतैरङ्गुलिभेदैस्तु कारयेन्न नखैः स्पृशेत् । वर्तिदीपावलिकृतिं वेणपत्राकृतिं तथा
पद्मस्य मुकुलाकारं तथा कुर्यात्प्रयत्नतः । मत्स्यकूर्माकृतिं वापि शङ्खाकारं ततः परम्
दशाङ्गुलिप्रमाणं तु उत्तमोत्तममुच्यते । नवाङ्गुलं मध्यमं स्यादष्टाङ्गुलमतः परम्
सप्तषट्पञ्चभिः पुण्ड्रं मध्यमं त्रिविधं स्मृतम् । चतुस्त्रिद्व्यङ्गुलैः पुण्ड्रं कनिष्ठं त्रिविधं भवेत्
ललाटे केशवं विद्यान्नारायणमथोदरे । माधवं हृदि विन्यस्य गोविन्दं कण्ठकूपके
उदरे दक्षिणे पार्श्वे विष्णुरित्यभिधीयते । तत्पार्श्वबाहुमध्ये च मधुसूदनमेव च
त्रिविक्रमं कर्णदेशे वामकुक्षौ तु वामनम् । श्रीधरं बाहुके वामे हृषीकेशं तु कर्णके
पृष्ठे च पद्मनाभं तु ककुद्दामोदरं स्मरेत् । द्वादशैतानि नामानि वासुदेवेति मूर्धनि
पूजाकाले च होमे च सायं प्रातः समाहितः । नामान्युच्चार्य विधिना धारयेदूर्ध्वपुण्ड्रकम्
अशुचिर्वाप्यनाचारो मनसा पापमाचरेत् । शुचिरेव भवेन्नित्यं मूर्ध्नि पुण्ड्राङ्कितो नरः
ऊर्ध्वपुण्ड्रधरो मर्त्यो म्रियते यत्र कुत्रचित् । श्वपाकोऽपि विमानस्थो मम लोके महीयते
एकान्तिनो महाभागा मत्स्वरूपविदोऽमलाः । सान्तरालान्प्रकुर्वन्ति पुण्ड्रान्विष्णुपदाकृतीन्
परमैकान्तिनोऽप्येवं मत्पादैकपरायणाः । हरिद्राचूर्णसंयुक्ताञ्छूलाकारांस्तु वामलान्
अन्ये तु वैष्णवाः पुण्ड्रानच्छिद्रानपि भक्तितः । प्रकुर्वीरन्दीपपद्मवेणुपत्रोपमाकृतीन्
अच्छिद्रानपि सच्छिद्रान् कुर्युः केवलवैष्णवाः । अच्छिद्रकरणे तेषां प्रत्यवायो न विद्यते