ये विष्णुद्रोहिणः सन्ति पतन्त्यत्रैव ते मुने । ये वेदनिन्दकाः सन्ति सूर्यस्य च गणेशितुः
ब्राह्मणानां द्रोहिणो ये पतन्त्यत्रैव ते मुने । कामाचाराश्च ये सन्ति तप्तमुद्राङ्किताश्च ये
त्रिशूलधारिणो ये च पतन्त्यत्रैव ते मुने । मातृपितृगुरुज्येष्ठपुराणस्मृतिनिन्दकाः
ये धर्मदूषकाः सन्ति पतन्त्यत्रैव ते मुने । तेषामयं महाघोरः शब्दः श्रवणदारुणः
श्रूयतेऽस्माभिरनिशं वैराग्यं यच्छ्रुतेर्भवेत् । इति तेषां वचः श्रुत्वा मुनिराट् तद्दिदृक्षया
उत्थाय चलितस्तूर्णं ययौ कुण्डसमीपतः । अवाङ्मुखो ददर्शाधस्तस्मिन्नेव क्षणे मुने
तत्रत्यानां पापिनां तु स्वर्गाधिकमभूत्सुखम् । हसन्ति केचिद्गायन्ति नृत्यन्ति च तथापरे
परस्परं रमन्ते तेऽत्युन्मत्ताः सुखवर्धनात् । मृदङ्गमुरजावीणाढक्कादुन्दुभिनिस्वनाः
समुद्भूतास्तु मधुराः पञ्चमस्वरभूषिताः । वसन्तवल्लीपुष्पाणां सुगन्धमरुतो ववुः
मुनिस्तु चकितो दृष्ट्वा यमदूताश्च विस्मिताः । शीघ्रं ते कथयामासुर्धर्मराजाय वेदिने
महाराज महाश्चर्यमधुनैवाभवद्विभो । स्वर्गादप्यधिकं सौख्यं कुम्भीपाकस्थपापिनाम्
निमित्तं नैव जानीमः कस्मादिदमभूद्विभो । चकिताः स्म वयं सर्वे प्राप्ता देव त्वदन्तिकम्
निशम्य दूतवाणीं तां धर्मराट् शीघ्रमुत्थितः । महामहिषमारूढो ययौ ते यत्र पापिनः
तां वार्तां प्रेषयामास दूतद्वारामरावतीम् । श्रुत्वा तां देवराजोऽपि प्राप्तो देवगणैः सह
ब्रह्मलोकात्पद्मजोऽपि वैकुण्ठाद्विष्टरश्रवाः । तत्तल्लोकाच्च दिक्पालाः समाजग्मुर्गणैः सह
परिवार्य स्थिताः सर्वे कुम्भीपाकमितस्ततः । अपश्यंस्तद्गताञ्जीवान्स्वर्गाधिकसुखान्त्वितान्
चकिता एव ते सर्वे न विदुस्तस्य कारणम् । अहो पापस्य भोगार्थं कुण्डमेतद्विनिर्मितम्
तत्र सौख्यं यदा जातं तदा पापात्तु किं भयम् । उच्छिन्ना वेदमर्यादा परमेशकृता कथम्
भगवान् स्वस्य संकल्पं वितथं कृतवान्कथम् । आश्चर्यमेतदाश्चर्यमेतदित्येव भाषिणः
तटस्था अभवन्सर्वे न विदुस्तत्र कारणम् । एतस्मिन्नन्तरे शौरिः सम्मन्त्र्य विबुधादिभिः
ययौ कैश्चित्सुरगणैः सहितः शङ्करालयम् । पार्वत्या सहितं देवं कोटिकन्दर्पसुन्दरम्
रमणीयतमाङ्गं तं लावण्यखनिमद्भुतम् । सदा षोडशवर्षीयं नानालङ्कारभूषितम्
नानागणैः परिवृतं लालयन्तं परां शिवाम् । ददर्श चन्द्रमौलिं स चतुर्वेदं ननाम ह
वृत्तान्तं कथयामास चमत्कृतमतिस्फुटम् । एतस्य कारणं देव न जानीमः कथञ्चन
वद तत्कारणं देव सर्वज्ञोऽसि यतः प्रभो । विष्णुवाक्यं तदा श्रुत्वा प्रसन्नमुखपङ्कजः
उवाच मधुरं वाक्यं मेघगम्भीरया गिरा । शृणु विष्णो तन्निमित्तं नाश्चर्यं त्वत्र विद्यते
भस्मनो महिमैवायं भस्मना किं भवेन्न हि । कुम्भीपाकं गतो द्रष्टुं दुर्वासाः शैवसम्मतः
अवाङ्मुखो ददर्शाधस्तदा वायुवशाद्धरे । भालभस्मकणास्तत्र पतिता दैवयोगतः
तेन जातमिदं सर्वं भस्मनो महिमा त्वयम् । इतः परं तु तत्तीर्थं पितृलोकनिवासिनाम्
भविष्यति न सन्देहो यत्र स्नात्वा सुखी भवेत् । पितृतीर्थं तु तन्नाम्नाप्यत ऊर्ध्वं भविष्यति