नामानीति गृणन्नुच्चैस्तापसानां शिखामणिः । कव्यवाडादयस्ते तु प्रत्युत्थानाभिवादनैः
आसनाद्युपचारैश्च सम्मानं बहु चक्रिरे । नानाकथाभिरन्योन्यं सम्भाषाञ्चक्रिरे तदा
तस्मिंस्तु समये कुम्भीपाकस्थानां तु पापिनाम् । घोरः समभवच्छब्दो हा हताः स्मेतिवादिनाम्
मृताः स्मेति वदन्त्येके दग्धाः स्मेति परे जगुः । छिन्नाः स्मेति विभिन्नाः स्मेत्येवं रोदनकारिणः
श्रुत्वा तं करुण शब्दं दुःखितो मुनिराड् हृदि । पप्रच्छ पितृनाथांस्तान्केषां शब्दोऽयमित्यपि
ते समूचुर्मुनेऽत्रैव पुरी संयमनी परा । वर्तते यमराडत्र पापिनां भोगदायकः
नानादूतैः कालरूपैः कृष्णवर्णेर्भयङ्करैः । सहितोऽत्रैव तत्पुर्यां नायको विद्यतेऽनघ
तत्र कुण्डान्यनेकानि पापिनां भोगदानि च । षडशीतिर्घोररूपैर्दूतैः परिवृतानि च
तत्र मुख्यतमं कुण्डं कुम्भीपाकाभिधं महत् । वर्तते तद्गतानां च यातनानां तु वर्णनम्
कर्तुं न शक्यते कैश्चिदपि वर्षशतैरपि । ये शिवद्रोहिणः सन्ति तथा देवीविनिन्दकाः
ये विष्णुद्रोहिणः सन्ति पतन्त्यत्रैव ते मुने । ये वेदनिन्दकाः सन्ति सूर्यस्य च गणेशितुः
ब्राह्मणानां द्रोहिणो ये पतन्त्यत्रैव ते मुने । कामाचाराश्च ये सन्ति तप्तमुद्राङ्किताश्च ये
त्रिशूलधारिणो ये च पतन्त्यत्रैव ते मुने । मातृपितृगुरुज्येष्ठपुराणस्मृतिनिन्दकाः
ये धर्मदूषकाः सन्ति पतन्त्यत्रैव ते मुने । तेषामयं महाघोरः शब्दः श्रवणदारुणः
श्रूयतेऽस्माभिरनिशं वैराग्यं यच्छ्रुतेर्भवेत् । इति तेषां वचः श्रुत्वा मुनिराट् तद्दिदृक्षया
उत्थाय चलितस्तूर्णं ययौ कुण्डसमीपतः । अवाङ्मुखो ददर्शाधस्तस्मिन्नेव क्षणे मुने
तत्रत्यानां पापिनां तु स्वर्गाधिकमभूत्सुखम् । हसन्ति केचिद्गायन्ति नृत्यन्ति च तथापरे
परस्परं रमन्ते तेऽत्युन्मत्ताः सुखवर्धनात् । मृदङ्गमुरजावीणाढक्कादुन्दुभिनिस्वनाः
समुद्भूतास्तु मधुराः पञ्चमस्वरभूषिताः । वसन्तवल्लीपुष्पाणां सुगन्धमरुतो ववुः
मुनिस्तु चकितो दृष्ट्वा यमदूताश्च विस्मिताः । शीघ्रं ते कथयामासुर्धर्मराजाय वेदिने
महाराज महाश्चर्यमधुनैवाभवद्विभो । स्वर्गादप्यधिकं सौख्यं कुम्भीपाकस्थपापिनाम्
निमित्तं नैव जानीमः कस्मादिदमभूद्विभो । चकिताः स्म वयं सर्वे प्राप्ता देव त्वदन्तिकम्
निशम्य दूतवाणीं तां धर्मराट् शीघ्रमुत्थितः । महामहिषमारूढो ययौ ते यत्र पापिनः
तां वार्तां प्रेषयामास दूतद्वारामरावतीम् । श्रुत्वा तां देवराजोऽपि प्राप्तो देवगणैः सह
ब्रह्मलोकात्पद्मजोऽपि वैकुण्ठाद्विष्टरश्रवाः । तत्तल्लोकाच्च दिक्पालाः समाजग्मुर्गणैः सह
परिवार्य स्थिताः सर्वे कुम्भीपाकमितस्ततः । अपश्यंस्तद्गताञ्जीवान्स्वर्गाधिकसुखान्त्वितान्
चकिता एव ते सर्वे न विदुस्तस्य कारणम् । अहो पापस्य भोगार्थं कुण्डमेतद्विनिर्मितम्
तत्र सौख्यं यदा जातं तदा पापात्तु किं भयम् । उच्छिन्ना वेदमर्यादा परमेशकृता कथम्
भगवान् स्वस्य संकल्पं वितथं कृतवान्कथम् । आश्चर्यमेतदाश्चर्यमेतदित्येव भाषिणः
तटस्था अभवन्सर्वे न विदुस्तत्र कारणम् । एतस्मिन्नन्तरे शौरिः सम्मन्त्र्य विबुधादिभिः