न भविष्यति पूतात्मा नाधिकार्यपि कर्मणि । अपानवायुनिर्याते जृम्भणे स्कन्दने क्षुते
श्लेष्मोद्गारेऽपि कर्तव्यं भस्मस्नानं प्रयत्नतः । श्रीभस्मस्नानमाहात्म्यस्यैकदेशोऽत्र वर्णितः
पुनश्च सम्प्रवक्ष्यामि भस्मस्नानोत्थितं फलम् । सावधानेन मनसा श्रोतव्यं मुनिपुङ्गव
त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् श्रीनारायण उवाच अग्निरित्यादिभिर्मन्त्रैर्भस्म संशोध्य सादरम् । धारणीयं ललाटादौ त्रिपुण्ड्रं केवलं द्विजैः
ब्रह्मक्षत्रियवैश्याश्च एते सर्वे द्विजाः स्मृताः । तस्माद्द्विजैः प्रयत्नेन त्रिपुण्ड्रं धार्यमन्वहम्
यस्योपनयनं ब्रह्मन् स एव द्विज उच्यते । तस्माच्छ्रौतं द्विजैः कार्यं त्रिपुण्ड्रस्य च धारणम्
विभूतिधारणं त्यक्त्वा यः सत्कर्म समाचरेत् । तत्कृतं चाकृतप्रायं भवत्येव न संशयः
न गायत्र्युपदेशोऽपि भस्मनो धारणं विना । ततो धृत्वैव भस्माङ्गे गायत्रीजपमाचरेत्
गायत्रीं मूलमेवाहुर्ब्राह्मण्ये मुनिपुङ्गव । सा भस्मधारणाभावे न केनाप्युपदिश्यते
न तावदधिकारोऽस्ति गायत्रीग्रहणे मुने । यावन्न भस्म भालादौ धृतमग्निसमुद्भवम्
भस्महीनललाटत्वं न ब्रह्मण्यानुमापकम् । एवमेव मया ब्रह्मन् हेतुरुक्तः सुपुण्यदः
मन्त्रपूतं सितं भस्म ललाटे परिवर्तते । स एव ब्राह्मणो विद्वान्सत्यं सत्यं मयोच्यते
यस्यास्ति सहजा प्रीतिर्मणिवद्भस्मसंग्रहे । स एव ब्राह्मणो ब्रह्मन् सत्यं सत्यं मयोच्यते
न यस्य सहजा प्रीतिर्मणिवद्भस्मसंग्रहे । स चाण्डाल इति ज्ञेयो जन्मजन्मान्तरे ध्रुवम्
न यस्य सहजा प्रीतिस्त्रिपुण्ड्रोद्धूलनादिषु । स चाण्डाल इति ज्ञेयः सत्यं सत्यं मयोच्यते
ये भस्मधारणं त्यक्त्वा भुञ्जन्ते च फलादिकम् । ते सर्वे नरकं घोरं प्राप्नुवन्ति न संशयः
(विभूतिधारणं त्यक्त्वा यः शिवं पूजयिष्यति । स दुर्भगः शिवद्वेष्टा स द्वेषो नरकप्रदः । सर्वकर्मबहिर्भूतो भस्मधारणवर्जितः ॥) विभूतिधारणं त्यक्त्वा कुर्वन् हेमतुलामपि । न तत्फलमवाप्नोति पतितो हि भवेद्धि सः
यथोपवीतरहितैः सन्ध्या न क्रियते द्विजैः । तथा सन्ध्या न कर्तव्या विभूतिरहितैरपि
गतोपवीतैः सन्ध्यायां कार्यः प्रतिनिधिः क्वचित् । जपादिकं तु सावित्र्यास्तथैवोपोषणादिकम्
विभूतिधारणे त्वन्यो नास्ति प्रतिनिधिः क्वचित् । विभूतिधारणं त्यक्त्वा यदि सन्ध्यां करोति यः
प्रत्यवैत्येव येनासौ नाधिकारी तदा द्विजः । यथा श्रुत्वान्त्यजो वेदान्प्रत्यवैति तथा द्विजः
प्रत्यवैति न सन्देहः सन्ध्याकृद्भस्मवर्जितः । सम्पादनीय यत्नेन श्रौतं भस्म सदा द्विजैः
स्मार्तं वा तदभावे तु लौकिकं वा समाहितैः । यादृशं तादृशं वास्तु पवित्रं भस्म सन्ततम्
धारणीयं प्रयत्नेन द्विजैः सन्ध्यादिकर्मसु । न संविशन्ति पापानि भस्मनिष्ठे ततः सदा
कर्तव्यमपि यत्नेन ब्राह्मणैर्भस्मधारणम् । मध्याङ्गुलित्रयेणैव स्वदक्षिणकरस्य तु
षडङ्गुलायतं मानमपि चाधिकमानकम् । नेत्रयुग्मप्रमाणेन भाले दीप्तं त्रिपुण्ड्रकम्
कदाचिद्भस्मना कुर्यात्स रुद्रो नात्र संशयः । अकारोऽनामिका प्रोक्त उकारो मध्यमाङ्गुलिः
मकारस्तर्जनी तस्मात् त्रिपुण्ड्रं त्रिगुणात्मकम् । त्रिपुण्ड्रं मध्यमातर्जन्यनामाभिरनुलोमतः
अत्र ते कथयाम्येनमितिहासं पुरातनम् । कदाचिदथ दुर्वासाः पितृलोकं गतोऽभवत्
भस्मसन्दिग्धसर्वाङ्गो रुद्राक्षाभरणान्वितः । शिव शङ्कर सर्वात्मञ्छ्रीमातर्जगदम्बिके