कण्ठे च धारणात्कण्ठभोगादिकृतपातकम् । बाह्वोर्बाहुकृतं पापं वक्षसा मनसा कृतम्
नाभ्यां शिश्नकृतं पापं गुदे गुदकृतं हरेत् । पार्श्वयोर्धारणाद्ब्रह्मन् परस्त्र्यालिङ्गनादिकम्
तद्भस्मधारणं शस्तं सर्वत्रैव त्रिलिङ्गकम् । ब्रह्मविष्णुमहेशानां त्रय्यग्नीनां च धारणम्
गुणलोकत्रयाणां च धारणं तेन वै कृतम् । भस्मच्छन्नो द्विजो विद्वान्महापातकसम्भवैः
दोषैर्वियुज्यते सद्यो मुच्यते च न संशयः । भस्मनिष्ठस्य दह्यन्ते दोषा भस्माग्निसङ्गमात्
भस्मस्नानविशुद्धात्मा आत्मनिष्ठ इति स्मृतः । भस्मना दिग्धसर्वाङ्गो भस्मदीप्तत्रिपुण्ड्रकः
भस्मशायी च पुरुषो भस्मनिष्ठ इति स्मृतः । भूतप्रेतपिशाचाद्या रोगाश्चातीव दुःसहाः
भस्मनिष्ठस्य सान्निध्याद्विद्रवन्ति न संशयः । भासनाद्भसितं प्रोक्तं भस्म कल्मषभक्षणात्
भूतिर्भूतिकरी पुंसां रक्षा रक्षाकरी पुरा । त्रिपुण्ड्रधारिणं दृष्ट्वा भूतप्रेतपुरःसराः
भीताः प्रकम्पिताः शीघ्रं नश्यन्त्येव न संशयः । स्मरणादेव रुद्रस्य यथा पापं प्रणश्यति
अप्यकार्यसहस्राणि कृत्वा यः स्नाति भस्मना । तत्सर्वं दहते भस्म यथाग्निस्तेजसा वनम्
कृत्वापि चातुलं पापं मृत्युकालेऽपि यो द्विजः । भस्मस्नायी भवेत्कश्चित्क्षिप्रं पापैः प्रमुच्यते
भस्मस्नानाद्धि शुद्धात्मा जितक्रोधो जितेन्द्रियः । मत्समीपं समागम्य न स भूयोऽभिवर्तते
वनस्पतिगते सोमे भस्मोद्धूलितविग्रहः । अर्चितं शङ्करं दृष्ट्वा सर्वपापैः प्रमुच्यते
आयुष्कामोऽथवा विद्वान्भूतिकामोऽथवा नरः । नित्यं वै धारयेद्भस्म मोक्षकामी च वै द्विजः
त्रिपुण्ड्रं परमं पुण्यं ब्रह्मविष्णुशिवात्मकम् । ये घोरा राक्षसाः प्रेता ये चान्ये क्षुद्रजन्तवः
त्रिपुण्ड्रधारणं दृष्ट्वा पलायन्ते न संशयः । कृत्वा शौचादिकं कर्म स्नात्वा तु विमले जले
भस्मनोद्धूलनं कार्यमापादतलमस्तकम् । केवलं वारुणं स्नानं देहे बाह्यमलापहम्
विभूतिस्तानमनघं बाह्यान्तरमलापहम् । त्यक्त्वापि वारुणं स्नानं तत्परः स्यान्न संशयः
कृतमप्यकृतं सत्यं भस्मस्नानं विना मुने । भस्मस्नानं श्रुतिप्रोक्तमाग्नेयं स्नानमुच्यते
अन्तर्बहिश्च संशुद्धं शिवपूजाफलं लभेत् । यद्बाह्यमलमात्रस्य नाशकं स्तानमस्ति तत्
तन्नाशयति तीव्रेण प्राणिबाह्यान्तरं मलम् । कृत्वापि कोटिशो नित्यं वारुणं स्नानमादरात्
न भवत्येव पूतात्मा भस्मस्नानं विना मुने । यद्भस्मस्नानमाहाम्यं तद्वेदो वेद तत्त्वतः
यद्वा वेद महादेवः सर्वदेवशिखामणिः । भस्मस्नानमकृत्वैव यः कुर्यात्कर्म वैदिकम्
स तत्कर्मकलार्धार्धमपि नाप्नोति वस्तुतः । यः करिष्यति यत्नेन भस्मस्नानं यथाविधि
स एवैकः सर्वकर्मस्वधिकारी श्रुतिश्रुतः । पावनं पावनानां च भस्मस्नानं श्रुतिश्रुतम्
न करिष्यति यो मोहात्स महापातकी भवेत् । अनन्तैर्वारुणैः स्नानैर्यत्पुण्यं प्राप्यते द्विजैः
ततोऽनन्तगुणं पुण्यं भस्मस्नानादवाप्यते । कालत्रयेऽपि कर्तव्यं भस्मस्नानं प्रयत्नतः
भस्मस्नानं स्मृतं श्रौतं तत्त्यागी पतितो भवेत् । मूत्राद्युत्सर्जनान्ते तु भस्मस्नानं प्रयत्नतः
कर्तव्यमन्यथा पूता न भविष्यन्ति मानवाः । विधिवत्कृतशौचोऽपि भस्मस्नानं विना द्विजः