सर्वपापविनिर्मुक्तः स याति परमां गतिम् । आग्नेयं भस्मना स्नानं यतीनां च विशिष्यते
आर्द्रस्नानाद्वरं भस्मस्नानमार्द्रवधो ध्रुवः । आर्द्रं तु प्रकृतिं विद्यात्प्रकृतिं बन्धनं विदुः
प्रकृतेस्तु प्रहाणाय भस्मना स्नानमिष्यते । भस्मना सदृशं ब्रह्यन्नास्ति लोकत्रयेष्वपि
रक्षार्थं मङ्गलार्थं च पवित्रार्थं पुरा सुरैः । भस्म दृष्ट्वा मुने पूर्वं दत्तं देव्यै प्रियेण तु
तस्मादेतच्छिरःस्नानमाग्नेयं यः समाचरेत् । भवपाशैर्विनिर्मुक्तः शिवलोके महीयते
ज्वररक्षःपिशाचाश्च पूतनाकुष्ठगुल्मकाः । भगन्दराणि सर्वाणि चाशीतिर्वातरोगकाः
चतुःषष्टिः पित्तरोगाः श्लेष्मा सप्तत्रिपञ्चकाः । व्याघ्रचौरभयं चैवाप्यन्ये दुष्टग्रहा अपि
भस्मस्नानेन नश्यन्ति सिंहेनैव यथा गजाः । शुद्धशीतजलेनैव भस्मना च त्रिपुण्ड्रकम्
यो धारयेत्परं ब्रह्म स प्राप्नोति न संशयः । (भस्मना च त्रिपुण्ड्रं च यः कोऽपि धारयेत्परम् । स ब्रह्मलोकमाप्नोति मुक्तपापो न संशयः
नाशयेल्लिखितां यामीं ललाटस्थां लिपिं ध्रुवम् । कण्ठोपरिकृतं पापं नाशयेत्तत्प्रधारणात्
कण्ठे च धारणात्कण्ठभोगादिकृतपातकम् । बाह्वोर्बाहुकृतं पापं वक्षसा मनसा कृतम्
नाभ्यां शिश्नकृतं पापं गुदे गुदकृतं हरेत् । पार्श्वयोर्धारणाद्ब्रह्मन् परस्त्र्यालिङ्गनादिकम्
तद्भस्मधारणं शस्तं सर्वत्रैव त्रिलिङ्गकम् । ब्रह्मविष्णुमहेशानां त्रय्यग्नीनां च धारणम्
गुणलोकत्रयाणां च धारणं तेन वै कृतम् । भस्मच्छन्नो द्विजो विद्वान्महापातकसम्भवैः
दोषैर्वियुज्यते सद्यो मुच्यते च न संशयः । भस्मनिष्ठस्य दह्यन्ते दोषा भस्माग्निसङ्गमात्
भस्मस्नानविशुद्धात्मा आत्मनिष्ठ इति स्मृतः । भस्मना दिग्धसर्वाङ्गो भस्मदीप्तत्रिपुण्ड्रकः
भस्मशायी च पुरुषो भस्मनिष्ठ इति स्मृतः । भूतप्रेतपिशाचाद्या रोगाश्चातीव दुःसहाः
भस्मनिष्ठस्य सान्निध्याद्विद्रवन्ति न संशयः । भासनाद्भसितं प्रोक्तं भस्म कल्मषभक्षणात्
भूतिर्भूतिकरी पुंसां रक्षा रक्षाकरी पुरा । त्रिपुण्ड्रधारिणं दृष्ट्वा भूतप्रेतपुरःसराः
भीताः प्रकम्पिताः शीघ्रं नश्यन्त्येव न संशयः । स्मरणादेव रुद्रस्य यथा पापं प्रणश्यति
अप्यकार्यसहस्राणि कृत्वा यः स्नाति भस्मना । तत्सर्वं दहते भस्म यथाग्निस्तेजसा वनम्
कृत्वापि चातुलं पापं मृत्युकालेऽपि यो द्विजः । भस्मस्नायी भवेत्कश्चित्क्षिप्रं पापैः प्रमुच्यते
भस्मस्नानाद्धि शुद्धात्मा जितक्रोधो जितेन्द्रियः । मत्समीपं समागम्य न स भूयोऽभिवर्तते
वनस्पतिगते सोमे भस्मोद्धूलितविग्रहः । अर्चितं शङ्करं दृष्ट्वा सर्वपापैः प्रमुच्यते
आयुष्कामोऽथवा विद्वान्भूतिकामोऽथवा नरः । नित्यं वै धारयेद्भस्म मोक्षकामी च वै द्विजः
त्रिपुण्ड्रं परमं पुण्यं ब्रह्मविष्णुशिवात्मकम् । ये घोरा राक्षसाः प्रेता ये चान्ये क्षुद्रजन्तवः
त्रिपुण्ड्रधारणं दृष्ट्वा पलायन्ते न संशयः । कृत्वा शौचादिकं कर्म स्नात्वा तु विमले जले
भस्मनोद्धूलनं कार्यमापादतलमस्तकम् । केवलं वारुणं स्नानं देहे बाह्यमलापहम्
विभूतिस्तानमनघं बाह्यान्तरमलापहम् । त्यक्त्वापि वारुणं स्नानं तत्परः स्यान्न संशयः
कृतमप्यकृतं सत्यं भस्मस्नानं विना मुने । भस्मस्नानं श्रुतिप्रोक्तमाग्नेयं स्नानमुच्यते