सकृत्तिर्यक्त्रिपुण्ड्राङ्कं धारयेत्सोऽपि मुच्यते । नास्य ज्ञानं परीक्षेत न कुलं न व्रतं तथा
त्रिपुण्ड्राङ्कितभालेन पूज्य एव हि नारद । शिवमन्त्रात्परो मन्त्रो नास्ति तुल्यं शिवात्परम्
शिवार्चनात्परं पुण्यं न हि तीर्थं च भस्मना । रुद्राग्नेर्यत्परं तीर्थं तद्भस्म परिकीर्तितम्
ध्वंसनं सर्वदुःखानां सर्वपापविशोधनम् । अन्त्यजो वाधमो वापि मूर्खो वा पण्डितोऽपि वा
यस्मिन्देशे वसेन्नित्यं भूतिशासनसंयुतः । तस्मिन्सदाशिवः सोमः सर्वभूतगणैर्वृतः । सर्वतीर्थेश्च संयुक्तः सान्निध्यं कुरुते सदा
एतानि पञ्चशिवमन्त्रपवित्रितानि भस्मानि कामदहनाङ्गविभूषितानि । त्रैपुण्ड्रकाणि रचितानि ललाटपट्टे लुम्पन्ति दैवलिखितानि दुरक्षराणि
विभूतिधारणमाहात्म्यवर्णनम् श्रीनारायण उवाच भस्मदिग्धशरीराय यो ददाति धनं मुदा । तस्य सर्वाणि पापानि विनश्यन्ति न संशयः
श्रुतयः स्मृतयः सर्वाः पुराणान्यखिलान्यपि । वदन्ति भूतिमाहाम्यं तत्तस्माद्धारयेद्द्विजः
सितेन भस्मना कुर्यात्त्रिसन्ध्यं यस्त्रिपुण्ड्रकम् । सर्वपापविनिर्मुक्तः शिवलोके महीयते
योगी सर्वाङ्गकं स्तानमापादतलमस्तकम् । त्रिसन्ध्यमाचरेन्नित्यमाशु योगमवाप्नुयात्
भस्मस्नानेन पुरुषः कुलस्योद्धारको भवेत् । भस्मस्नानं जलस्नानादसंख्येयगुणान्वितम्
सर्वतीर्थेषु यत्पुण्यं सर्वतीर्थेषु यत्फलम् । तत्फलं लभते सर्वं भस्मस्नानान्न संशयः
महापातकयुक्तो वा युक्तो वाप्युपपातकैः । भस्मस्नानेन तत्सर्वं दहत्यग्निरिवेन्धनम्
भस्मस्नानात्परं स्नानं पवित्रं नैव विद्यते । एवमुक्तं शिवेनादौ तदा स्नातः स्वयं शिवः
तदाप्रभृति ब्रह्माद्या मुनयश्च शिवार्थिनः । सर्वकर्मसु यत्नेन भस्मस्नानं प्रचक्रिरे
तस्मादेतच्छिरःस्नानमाग्नेयं यः समाचरेत् । अनेनैव शरीरेण स हि रुद्रो न संशयः
ये भस्मधारिणं दृष्ट्वा परितृप्ता भवन्ति ते । देवासुरमुनीन्द्रैश्च पूज्या नित्यं न संशयः
भस्मसञ्छन्नसर्वाङ्गं दृष्ट्वोत्तिष्ठति यः पुमान् । तं दृष्ट्वा देवराजोऽपि दण्डवत्प्रणमिष्यति
अभक्ष्यभक्षणं येषां भस्मधारणपूर्वकम् । तेषां तद्भक्ष्यमेव स्यान्मुने नात्र विचारणा
यः स्नाति भस्मना नित्यं जले स्नात्वा ततः परम् । ब्रह्मचारी गृहस्थो वा वानप्रस्थोऽऽथवादरात्
सर्वपापविनिर्मुक्तः स याति परमां गतिम् । आग्नेयं भस्मना स्नानं यतीनां च विशिष्यते
आर्द्रस्नानाद्वरं भस्मस्नानमार्द्रवधो ध्रुवः । आर्द्रं तु प्रकृतिं विद्यात्प्रकृतिं बन्धनं विदुः
प्रकृतेस्तु प्रहाणाय भस्मना स्नानमिष्यते । भस्मना सदृशं ब्रह्यन्नास्ति लोकत्रयेष्वपि
रक्षार्थं मङ्गलार्थं च पवित्रार्थं पुरा सुरैः । भस्म दृष्ट्वा मुने पूर्वं दत्तं देव्यै प्रियेण तु
तस्मादेतच्छिरःस्नानमाग्नेयं यः समाचरेत् । भवपाशैर्विनिर्मुक्तः शिवलोके महीयते
ज्वररक्षःपिशाचाश्च पूतनाकुष्ठगुल्मकाः । भगन्दराणि सर्वाणि चाशीतिर्वातरोगकाः
चतुःषष्टिः पित्तरोगाः श्लेष्मा सप्तत्रिपञ्चकाः । व्याघ्रचौरभयं चैवाप्यन्ये दुष्टग्रहा अपि
भस्मस्नानेन नश्यन्ति सिंहेनैव यथा गजाः । शुद्धशीतजलेनैव भस्मना च त्रिपुण्ड्रकम्
यो धारयेत्परं ब्रह्म स प्राप्नोति न संशयः । (भस्मना च त्रिपुण्ड्रं च यः कोऽपि धारयेत्परम् । स ब्रह्मलोकमाप्नोति मुक्तपापो न संशयः
नाशयेल्लिखितां यामीं ललाटस्थां लिपिं ध्रुवम् । कण्ठोपरिकृतं पापं नाशयेत्तत्प्रधारणात्