हिरण्यगर्भेण तदवतारैर्वरुणादिभिः । देवताभिर्धृतं भस्म त्रिपुण्ड्रोद्धूलनात्मकम्
उमादेव्या च लक्ष्या च वाचा चान्याभिरास्तिकैः । सर्वस्त्रीभिर्धृतं भस्म त्रिपुण्ड्रोद्धूलनात्मना
यक्षराक्षसगन्धर्वसिद्धविद्याधरादिभिः । मुनिभिश्च धृतं भस्म त्रिपुण्ड्रोद्धूलनात्मना
ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रेरपि च सङ्करैः । अपभ्रंशैर्धृतं भस्म त्रिपुण्ड्रोद्धूलनात्मना
उद्धूलनं त्रिपुण्ड्रं च यैः समाचरितं मुदा । त एव शिष्टा विद्वांसो नेतरे मुनिपुङ्गव
शिवलिङ्गं मणिः सख्यं मन्त्रः पञ्चाक्षरस्तथा । विभूतिरौषधं पुंसां मुक्तिस्त्रीवश्यकर्मणि
भुनक्ति यत्र भस्माङ्गो मूर्खो वा पण्डितोऽपि वा । तत्र भुङ्क्ते महादेवः सपत्नीको वृषध्वजः
भस्मसञ्छन्नसर्वाङ्गमनुगच्छति यः पुमान् । सर्वपातकयुक्तोऽपि पूजितो मानवोऽचिरात्
भस्मसञ्छन्नसर्वाङ्गं यः स्तौति श्रद्धया सह । सर्वपातकयुक्तोऽपि पूज्यते मानवोऽचिरात्
त्रिपुण्ड्रधारिणे भिक्षाप्रदानेन हि केवलम् । तेनाधीतं श्रुतं तेन तेन सर्वमनुष्ठितम्
येन विप्रेण शिरसि त्रिपुण्ड्रं भस्मना कृतम् । कीकटेष्वपि देशेषु यत्र भूतिविभूषणः
मानवस्तु वसेन्नित्यं काशीक्षेत्रसमं हि तत् । दुःशीलः शीलयुक्तो वा योगयुक्तोऽप्यलक्षणः
भूतिशासनयुक्तो वा स पूज्यो मम पुत्रवत् । छद्मनापि चरेद्यो हि भूतिशासनमैश्वरम्
सोऽपि यां गतिमाप्नोति न तां यज्ञशतैरपि । सम्पर्काल्लीलया वापि भयाद्वा धारयेत्तु यः
विधियुक्तो विभूतिं तु स च पूज्यो यथा ह्यहम् । शिवस्य विष्णोर्देवानां ब्रह्मणस्तृप्तिकारणम्
पार्वत्याश्च महालक्ष्या भारत्यास्तृप्तिकारणम् । न दानेन न यज्ञेन न तपोभिः सुदुर्लभैः
न तीर्थयात्रया पुण्यं त्रिपुण्ड्रेण च लभ्यते । दानं यज्ञाश्च धर्माश्च तीर्थयात्राश्च नारद
ध्यानं तपस्त्रिपुण्ड्रस्य कलां नार्हन्ति षोडशीम् । यथा राजा स्वचिह्नाङ्कं स्वजनं मन्यते सदा
तथा शिवस्त्रिपुण्ड्राङ्कं स्वकीयमिव मन्यते । द्विजातिर्वान्यजातिर्वा शुद्धचित्तेन भस्मना
धारयेद्यस्त्रिपुण्ड्राङ्कं रुद्रस्तेन वशीकृतः । त्यक्तसर्वाश्रमाचारो लुप्तसर्वक्रियोऽपि सः
सकृत्तिर्यक्त्रिपुण्ड्राङ्कं धारयेत्सोऽपि मुच्यते । नास्य ज्ञानं परीक्षेत न कुलं न व्रतं तथा
त्रिपुण्ड्राङ्कितभालेन पूज्य एव हि नारद । शिवमन्त्रात्परो मन्त्रो नास्ति तुल्यं शिवात्परम्
शिवार्चनात्परं पुण्यं न हि तीर्थं च भस्मना । रुद्राग्नेर्यत्परं तीर्थं तद्भस्म परिकीर्तितम्
ध्वंसनं सर्वदुःखानां सर्वपापविशोधनम् । अन्त्यजो वाधमो वापि मूर्खो वा पण्डितोऽपि वा
यस्मिन्देशे वसेन्नित्यं भूतिशासनसंयुतः । तस्मिन्सदाशिवः सोमः सर्वभूतगणैर्वृतः । सर्वतीर्थेश्च संयुक्तः सान्निध्यं कुरुते सदा
एतानि पञ्चशिवमन्त्रपवित्रितानि भस्मानि कामदहनाङ्गविभूषितानि । त्रैपुण्ड्रकाणि रचितानि ललाटपट्टे लुम्पन्ति दैवलिखितानि दुरक्षराणि
विभूतिधारणमाहात्म्यवर्णनम् श्रीनारायण उवाच भस्मदिग्धशरीराय यो ददाति धनं मुदा । तस्य सर्वाणि पापानि विनश्यन्ति न संशयः
श्रुतयः स्मृतयः सर्वाः पुराणान्यखिलान्यपि । वदन्ति भूतिमाहाम्यं तत्तस्माद्धारयेद्द्विजः
सितेन भस्मना कुर्यात्त्रिसन्ध्यं यस्त्रिपुण्ड्रकम् । सर्वपापविनिर्मुक्तः शिवलोके महीयते
योगी सर्वाङ्गकं स्तानमापादतलमस्तकम् । त्रिसन्ध्यमाचरेन्नित्यमाशु योगमवाप्नुयात्