ईशानेन तु मन्त्रेण स्वमूर्धनि विनिक्षिपेत् । तत आदाय तद्भस्म मुखे च पुरुषेण तु
अघोराख्येण हृदये गुह्ये वामाह्वयेन च । सद्योजाताभिधानेन भस्म पादद्वये क्षिपेत्
सर्वाङ्गं प्रणवेनैव मन्त्रेणोद्धूलनं ततः । एतदाग्नेयकं स्नानमुदितं परमर्षिभिः
सर्वकर्मसमृद्ध्यर्थं कुर्यादादाविदं बुधः । ततः प्रक्षाल्य हस्तादीनुपस्पृश्य यथाविधि
तिर्यक्त्रिपुण्ड्रं विधिना ललाटे हृदये गले । पञ्चभिर्ब्रह्मभिर्वापि कृतेन भसितेन च
घृतमेतत्त्रिपुण्ड्रं स्यात्सर्वकर्मसु पावनम् । शूद्रैरन्त्यजहस्तस्थं न धार्यं भस्म च क्वचित्
भस्मना साग्निहोत्रेण लिप्तः कर्म समाचरेत् । अन्यथा सर्वकर्माणि न फलन्ति कदाचन
सत्यं शौचं जपो होमस्तीर्थं देवादिपूजनम् । तस्य व्यर्थमिदं सर्वं यस्त्रिपुण्ड्रं न धारयेत्
त्रिपुण्ड्रधृग्विप्रवरो यो रुद्राक्षधरः शुचिः । स हन्ति रोगदुरितव्याधिदुर्भिक्षतस्करान्
समाप्नोति परं ब्रह्म यतो नावर्तते पुनः । स पङ्क्तिपावनः श्राद्धे पूज्यो विप्रैः सुरैरपि
श्राद्धे यज्ञे जपे होमे वैश्वदेवे सुरार्चने । धृतत्रिपुण्ड्रः पूतात्मा मृत्युं जयति मानवः । भस्मधारणमाहात्म्यं भूयोऽपि कथयामि ते
त्रिपुण्डधारणमाहात्म्यवर्णनम् श्रीनारायण उवाच महापातकसङ्घाश्च पातकान्यपराण्यपि । नश्यन्ति मुनिशार्दूल सत्यं सत्यं न चान्यथा
एकं भस्म धृतं येन तस्य पुण्यफलं शृणु । यतीनां ज्ञानदं प्रोक्तं वानस्थानां विरक्तिदम्
गृहस्थानां मुने तद्वद्धर्मवृद्धिकरं तथा । ब्रह्मचर्याश्रमस्थानां स्वाध्यायप्रदमेव च
शूद्राणां पुण्यदं नित्यमन्येषां पापनाशनम् । भस्मनोद्धूलनं चैव तथा तिर्यक् त्रिपुण्ड्रकम्
रक्षार्थं सर्वभूतानां विधत्ते वैदिकी श्रुतिः । भस्मनोद्धूलनं चैव तथा तिर्यक् त्रिपुण्ड्रकम्
यज्ञत्वेनैव सर्वेषां विधत्ते वैदिकी श्रुतिः । भस्मनोद्धूलनं चैव तथा तिर्यक् त्रिपुण्ड्रकम्
सर्वधर्मतया तेषां विधत्ते वैदिकी श्रुतिः । भस्मनोद्धूलनं चैव तथा तिर्यक् त्रिपुण्ड्रकम्
माहेश्वराणां लिङ्गार्थं विधत्ते वैदिकी श्रुतिः । भस्मनोद्धूलनं चैव तथा तिर्यक् त्रिपुण्ड्रकम्
विज्ञानार्थं च सर्वेषां विधत्ते वैदिकी श्रुतिः । शिवेन विष्णुना चैव ब्रह्मणा वज्रिणा तथा
हिरण्यगर्भेण तदवतारैर्वरुणादिभिः । देवताभिर्धृतं भस्म त्रिपुण्ड्रोद्धूलनात्मकम्
उमादेव्या च लक्ष्या च वाचा चान्याभिरास्तिकैः । सर्वस्त्रीभिर्धृतं भस्म त्रिपुण्ड्रोद्धूलनात्मना
यक्षराक्षसगन्धर्वसिद्धविद्याधरादिभिः । मुनिभिश्च धृतं भस्म त्रिपुण्ड्रोद्धूलनात्मना
ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रेरपि च सङ्करैः । अपभ्रंशैर्धृतं भस्म त्रिपुण्ड्रोद्धूलनात्मना
उद्धूलनं त्रिपुण्ड्रं च यैः समाचरितं मुदा । त एव शिष्टा विद्वांसो नेतरे मुनिपुङ्गव
शिवलिङ्गं मणिः सख्यं मन्त्रः पञ्चाक्षरस्तथा । विभूतिरौषधं पुंसां मुक्तिस्त्रीवश्यकर्मणि
भुनक्ति यत्र भस्माङ्गो मूर्खो वा पण्डितोऽपि वा । तत्र भुङ्क्ते महादेवः सपत्नीको वृषध्वजः
भस्मसञ्छन्नसर्वाङ्गमनुगच्छति यः पुमान् । सर्वपातकयुक्तोऽपि पूजितो मानवोऽचिरात्
भस्मसञ्छन्नसर्वाङ्गं यः स्तौति श्रद्धया सह । सर्वपातकयुक्तोऽपि पूज्यते मानवोऽचिरात्
त्रिपुण्ड्रधारिणे भिक्षाप्रदानेन हि केवलम् । तेनाधीतं श्रुतं तेन तेन सर्वमनुष्ठितम्