तन्त्रोक्तवर्त्मना सिद्धं भस्म तान्त्रिकपूजकैः । यत्रकुत्रापि दत्तं चेत्तद्ग्राह्यं नैव वैदिकैः
शूद्रैः कापालिकैर्वाथ पाखण्डैरपरैस्तु तत् । त्रिपुण्ड्रं धारयेद्भक्त्या मनसापि न लङ्घयेत्
श्रुत्या विधीयते यस्मात्तत्त्यागी पतितो भवेत् । त्रिपुण्ड्रधारणं भक्त्या तथा देहावगुण्ठनम्
द्विजः कुर्याद्धि मन्त्रेण तत्त्यागी पतितो भवेत् । उद्धूलनं त्रिपुण्ड्रं च भक्त्या नैवाचरन्ति ये
तेषां नास्ति विनिर्मोक्षः संसाराज्जन्मकोटिभिः । येन भस्मोक्तमार्गेण धृतं न मुनिपुङ्गव
तस्य विद्धि मुने जन्म निष्कलं सौकरं यथा । येषां वपुर्मनुष्याणां त्रिपुण्ड्रेण विना स्थितम्
श्मशानसदृशं तत्स्यान्न प्रेक्ष्यं पुण्यकृज्जनैः । धिग्भस्मरहितं भालं धिग्ग्राममशिवालयम्
धिगनीशार्चनं जन्म धिग्विद्यामशिवाश्रयाम् । त्रिपुण्ड्रं ये विनिन्दन्ति निन्दन्ति शिवमेव ते
धारयन्ति च ये भक्त्या धारयन्ति तमेव ते । यथा कृशानुरहितो भूधरो न विराजते
अशेषसाधनेऽप्येवं भस्महीनं शिवार्चनम् । उद्धूलनं त्रिपुण्ड्रं च श्रद्धया नाचरन्ति ये
तैः पूर्वाचरितं सर्वं विपरीतं भवेदपि । भस्मना वेदमन्त्रेण त्रिपुण्ड्रस्य च धारणम्
विना वेदोचिताचारं स्मार्तस्यानर्थकारणम् । कृतं स्यादकृतं तेन श्रुतमप्यश्रुतं भवेत्
अधीतमनधीतं च त्रिपुण्ड्रं यो न धारयेत् । वृथा वेदा वृथा यज्ञा वृथा दानं वृथा तपः
वृथा व्रतोपवासेन त्रिपुण्ड्रं यो न धारयेत् । भस्मधारणकं त्यक्त्वा मुक्तिमिच्छति यः पुमान्
विषपानेन नित्यत्वं कुरुते ह्यात्मनो हि सः । स्रष्टा सृष्टिच्छलेनाह त्रिपुण्ड्रस्य च धारणम्
ससर्ज स ललाटं हि तिर्यगूर्ध्वं न वर्तुलम् । तिर्यग्रेखाः प्रदृश्यन्ते ललाटे सर्वदेहिनाम्
तथापि मानवा मूर्खा न कुर्वन्ति त्रिपुण्ड्रकम् । न तद्ध्यानं न तन्मोक्षं न तज्ज्ञानं न तत्तपः
विना तिर्यक्त्रिपुण्ड्रं च विप्रेण यदनुष्ठितम् । वेदस्याध्ययने शूद्रो नाधिकारी यथा भवेत्
त्रिपुण्ड्रेण विना विप्रो नाधिकारी शिवार्चने । प्राङ्मुखश्चरणौ हस्तौ प्रक्षाल्याचम्य पूर्ववत्
प्राणानायम्य सङ्कल्प्य भस्मस्नानं समाचरेत् । आदाय भसितं शुद्धमग्निहोत्रसमुद्भवम्
ईशानेन तु मन्त्रेण स्वमूर्धनि विनिक्षिपेत् । तत आदाय तद्भस्म मुखे च पुरुषेण तु
अघोराख्येण हृदये गुह्ये वामाह्वयेन च । सद्योजाताभिधानेन भस्म पादद्वये क्षिपेत्
सर्वाङ्गं प्रणवेनैव मन्त्रेणोद्धूलनं ततः । एतदाग्नेयकं स्नानमुदितं परमर्षिभिः
सर्वकर्मसमृद्ध्यर्थं कुर्यादादाविदं बुधः । ततः प्रक्षाल्य हस्तादीनुपस्पृश्य यथाविधि
तिर्यक्त्रिपुण्ड्रं विधिना ललाटे हृदये गले । पञ्चभिर्ब्रह्मभिर्वापि कृतेन भसितेन च
घृतमेतत्त्रिपुण्ड्रं स्यात्सर्वकर्मसु पावनम् । शूद्रैरन्त्यजहस्तस्थं न धार्यं भस्म च क्वचित्
भस्मना साग्निहोत्रेण लिप्तः कर्म समाचरेत् । अन्यथा सर्वकर्माणि न फलन्ति कदाचन
सत्यं शौचं जपो होमस्तीर्थं देवादिपूजनम् । तस्य व्यर्थमिदं सर्वं यस्त्रिपुण्ड्रं न धारयेत्
त्रिपुण्ड्रधृग्विप्रवरो यो रुद्राक्षधरः शुचिः । स हन्ति रोगदुरितव्याधिदुर्भिक्षतस्करान्
समाप्नोति परं ब्रह्म यतो नावर्तते पुनः । स पङ्क्तिपावनः श्राद्धे पूज्यो विप्रैः सुरैरपि