प्रासादेन तु मन्त्रेण गृहीत्वा गोमयं शुभम् । हृदयेन तु मन्त्रेण पिण्डीकृत्य तु गोमयम्
रविरश्मिसुसन्तप्तं शुचौ देशे मनोहरे । तुषेण वा बुसैर्वापि प्रासादेन तु निक्षिपेत्
अरण्युद्भवमग्निं वा श्रोत्रियागारजं तु वा । तदग्नौ विन्यसेत्तं च शिवबीजेन मन्त्रतः
गृह्णीयादथ तत्राग्निकुण्डाद्भस्म विचक्षणः । नवपात्रं समादाय प्रासादेन तु निक्षिपेत्
केतकी पाटली तद्वदुशीरं चन्दनं तथा । नानासुगन्धिद्रव्याणि काश्मीरप्रभृतीनि च
निक्षिपेत्तत्र पात्रे तु सद्योमन्त्रेण शुद्धधीः । जलस्नानं पुरा कृत्वा भस्मस्नानमतः परम्
जलस्नाने त्वशक्तश्च भस्मस्नानं समाचरेत् । प्रक्षाल्य पादौ हस्तौ च शिरश्चेशानमन्त्रतः
समुद्धूल्य ततः पश्चादाननं तत्पुरुषेण तु । अघोरेण तु हृदयं नाभिं वामेन तत्परम्
सद्योमन्त्रेण सर्वाङ्गं समूद्धूल्य विचक्षणः । पूर्ववस्त्रं परित्यज्य शुद्धवस्त्रं परिग्रहेत्
प्रक्षाल्य पादौ हस्तौ च पश्चादाचमनं चरेत् । भस्मनोद्धूलनाभावे त्रिपुण्ड्रं तु विधीयते
मध्याह्नात्प्राग्जलैर्युक्तं परतो जलवर्जितम् । तर्जन्यनामिकामध्यैस्त्रिपुण्ड्रं च समाचरेत्
मूर्ध्नि चैव ललाटे च कर्णे कण्ठे तथैव च । हृदये चैव बाह्वोश्च न्यासस्थानं हि चोच्यते
पञ्चाङ्गुलैर्न्यसेन्मूर्ध्नि प्रासादेन तु मन्त्रतः । त्र्यङ्गुलैर्विन्यसेद्भाले शिरोमन्त्रेण देशिकः
सद्येन दक्षिणे कर्णे वामदेवेन वामतः । अघोरेण तु कण्ठे च मध्याङ्गुल्या स्पृशेद्बुधः
हृदयं हृदयेनैव त्रिभिरङ्गुलिभिः स्पृशेत् । विन्यसेद्दक्षिणे बाहौ शिखामन्त्रेण देशिकः
वामबाहौ न्यसेद्धीमान्कवचेन त्रियङ्गुलैः । मध्येन संस्पृशेन्नाभ्यामीशान इति मन्त्रतः
ब्रह्मविष्णुमहेशानास्तिस्रो रेखा इति स्मृताः । आद्यो ब्रह्मा ततो विष्णुस्तदूर्ध्वं तु महेश्वरः
एकाङ्गुलेन न्यस्तं यदीश्वरस्तत्र देवता । शिरोमध्ये त्वयं ब्रह्मा ईश्वरस्तु ललाटके
कर्णयोरश्विनौ देवौ गणेशस्तु गले तथा । क्षत्रियश्च तथा वैश्यः शूद्रश्चोद्धूलनं त्यजेत्
सर्वेषामन्त्यजातीनां मन्त्रेण रहितं भवेत् । (अदीक्षितं मनुष्याणामपि मन्त्रं विना भवेत्)
भस्मधारणमाहाम्यवर्णनम् श्रीनारायण उवाच देवर्षे शृणु तत्सर्वं भस्मोद्धूलनजं फलम् । सरहस्यविधानं च सर्वकामफलप्रदम्
कपिलायाः शकृत्स्वच्छं गृहीत्वा गगनेऽपतत् । न क्लिन्नं नापि कठिनं न दुर्गन्धं न चोषितम्
उपर्यधः परित्यज्य गह्णीयात्पतितं यदि । पिण्डीकृत्य शिवाग्न्यादौ तत्क्षिपेन्मूलमन्त्रितम्
आदाय वाससाऽऽच्छाद्य भस्माधाने विनिक्षिपेत् । सुकृते सुदृढे शुद्धे क्षालिते प्रोक्षिते शुभे
विन्यस्य मन्त्री मन्त्रेण पात्रे भस्म विनिक्षिपेत् । तैजसं दारवं चाथ मृण्मयं चैलमेव च
अन्यद्वा शोभनं शुद्धं भस्माधारं प्रकल्पयेत् । क्षौमे चैवातिशुद्धे वा धनवद्भस्म निक्षिपेत्
प्रस्थितो भस्म गृह्णीयात्स्वयं चानुचरोऽपि वा । न चायुक्तकरे दद्यान्न चाशुचितले क्षिपेत्
न संस्पृशेत्तु नीचाङ्गैर्न क्षिपेन्न च लङ्घयेत् । तस्माद्भसितमादाय विनियुञ्जीत मन्त्रितम्
विभूतिधारणविधिः स्मृतिप्रोक्तो मयेरितः । यदीयाचरणेनैव शिवतुल्यो न संशयः
शैवैः सम्पादितं भस्म वैदिकैः शिवसन्निधौ । भक्त्या परमया ग्राह्यं प्रार्थयित्वा तु पूजयेत्