तस्मिन्दिने निराहारः कालशेषं समापयेत् । प्रातः पर्वणि चाप्येवं कृत्वा होमावसानतः
उपसंहृत्य रुद्राग्निं गृहीत्वा भस्म यत्नतः । ततश्च जटिलो मुण्डः शिखैकजट एव च
भूत्वा स्नात्वा पुनर्वीतलज्जश्चेत्स्याद्दिगम्बरः । अन्यः काषायवसनश्चर्मचीराम्बरोऽथवा
एकाम्बरो वल्कलवान्भवेद्दण्डी च मेखली । प्रक्षाल्य चरणौ पश्चाद्द्विराचम्यात्मनस्तनुम्
सङ्कलीकृत्य तद्भस्म विरजानलसम्भवम् । अग्निरित्यादिभिर्मन्त्रैः षड्भिराथर्वणैः क्रमात्
विमृज्याङ्गानि मूर्धादिचरणान्तं च तैः स्पृशेत् । ततस्तेन क्रमेणैव समुद्धूल्य च भस्मना
सर्वाङ्गोद्धूलनं कुर्यात्प्रणवेन शिवेन वा । ततश्च पुण्ड्रं रचयेत्त्रियायुषसमाह्वयम्
शिवभावं समागम्य शिवभावमथाचरेत् । कुर्यात्त्रिसन्ध्यमप्येवमेतत्पाशुपतं व्रतम्
भुक्तिमुक्तिप्रदं चैव पशुत्वं विनिवर्तयेत् । तत्पशुत्वं परित्यज्य कृत्वा पाशुपतं व्रतम्
पूजनीयो महादेवो लिङ्गमूर्तिः सदाशिवः । भस्मस्नानं महापुण्यं सर्वसौख्यकरं परम्
आयुष्यं बलमारोग्यं श्रीपुष्टिवर्धनं यतः । रक्षार्थं मङ्गलार्थं च सर्वसम्पत्समृद्धये
भस्मस्निग्धमनुष्याणां महामारीभयं न च । शान्तिकं पौष्टिकं भस्म कामदं च त्रिधा भवेत्
त्रिविधभस्ममाहात्म्यवर्णनम् नारद उवाच त्रिविधत्वं कथं चास्य भस्मनः परिकीर्तितम् । एतत्कथय मे देव महत्कौतूहलं मम
श्रीनारायण उवाच त्रिविधत्वं प्रवक्ष्यामि देवर्षे भस्मनः शृणु । महापापक्षयकरं महाकीर्तिकरं परम्
गोमयं योनिसम्बद्धं तद्धस्तेनैव गृह्यते । ब्राह्मैर्मन्त्रैस्तु सन्दग्धं तच्छान्तिकृदिहोच्यते
सावधानस्तु गृह्णीयान्नरो वै गोमयं तु यत् । अन्तरिक्षे गृहीत्वा तत्षडङ्गेन दहेदतः
पौष्टिकं तत्समाख्यातं कामदं च ततः शृणु । प्रासादेन दहेदेतत्कामदं भस्म कीर्तितम्
प्रातरुत्थाय देवर्षे भस्मव्रतपरः शुचिः । गवां गोष्ठेषु गत्वा तु नमस्कृत्य तु गोकुलम्
गवां वर्णानुरूपाणां गृह्णीयाद्गोमयं शुभम् । ब्राह्मणस्य च गौः श्वेता रक्ता गौः क्षत्रियस्य च
पीतवर्णा तु वैश्यस्य कृष्णा शूद्रस्य कथ्यते । पौर्णमास्याममावास्यामष्टम्यां वा विशुद्धधीः
प्रासादेन तु मन्त्रेण गृहीत्वा गोमयं शुभम् । हृदयेन तु मन्त्रेण पिण्डीकृत्य तु गोमयम्
रविरश्मिसुसन्तप्तं शुचौ देशे मनोहरे । तुषेण वा बुसैर्वापि प्रासादेन तु निक्षिपेत्
अरण्युद्भवमग्निं वा श्रोत्रियागारजं तु वा । तदग्नौ विन्यसेत्तं च शिवबीजेन मन्त्रतः
गृह्णीयादथ तत्राग्निकुण्डाद्भस्म विचक्षणः । नवपात्रं समादाय प्रासादेन तु निक्षिपेत्
केतकी पाटली तद्वदुशीरं चन्दनं तथा । नानासुगन्धिद्रव्याणि काश्मीरप्रभृतीनि च
निक्षिपेत्तत्र पात्रे तु सद्योमन्त्रेण शुद्धधीः । जलस्नानं पुरा कृत्वा भस्मस्नानमतः परम्
जलस्नाने त्वशक्तश्च भस्मस्नानं समाचरेत् । प्रक्षाल्य पादौ हस्तौ च शिरश्चेशानमन्त्रतः
समुद्धूल्य ततः पश्चादाननं तत्पुरुषेण तु । अघोरेण तु हृदयं नाभिं वामेन तत्परम्
सद्योमन्त्रेण सर्वाङ्गं समूद्धूल्य विचक्षणः । पूर्ववस्त्रं परित्यज्य शुद्धवस्त्रं परिग्रहेत्
प्रक्षाल्य पादौ हस्तौ च पश्चादाचमनं चरेत् । भस्मनोद्धूलनाभावे त्रिपुण्ड्रं तु विधीयते