जय सर्वामरस्तव्य गुणराशे महामुने । वरिष्ठाय च पूज्याय सस्त्रीकाय नमोऽस्तु ते
प्रसादः क्रियतां स्वामिन् वयं त्वां शरणं गताः । दुस्तराच्छैलजाद्दुःखात्पीडिताः परमद्युते
इत्येवं संस्तुतोऽगस्त्यो मुनिः परमधार्मिकः । प्राह प्रसन्नया वाचा विहसन् द्विजसत्तमः
मुनिरुवाच भवन्तः परमश्रेष्ठा देवास्त्रिभुवनेश्वराः । लोकपाला महात्मानो निग्रहानुग्रहक्षमाः
योऽमरावत्यधीशानः कुलिशं यस्य चायुधम् । सिद्ध्यष्टकं च यद्द्वारि स शक्रो मरुतां पतिः
वैश्वानरः कृशानुर्हि हव्यकव्यवहोऽनिशम् । मुखं सर्वामराणां हि सोऽग्निः किं तस्य दुष्करम्
रक्षोगणाधिपो भीमः सर्वेषां कर्मसाक्षिकः । दण्डव्यग्रकरो देवः किं तस्यासुकरं सुराः
तथापि यदि देवेशाः कार्यं मच्छक्तिसिद्धिभृत् । अस्ति चेदुच्यतां देवाः करिष्यामि न संशयः
एवं मुनिवरेणोक्तं निशम्य विबुधर्षभाः । प्रतीताः प्रणयोद्विग्नाः कार्यं निजगदुर्निजम्
महर्षे विन्ध्यगिरिणा निरुद्धोऽर्कविनिर्गमः । त्रैलोक्यं तेन संविष्टं हाहाभूतमचेतनम्
तद्वृद्धिं स्तम्भय मुने निजया तपसः श्रिया । भवतस्तेजसागस्त्य नूनं नम्रो भविष्यति । एतदेवास्मदीयं च कार्यं कर्तव्यमस्ति हि
विन्ध्यवृद्ध्यवरोधवर्णनम् सूत उवाच इति वाक्यं समाकर्ण्य विबुधानां द्विजोत्तमः । करिष्ये कार्यमेतद्वः प्रत्युवाच ततो मुनिः
अङ्गीकृते तदा कार्ये मुनिना कुम्भजन्मना । देवाः प्रमुदिताः सर्वे बभूबुर्द्विजसत्तमाः
ते देवाः स्वानि धिष्ण्यानि भेजिरे मुनिवाक्यतः । पत्नीं मुनिवरः श्रीमानुवाच नृपकन्यकाम्
अये नृपसुते प्राप्तो विघ्नोऽनर्थस्य कारकः । भानुमार्गनिरोधेन कृतो विन्ध्यमहीभृता
आज्ञातं कारणं तच्च स्मृतं वाक्यं पुरातनम् । काशीमुद्दिश्य यद्गीतं मुनिभिस्तत्त्वदर्शिभिः
अविमुक्तं न मोक्तव्यं सर्वथैव मुमुक्षुभिः । किन्तु विघ्ना भविष्यन्ति काश्यां निवसतां सताम्
सोऽन्तरायो मया प्राप्तः काश्यां निवसता प्रिये । इत्येवमुक्त्वा भार्यां तां मुनिः परमतापनः
मणिकर्ण्यां समाप्लुत्य दृष्ट्वा विश्वेश्वरं विभुम् । दण्डपाणिं समभ्यर्च्य कालराजं समागतः
कालराज महाबाहो भक्तानां भयहारक । कथं दूरयसे पुर्याः काशीपुर्यास्त्वमीश्वरः
त्वं काशीवासविघ्नानां नाशको भक्तरक्षकः । मां किं दूरयसे स्वामिन् भक्तार्तिविनिवारक
परापवादो नोक्तो मे न पैशुन्यं न चानृतम् । केन कर्मविपाकेन काश्या दूरं करोषि माम्
एवं प्रार्थ्य च तं कालनाथं कुम्भोद्भवो मुनिः । जगाम साक्षिविघ्नेशं सर्वविघ्ननिवारणम्
तं दृष्ट्वाभ्यर्च्य सम्प्रार्थ्य ततः पुर्या विनिर्गतः । लोपामुद्रापतिः श्रीमानगस्त्यो दक्षिणां दिशम्
काशीविरहसन्तप्तो महाभाग्यनिधिर्मुनिः । संस्मृत्यानुक्षणं काशीं जगाम सह भार्यया
तपोयानमिवारुह्य निमिषार्धेन वै मुनिः । अग्रे ददर्श तं विन्ध्यं रुद्धाम्बरमथोन्नतम्
चकम्पे चाचलस्तूर्णं दृष्ट्वैवाग्रे स्थितं मुनिम् । गिरिः खर्वतरो भूत्वा विवक्षुरवनीमिव
दण्डवत्पतितो भूमौ साष्टाङ्गं भक्तिभावितः । तं दृष्ट्वा नम्रशिखरं विन्ध्यं नाम महागिरिम्
प्रसन्नवदनोऽगस्त्यो मुनिर्विन्ध्यमथाब्रवीत् । वत्सैवं तिष्ठ तावत्त्वं यावदागम्यते मया
अशक्तोऽहं गण्डशैलारोहणे तव पुत्रक । एवमुक्त्वा मुनिर्याम्यदिशं प्रति गमोत्सुकः