इति प्राप्य वरं शंभोर्महर्षिर्जगदम्बिकाम् । वरदानोन्मुखीं देवीं प्रणनाम महेश्वरीम्
कोटिचंद्रकलाकान्तिं सुस्मितां परिपूज्य च । तुष्टाव भक्त्या सततमिलायाः पुंस्त्वकाम्यया
जय देवि महादेवि भक्तानुग्रहकारिणि । जय सर्वसुराराध्ये जयानंतगुणालये
नमो नमस्ते देवेशि शरणागतवत्सले । जय दुर्गे दु:खहंत्रि दुष्टदैत्यनिषूदिनि
भक्तिगम्ये महामाये नमस्ते जगदम्बिके । संसारसागरोत्तारपोतीभूतपदाम्बुजे
ब्रह्मादयोऽपि विबुधास्त्वत्पादांबुजसेवया । विश्वसर्गस्थितिलयप्रभुत्वं समवाप्नुयुः
प्रसन्ना भव देवेशि चतुर्वर्गप्रदायिनि । कस्त्वां स्तोतुं क्षमो देवि केवलं प्रणतोऽस्म्यहम्
एवं स्तुता भगवती दुर्गा नारायणी परा । भक्त्या वसिष्ठमुनिना प्रसन्ना तत्क्षणादभूत्
तदोवाच महादेवी प्रणतार्तिहरी मुनिम् । सुद्युम्नभवनं गत्वा कुरु भक्त्या मदर्चनम्
सुद्युम्नं श्रावय प्रीत्या पुराणं मत्प्रियंकरम् । देवीभागवतं नाम नवाहोभिर्द्विजोत्तम
श्रवणादेव सततं पुंस्त्वमस्य भविष्यति । इत्युक्त्वा च तिरोधानं गच्छतःस्म शिवेश्वरौ
वसिष्ठस्तां दिशं नत्वा समागत्याश्रमं निजम् । समाहूय च सुद्युम्नं देव्याराधनमादिशत्
आश्विनस्य सिते पक्षे संपूज्य जगदंबिकाम् । नवरात्रविधानेन श्रावयामास भूपतिम्
श्रुत्वा भक्त्यापि सुद्युम्नः श्रीमद्भागवतामृतम् । प्रणम्याभ्यर्च्य च गुरुं लेभे पुंस्त्वं निरंतरम्
राज्यासनेऽभिषिक्तस्तु वसिष्ठेन महर्षिणा । भुवं शशास धर्मेण प्रजाश्चैवानुरंजयन्
ईजे च विविधैर्यज्ञैः संपूर्णवरदक्षिणैः । पुत्रेषु राज्यं संदिश्य प्राप देव्याः सलोकताम्
इति कथितमशेषं सेतिहासं च विप्रा यदि पठति सुभक्त्या मानवो वा शृणोति । स इह सकलकामान्प्राप्य देव्याः प्रसादात्परममृतमथान्ते याति देव्याः सलोकम्
अथ चतुर्थोऽध्यायः सूत उवाच। इति श्रुत्वा कथां दिव्यां विचित्रां कुंभसंभवः । शुश्रूषुः पुनराहेदं विशाखं विनयान्वितः
अगस्त्य उवाच। देवसेनापते . देव विचित्रेयं श्रुता कथा । पुनरन्यच्च माहात्म्यं वद भागवतस्य मे
स्कन्द उवाच। मित्रावरुणसंभूत मुने शृणु कथामिमाम् । यत्रैकदेश महिमा प्रोक्ता भागवतस्य तु
वर्ण्यते धर्मविस्तारो गायत्रीमधिकृत्य च । गायत्र्या महिमा यत्र तद्भागवतमिष्यते
भगवत्या इदं यस्मात्तस्माद्भागवतं विदुः । ब्रह्मविष्णुशिवाराध्या परा भगवती हि सा
ऋतवागिति विख्यातो मुनिरासीन्महामतिः । तस्य पुत्रोऽभवत्काले गण्डान्ते पौष्णभान्तिमे
स तस्य जातकर्मादि क्रियाश्चक्रे यथाविधि । चूडोपनयनादींश्च संस्कारानपि सोऽकरोत्
यत आरभ्य जातोऽसौ पुत्रस्तस्य महात्मनः । तत एवाथ स मुनिः शोकरोगाकुलोऽभवत्
रोषलोभपरीतात्मा तथा मातापि तस्य च । बहुरागार्दिता नित्यं शुचा दुःखीकृता भृशम्
ऋतवाक्स मुनिश्चिन्तामवाप भृशदुःखितः । किमेततत्कारणं जातं पुत्रो मेऽत्यंतदुर्मतिः
कस्यचिन्मुनिपुत्रस्य बलात्पत्नीं जहार च । मेने शिक्षां पितुर्नासौ न च मातुर्विमूढधीः
ततो विषण्णचित्तस्तु ऋतवागब्रवीदिदम् । अपुत्रता वरं नॄणां न कदाचित्कुपुत्रता
पितॄन्कुपुत्रः स्वर्यातान्निरये पातयत्यपि । यावज्जीवेत्सदा पित्रोः केवलं दुःखदायकः