अग्निहोत्राग्निजं तद्वद्विरजानलजं मुने । औपासनसमुत्पन्नं समिदग्निसमुद्भवम्
पचनाग्निसमुत्पन्नं दावानलसमुद्भवम् । त्रैवर्णिकानां सर्वेषामग्निहोत्रसमुद्भवम्
विरजानलजं चैव धार्यं भस्म महामुने । औपासनसमुत्पन्नं गृहस्थानां विशेषतः
समिदग्निसमुत्पन्नं धार्यं वै ब्रह्मचारिणा । शूद्राणां श्रोत्रियागारपचनाग्निसमुद्भवम्
अन्येषामपि सर्वेषां धार्यं दावानलोद्भवम् । कालश्चित्रा पौर्णमासी देशः स्वीयः परिग्रहः
क्षेत्रारामाद्यरण्यं वा प्रशस्तः शुभलक्षणः । तत्र पूर्वत्रयोदश्यां सुस्नातः सुकृताह्निकः
अनुज्ञाप्य स्वमाचार्यं संपूज्य प्रणिपत्य च । पूजां वैशेषिकीं कृत्वा शुक्लाम्बरधरः स्वयम्
शुद्धयज्ञोपवीती च शुक्लमाल्यानुलेपनः । दर्भासने समासीनो दर्भमुष्टिं प्रगृह्य च
प्राणायामत्रयं कृत्वा प्राङ्मुखो वाप्युदङ्मुखः । ध्यात्वा देवं च देवीं च तद्विज्ञापनवर्त्मना
व्रतमेतत्करोमीति भवेत्सङ्कल्पदीक्षितः । यावच्छरीरपातं वा द्वादशाब्दमथापि वा
तदर्धं वा तदर्धं वा मासद्वादशकं तु वा । तदर्धं वा तदर्धं वा मासमेकमथापि वा
दिनद्वादशकं वापि दिनषट्कमथापि वा । तदर्धं दिनमेकं वा व्रतसङ्कल्पनावधि
अग्निमाधाय विधिवद्विरजाहोमकारणात् । हुत्वाऽऽज्येन समिद्भिश्च चरुणा च यथाविधि
पूताहात्पुरतो भूयस्तत्त्वानां शुद्धिमुद्दिशन् । जुहुयान्मूलमन्त्रेण तैरेव समिदादिभिः
तत्त्वान्येतानि मे देहे शुध्यन्तामित्यनुस्मरन् । पश्चाद्भूतादितन्मात्राः पञ्चकर्मेन्द्रियाणि च
ज्ञानकर्मविभेदेन पञ्च पञ्च विभागशः । त्वगादिधातवः सप्त पञ्च प्राणादिवायवः
मनो बुद्धिरहङ्कारो गुणाः प्रकृतिपूरुषौ । रागो विद्या कला चैव नियतिः काल एव च
माया च शुद्धविद्या च महेश्वरसदाशिवौ । शक्तिश्च शिवतत्त्वं च तत्त्वानि क्रमशो विदुः
मन्त्रैस्तु विरजैर्हुत्वा होतासौ विरजो भवेत् । अथ गोमयमादाय पिण्डीकृत्याभिमन्त्र्य च
न्यस्याग्नौ तं च संरक्ष्य दिने तस्मिन् हविष्यभुक् । प्रभाते च चतुर्दश्यां कृत्वा सर्वं पुरोदितम्
तस्मिन्दिने निराहारः कालशेषं समापयेत् । प्रातः पर्वणि चाप्येवं कृत्वा होमावसानतः
उपसंहृत्य रुद्राग्निं गृहीत्वा भस्म यत्नतः । ततश्च जटिलो मुण्डः शिखैकजट एव च
भूत्वा स्नात्वा पुनर्वीतलज्जश्चेत्स्याद्दिगम्बरः । अन्यः काषायवसनश्चर्मचीराम्बरोऽथवा
एकाम्बरो वल्कलवान्भवेद्दण्डी च मेखली । प्रक्षाल्य चरणौ पश्चाद्द्विराचम्यात्मनस्तनुम्
सङ्कलीकृत्य तद्भस्म विरजानलसम्भवम् । अग्निरित्यादिभिर्मन्त्रैः षड्भिराथर्वणैः क्रमात्
विमृज्याङ्गानि मूर्धादिचरणान्तं च तैः स्पृशेत् । ततस्तेन क्रमेणैव समुद्धूल्य च भस्मना
सर्वाङ्गोद्धूलनं कुर्यात्प्रणवेन शिवेन वा । ततश्च पुण्ड्रं रचयेत्त्रियायुषसमाह्वयम्
शिवभावं समागम्य शिवभावमथाचरेत् । कुर्यात्त्रिसन्ध्यमप्येवमेतत्पाशुपतं व्रतम्
भुक्तिमुक्तिप्रदं चैव पशुत्वं विनिवर्तयेत् । तत्पशुत्वं परित्यज्य कृत्वा पाशुपतं व्रतम्
पूजनीयो महादेवो लिङ्गमूर्तिः सदाशिवः । भस्मस्नानं महापुण्यं सर्वसौख्यकरं परम्