शिरोव्रतेन यः स्नातस्तं तु नोपदिशेत्तु यः । तस्य विद्या विनष्टा स्यान्निर्घृणः स गुरुः खलु
ब्रह्मविद्यागुरुः साक्षान्मुनिः कारुणिकः खलु । यथा सर्वेश्वरः श्रीमान्मृदुः कारुणिकः खलु
जन्मान्तरसहस्रेषु नरा ये धर्मचारिणः । तेषामेव खलु श्रद्धा जायते न कदाचन
प्रत्युताज्ञानबाहुल्याद्द्वेष एव विजायते । अतः प्रद्वेषयुक्तस्य न भवेदात्मवेदनम्
ब्रह्मविद्योपदेशस्य साक्षादेवाधिकारिणः । त एव नेतरे विद्वन् ये तु स्नाताः शिरोव्रतैः
व्रतं पाशुपतं चीर्णं यैर्द्विजैरादरेण तु । तेषामेवोपदेष्टव्यमिति वेदानुशासनम्
यः पशुस्तत्पशुत्वं च व्रतेनानेन सन्त्यजेत् । तान्हत्वा न स पापीयान्भवेद्वेदान्तनिश्चयः
त्रिपुण्ड्रधारणं प्रोक्तं जाबालैरादरेण तु । त्रियम्बकेन मन्त्रेण सतारेण शिवेन च
त्रिपुण्ड्रं धारयेन्नित्यं गहस्थाश्रममाश्रितः । ओङ्कारेण त्रिरुक्तेन सहंसेन त्रिपुण्ड्रकम्
धारयेद्भिक्षुको नित्यमिति जाबालिकी श्रुतिः । त्रियम्बकेन मन्त्रेण प्रणवेन शिवेन च
गृहस्थश्च वानप्रस्थो धारयेच्च त्रिपुण्ड्रकम् । मेधावीत्यादिना वापि ब्रह्मचारी दिने दिने
भस्मना सजलेनापि धारयेच्च त्रिपुण्ड्रकम् । ब्राह्मणो विधिनोत्पन्नस्त्रिपुण्ड्रभस्मनैव तु
ललाटे धारयेन्नित्यं तिर्यग्भस्मावगुण्ठनम् । (महादेवस्य सम्बन्धात्तद्धर्मेऽप्यस्ति सङ्गतिः ।) सम्यक् त्रिपुण्ड्रधर्मं च ब्राह्मणो नित्यमाचरेत्
आदिब्राह्मणभूतेन त्रिपुण्ड्रं भस्मना धृतम् । यतोऽत एव विप्रस्तु त्रिपुण्ड्रं धारयेत्सदा
भस्मना वेदसिद्धेन त्रिपुण्ड्रं देहगुण्ठनम् । रुद्रलिङ्गार्चनं वापि मोहतोऽपि च न त्यजेत्
त्रियम्बकेन मन्त्रेण सतारेण तथैव च । पञ्चाक्षरेण मन्त्रेण प्रणवेन तथैव च
ललाटे हृदये चैव दोर्द्वन्द्वे च महामुने । त्रिपुण्ड्रं धारयेन्नित्यं संन्यासाश्रममाश्रितः
त्रियायुषेण मन्त्रेण मेधावीत्यादिनाथवा । गौणेन भस्मना धार्यं त्रिपुण्ड्रं ब्रह्मचारिणा
नमोऽन्तेन शिवेनैव शूद्रः शुश्रूषणे रतः । उद्धूलनं त्रिपुण्ड्रं च नित्यं भक्त्या समाचरेत्
अन्येषामपि सर्वेषां विना मन्त्रेण सुव्रत । उद्धूलनं त्रिपुण्ड्रं च कर्तव्यं भक्तितो मुने
भूत्यैवोद्धूलनं तिर्यक् त्रिपुण्ड्रस्य च धारणम् । वरेण्यं सर्वधर्मेभ्यस्तस्मान्नित्यं समाचरेत्
भस्माग्निहोत्रजं वाथ विरजाग्निसमुद्भवम् । आदरेण समादाय शुद्धे पात्रे निधाय तत्
प्रक्षाल्य पादौ हस्तौ च द्विराचम्य समाहितः । गृहीत्वा भस्म तत्पञ्चब्रह्ममन्त्रैः शनैः शनैः
प्राणायामत्रयं कृत्वा अग्निरित्यादिमन्त्रितम् । तैरेव सप्तभिर्मन्त्रैस्त्रिवारमभिमन्त्रयेत्
ओमापोज्योतिरित्युक्त्वा ध्यात्वा मन्त्रानुदीरयेत् । सितेन भस्मना पूर्वं समुद्धूल्य शरीरकम्
विपापो विरजो मर्त्यो जायते नात्र संशयः । ततो ध्यात्वा महाविष्णुं जगन्नाथं जलाधिपम्
संयोज्य भस्मना तोयमग्निरित्यादिभिः पुनः । विमृज्य साम्बं ध्यात्वा च समुद्धूल्योर्ध्वमस्तकम्
तेन भावनया ब्राह्मभूतेन सितभस्मना । ललाटवक्षःस्कन्धेषु स्वाश्रमोचितमन्त्रतः
मध्यमानामिकाङ्गुष्ठैरनुलोमविलोमतः । त्रिपुण्ड्रं धारयेन्नित्यं त्रिकालेष्वपि भक्तितः
भस्ममाहात्म्ये पाशुपतव्रतवर्णनम् श्रीनारायण उवाच आग्नेयं गौणमज्ञानध्वंसकं ज्ञानसाधकम् । गौणं नानाविधं विद्धि ब्रह्मन्ब्रह्मविदांवर