हृदो भूमध्यपर्यन्तं वृत्तं षड्बिन्दुलाञ्छितम् । यं बीजयुक्तं धूम्राभं नभस्वन्मण्डलं स्मरेत्
आब्रह्मरन्ध्रं भ्रूमध्याद्वृत्तं स्वच्छं मनोहरम् । हं बीजयुक्तमाकाशमण्डलं च विचिन्तयेत्
एवं भूतानि सञ्चिन्त्य प्रत्येकं संविलापयेत् । भुवं जले जलं वह्नौ वह्निं वायौ नभस्यमुम्
विलाप्य खमहङ्कारे महत्तत्त्वेऽप्यहङ्कृतिम् । महान्तं प्रकृतौ मायामात्मनि प्रविलापयेत्
शुद्धसंविन्मयो भूत्वा चिन्तयेत्पापपूरुषम् । वामकुक्षिस्थितं कृष्णमङ्गुष्ठपरिमाणकम्
ब्रह्महत्याशिरोयुक्तं कनकस्तेयबाहुकम् । मदिरापानहृदयं गुरुतल्पकटीयुतम्
तत्संसर्गिपदद्वन्द्वमुपपातकमस्तकम् । खड्गचर्मधरं कृष्णमधोवक्त्रं सुदुःसहम्
वायुबीजं स्मरन्वायुं सम्पूर्यैनं विशोषयेत् । स्वशरीरयुतं मन्त्रो वह्निबीजेन निर्दहेत्
कुम्भके परिजप्तेन ततः पापनरोद्भवम् । बहिर्भस्म समुत्सार्य वायुबीजेन रेचयेत्
सुधाबीजेन देहोत्थं भस्म संप्लावयेत्सुधीः । भूबीजेन घनीकृत्य भस्म तत्कनकाण्डवत्
विशुद्धमुकुराकारं जपन्बीजं विहायसः । मूर्धादिपादपर्यन्तान्यङ्गानि रचयेत्सुधीः
आकाशादीनि भूतानि पुनरुत्पादयेच्चितः । सोऽहं मन्त्रेण चात्मानमानयेद्धृदयाम्बुजे
कुण्डलीजीवमादाय परसङ्गात्सुधामयम् । संस्थाप्य हृदयाम्भोजे मूलाधारगतां स्मरेत्
रक्ताम्भोधिस्थपोतोल्लसदरुण- सरोजाधिरूढा कराब्जैः शूलं कोदण्डमिक्षूद्भवमणिगुण- मप्यङ्कुशं पञ्चबाणान् । बिभ्राणासृक्कपालं त्रिनयन- लसिता पीनवक्षोरुहाढ्या देवी बालार्कवर्णा भवतु सुखकरी प्राणशक्तिः परा नः
एवं ध्यात्वा प्राणशक्तिं परमात्मस्वरूपिणीम् । विभूतिधारणं कार्यं सर्वाधिकृतिसिद्धये
विभूतेर्विस्तरं वक्ष्ये धारणे च महाफलम् । श्रुतिस्मृतिप्रमाणोक्तं भस्मधारणमुत्तमम्
सशिरोव्रतं त्रिपुण्डधारणवर्णनम् श्रीनारायण उवाच इदं शिरोव्रतं चीर्णं विधिवद्यैर्द्विजातिभिः । तेषामेव परां विद्यां वदेदज्ञानबाधिकाम्
विधिवच्छ्रद्धया सार्धं न चीर्णं यैः शिरोव्रतम् । श्रौतस्मार्तसमाचारस्तेषामनुपकारकः
शिरोव्रतसमाचारादेव ब्रह्मादिदेवताः । देवता अभवन्विद्वन् खलु नान्येन हेतुना
शिरोव्रतस्य माहात्म्यं पूर्वैः पूर्वतरं कृतम् । ब्रह्मा विष्णुश्च रुद्रश्च देवताः सकला अपि
सर्वपातकयुक्तोऽपि मुच्यते सर्वपातकैः । शिरोव्रतमिदं येन चरितं विधिवद्बुधैः
शिरोव्रतमिदं नाम शिरस्याथर्वणश्रुतेः । यदुक्तं तद्धि नैवान्यत्तत्तु पुण्येन लभ्यते
शाखाभेदेषु नामानि व्रतस्यास्य विभेदतः । पठ्यन्ते मुनिशार्दूल शाखास्वेकव्रतं हि तत्
सर्वशाखासु वस्त्वेकं शिवाख्यं सत्यचिद्घनम् । तथा तद्विषयं ज्ञानं तथैव च शिरोतव्रतम्
शिरोव्रतविहीनस्तु सर्वधर्मविवर्जितः । अपि सर्वासु विद्यासु सोऽधिकारी न संशयः
शिरोव्रतमिदं कार्यं पापकान्तारदाहकम् । साधनं सर्वविद्यानां यतस्तत्सम्यगाचरेत्
श्रुतिराथर्वणी सूक्ष्मा सूक्ष्मार्थस्य प्रकाशिनी । यदुवाच व्रतं प्रीत्या तन्नित्यं सम्यगाचरेत्
अग्निरित्यादिभिर्मन्त्रैः षड्भिः शुद्धेन भस्मना । सर्वाङ्गोद्धूलनं कुर्याच्छिरोव्रतसमाह्वयम्
एतच्छिरोव्रतं कुर्यात्सन्ध्याकालेषु सादरम् । यावद्विद्योदयस्तावत्तस्य विद्या खलूत्तमा
द्वादशाब्दमथाब्दं वा तदर्धं च तदर्धकम् । प्रकुर्याद्द्वादशाहं वा सङ्कल्पेन शिरोव्रतम्