अष्टोत्तरशतैर्मालोपवीतं च प्रकल्पयेत् । द्विसरं त्रिसरं वापि बिभृयात्कण्ठदेशतः
कुण्डले मुकुटे चैव कर्णिकाहारकेषु च । केयूरे कटके चैव कुक्षिवंशे तथैव च
सुप्ते पीते सर्वकालं रुद्राक्षं धारयेन्नरः । त्रिशतं त्वधमं पञ्चशतं मध्यममुच्यते
सहस्रमुत्तमं प्रोक्तं चैवं भेदेन धारयेत् । शिरसीशानमन्त्रेण कर्णे तत्पुरुषेण च
अघोरेण ललाटे तु तेनैव हृदयेऽपि च । अघोरबीजमन्त्रेण करयोर्धारयेत्पुनः
पञ्चाशदक्षग्रथितां वामदेवेन चोदरे । पञ्चब्रह्मभिरङ्गैश्चाप्येवं रुद्राक्षधारणम्
ग्रथितान्मूलमन्त्रेण सर्वानक्षांस्तु धारयेत् । एकवक्त्रस्तु रुद्राक्षः परतत्त्वप्रकाशकः
परतत्त्वधारणाच्च जायते तत्प्रकाशनम् । द्विवक्त्रस्तु मुनिश्रेष्ठ अर्धनारीश्वरो भवेत्
धारणादर्धनारीशः प्रीयते तस्य नित्यशः । त्रिवक्त्रस्त्वनलः साक्षात्स्त्रीहत्यां दहति क्षणात्
त्रिमुखश्चैव रुद्राक्षोऽप्यग्नित्रयस्वरूपकः । तद्धारणाच्च हुतभुक् तस्य तुष्यति नित्यशः
चतुर्मुखस्तु रुद्राक्षः पितामहस्वरूपकः । तद्धारणान्महाश्रीमान्महदारोग्यमुत्तमम्
महती ज्ञानसम्पत्तिः शुद्धये धारयेन्नरः । पञ्चमुखस्तु रुद्राक्षः पञ्चब्रह्मस्वरूपकः
तस्य धारणमात्रेण सन्तुष्यति महेश्वरः । षड्वक्त्रश्चैव रुद्राक्षः कार्तिकेयाधिदैवतः
विनायकं चापि देवं प्रवदन्ति मनीषिणः । सप्तवक्त्रस्तु रुद्राक्षः सप्तमात्राधिदैवतः
सप्ताश्वदैवतश्चैव मुनिसप्तकदैवतः । तद्धारणान्महाश्रीः स्यान्महदारोग्यमुत्तमम्
महती ज्ञानसम्पत्तिः शुचिर्वै धारयेन्नरः । अष्टवक्त्रस्तु रुद्राक्षोऽप्यष्टमात्राधिदैवतः
वस्वष्टकप्रीतिकरो गङ्गाप्रीतिकरः शुभः । तद्धारणादिमे प्रीता भवेयुः सत्यवादिनः
नववक्त्रस्तु रुद्राक्षो यमदेव उदाहृतः । तद्धारणाद्यमभयं न भवत्येव सर्वथा
दशवक्त्रस्तु रुद्राक्षो दशाशादैवतः स्मृतः । दशाशाप्रीतिजनको धारणे नात्र संशयः
एकादशमुखस्त्वक्षो रुद्रैकादशदैवतः । तमिन्द्रदैवतं चाहुः सदा सौख्यविवर्धनम्
रुद्राक्षो द्वादशमुखो महाविष्णुस्वरूपकः । द्वादशादित्यदैवश्च बिभर्त्येव हि तत्परः
त्रयोदशमुखश्चाक्षः कामदः सिद्धिदः शुभः । तस्य धारणमात्रेण कामदेवः प्रसीदति
चतुर्दशमुखश्चाक्षो रुद्रनेत्रसमुद्भवः । सर्वव्याधिहरश्चैव सर्वारोग्यप्रदायकः
मद्यं मांसं च लशुनं पलाण्डुं शिग्रुमेव च । श्लेष्मातकं विड्वराहं भक्षणे वर्जयेत्ततः
ग्रहणे विषुवे चैव सङ्क्रमे त्वयने तथा । दर्शे च पौर्णमासे च पुण्येषु दिवसेष्वपि । रुद्राक्षधारणात्सद्यः सर्वपापैः प्रमुच्यते
भूतशुद्धिवर्णनम् श्रीनारायण उवाच भूतशुद्धिप्रकारं च कथयामि महामुने । मूलाधारात्समुत्थाय कुण्डलीं परदेवताम्
सुषुम्णामार्गमाश्रित्य ब्रह्मरन्ध्रगतां स्मरेत् । जीवं ब्रह्मणि संयोज्य हंसमन्त्रेण साधकः
पादादिजानुपर्यन्तं चतुष्कोणं सवज्रकम् । लं बीजाख्यं स्वर्णवर्णं स्मरेदवनिमण्डलम्
जान्वाद्यानाभिचन्द्रार्धनिभं पद्मद्वयाङ्कितम् । वं बीजयुक्तं श्वेताभमम्भसो मण्डलं स्मरेत्
नाभेर्हृदयपर्यन्तं त्रिकोणं स्वस्तिकान्वितम् । रं बीजेन युतं रक्तं स्मरेत्पावकमण्डलम्