शिवदूतास्तदा प्रोचुरयं यस्मिन्स्थले मृतः । दशहस्तादधो भूमे रुद्राक्षस्तत्र चास्ति हि
तत्प्रभावेण हे दूता नेष्यामः शिवसन्निधिम् । ततो विमानमारुह्य दिव्यरूपधरो द्विजः
गतो गुणनिधिर्दूतैः सहितः शङ्करालयम् । इति रुद्राक्षमाहात्म्यं कथितं तव सुव्रत
एवं रुद्राक्षमहिमा समासात्कथितो मया । सर्वपापक्षयकरो महापुण्यफलप्रदः
रुद्राक्षमाहात्म्यवर्णनम् श्रीनारायण उवाच एवं नारद षड्वक्त्रो गिरिशेन विबोधितः । रुद्राक्षमहिमानं च ज्ञात्वासीत्स कृतार्थकः
इत्थं भूतानुभावोऽयं रुद्राक्षो वर्णितो मया । सदाचारप्रसङ्गेन शृणु चान्यत्समाहितः
यथा रुद्राक्षमहिमा वर्णितोऽनन्तपुण्यदः । लक्षणं मन्त्रविन्यासं तथाहं वर्णयामि ते
लक्षं तु दर्शनात्युण्यं कोटिस्तत्स्पर्शनाद्भवेत् । तस्य कोटिगुणं पुण्यं लभते धारणान्नरः
लक्षकोटिसहस्राणि लक्षकोटिशतानि च । तज्जपाल्लभते पुण्यं नरो रुद्राक्षधारणात्
रुद्राक्षाणां तु भद्राक्षधारणात्स्यान्महाफलम् । धात्रीफलप्रमाणं यच्छ्रेष्ठमेतदुदाहृतम्
बदरीफलमात्रं तु प्रोच्यते मध्यमं बुधैः । अधमं चणमात्रं स्यात्प्रतिज्ञैषा मयोदिता
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चेति शिवाज्ञया । वृक्षा जाताः पृथिव्यां तु तज्जातीयाः शुभाक्षकाः
श्वेतास्तु ब्राह्मणा ज्ञेयाः क्षत्रिया रक्तवर्णकाः । पीता वैश्यास्तु विज्ञेयाः कृष्णाः शूद्राः प्रकीर्तिताः
ब्राह्मणो बिभृयाच्छ्वेतान् रक्तान् राजा तु धारयेत् । पीतान्वैश्यस्तु बिभृयात्कृष्णान् शूद्रस्तु धारयेत्
समाः स्निग्धा दृढास्तद्वत्कण्टकैः संयुताः शुभाः । कृमिदष्टाञ्छिन्नभिन्नान्कण्टकैरहितांस्तथा
व्रणयुक्तानावृतांश्च षड्रुद्राक्षांस्तु वर्जयेत् । स्वयमेव कृतद्वारो रुद्राक्षः स्यादिहोत्तमः
यत्तु पौरुषयत्नेन कृतं तन्मध्यमं भवेत् । समान्स्निग्धान्दृढान्वृत्तान्क्षौमसूत्रेण धारयेत्
सर्वगात्रेषु साम्येन समानातिविलक्षणा । निर्घर्षे हेमलेखाभा यत्र लेखा प्रदृश्यते
तदक्षमुत्तमं विद्यात्स धार्यः शिवपूजकैः । शिखायामेकरुद्राक्षं त्रिंशद्वै शिरसा वहेत्
षट्त्रिंशच्च गले धार्या बाह्वोः षोडश षोडश । मणिबन्धे द्वादशाक्षान्स्कन्धे पञ्चाशतं भवेत्
अष्टोत्तरशतैर्मालोपवीतं च प्रकल्पयेत् । द्विसरं त्रिसरं वापि बिभृयात्कण्ठदेशतः
कुण्डले मुकुटे चैव कर्णिकाहारकेषु च । केयूरे कटके चैव कुक्षिवंशे तथैव च
सुप्ते पीते सर्वकालं रुद्राक्षं धारयेन्नरः । त्रिशतं त्वधमं पञ्चशतं मध्यममुच्यते
सहस्रमुत्तमं प्रोक्तं चैवं भेदेन धारयेत् । शिरसीशानमन्त्रेण कर्णे तत्पुरुषेण च
अघोरेण ललाटे तु तेनैव हृदयेऽपि च । अघोरबीजमन्त्रेण करयोर्धारयेत्पुनः
पञ्चाशदक्षग्रथितां वामदेवेन चोदरे । पञ्चब्रह्मभिरङ्गैश्चाप्येवं रुद्राक्षधारणम्
ग्रथितान्मूलमन्त्रेण सर्वानक्षांस्तु धारयेत् । एकवक्त्रस्तु रुद्राक्षः परतत्त्वप्रकाशकः
परतत्त्वधारणाच्च जायते तत्प्रकाशनम् । द्विवक्त्रस्तु मुनिश्रेष्ठ अर्धनारीश्वरो भवेत्
धारणादर्धनारीशः प्रीयते तस्य नित्यशः । त्रिवक्त्रस्त्वनलः साक्षात्स्त्रीहत्यां दहति क्षणात्
त्रिमुखश्चैव रुद्राक्षोऽप्यग्नित्रयस्वरूपकः । तद्धारणाच्च हुतभुक् तस्य तुष्यति नित्यशः