एकं शिखायां करयोर्द्वादश द्वादशैव तु । द्वात्रिंशत्कण्ठदेशे तु चत्वारिंशच्च मस्तके
एकैकं कर्णयोः षट् षट् वक्षस्यष्टोत्तरं शतम् । यो धारयति रुद्राक्षान् रुद्रवत्स तु पूज्यते
मुक्ताप्रवालस्कटिकरौप्यवैदूर्यकाञ्चनैः । समेतान्धारयेद्यस्तु रुद्राक्षान्स शिवो भवेत्
केवलानपि रुद्राक्षान्यद्यालस्याद्बिभर्ति यः । तं न स्पृशन्ति पापानि तमांसीव विभावसुम्
रुद्राक्षमालया मन्त्रो जप्तोऽनन्तफलप्रदः । यस्याङ्गे नास्ति रुद्राक्ष एकोऽपि बहुपुण्यदः
तस्य जन्म निरर्थं स्यात्त्रिपुण्ड्ररहितं यथा । रुद्राक्षं मस्तके धृत्वा शिरःस्नानं करोति यः
गङ्गास्नानफलं तस्य जायते नात्र संशयः । एकवक्त्रः पञ्चवक्त्र एकादशमुखाः परे
चतुर्दशमुखाः केचिद्रुद्राक्षा लोकपूजिताः । भक्त्या संपूज्यते नित्यं रुद्राक्षः शङ्करात्मकः
दरिद्रं वापि पुरुषं राजानं कुरुते भुवि । अत्र ते कथयिष्यामि पुराणं मतमुत्तमम्
कोसलेषु द्विजः कश्चिद्गिरिनाथ इति श्रुतः । महाधनी च धर्मात्मा वेदवेदाङ्गपारगः
यज्ञकृद्दीक्षितस्तस्य तनयः सुन्दराकृतिः । नाम्ना गुणनिधिः ख्यातस्तरुणः कामसुन्दरः
गुरोः सुधिषणस्याथ पत्नीं मुक्तावलीमथ । मोहयामास रूपेण यौवनेन मदेन च
सङ्गतस्तु तया सार्धं कञ्चित्कालं ततो भिया । विषं ददौ च गुरवे येभे पश्चात्तु निर्भयः
यदा माता पिता कर्म किञ्चिज्जानाति यत्क्षणे । मातरं पितरं चापि मारयामास तद्विषात्
नानाविलासभोगैश्च जाते द्रव्यव्यये ततः । ब्राह्मणानां गृहे चौर्यं चकार स तदा खलः
सुरापानमदोन्मत्तस्तदा ज्ञातिबहिष्कृतः । ग्रामान्निष्कासितः सर्वैस्तदा सोऽभूद्वनेचरः
मुक्तावल्या तया सार्धं जगाम गहनं वनम् । मार्गे स्थितो द्रव्यलोभाज्जघान ब्राह्मणान्बहून्
एवं बहुगते काले ममार स तदाधमः । नेतुं तं यमदूताश्च समाजग्मुः सहस्रशः
शिवलोकाच्छिवगणास्तथैव च समागताः । तयोः परस्परं वादो बभूव गिरिजासुत
यमदूतास्तदा प्रोचुः पुण्यमस्य किमस्ति हि । ब्रुवन्तु सेवकाः शम्भोर्यद्येनं नेतुमिच्छथ
शिवदूतास्तदा प्रोचुरयं यस्मिन्स्थले मृतः । दशहस्तादधो भूमे रुद्राक्षस्तत्र चास्ति हि
तत्प्रभावेण हे दूता नेष्यामः शिवसन्निधिम् । ततो विमानमारुह्य दिव्यरूपधरो द्विजः
गतो गुणनिधिर्दूतैः सहितः शङ्करालयम् । इति रुद्राक्षमाहात्म्यं कथितं तव सुव्रत
एवं रुद्राक्षमहिमा समासात्कथितो मया । सर्वपापक्षयकरो महापुण्यफलप्रदः
रुद्राक्षमाहात्म्यवर्णनम् श्रीनारायण उवाच एवं नारद षड्वक्त्रो गिरिशेन विबोधितः । रुद्राक्षमहिमानं च ज्ञात्वासीत्स कृतार्थकः
इत्थं भूतानुभावोऽयं रुद्राक्षो वर्णितो मया । सदाचारप्रसङ्गेन शृणु चान्यत्समाहितः
यथा रुद्राक्षमहिमा वर्णितोऽनन्तपुण्यदः । लक्षणं मन्त्रविन्यासं तथाहं वर्णयामि ते
लक्षं तु दर्शनात्युण्यं कोटिस्तत्स्पर्शनाद्भवेत् । तस्य कोटिगुणं पुण्यं लभते धारणान्नरः
लक्षकोटिसहस्राणि लक्षकोटिशतानि च । तज्जपाल्लभते पुण्यं नरो रुद्राक्षधारणात्
रुद्राक्षाणां तु भद्राक्षधारणात्स्यान्महाफलम् । धात्रीफलप्रमाणं यच्छ्रेष्ठमेतदुदाहृतम्