रुद्राक्षमाहात्म्ये गुणनिधिमोक्षवर्णनम् ईश्वर उवाच महासेन कुशग्रन्थिपुत्राजीवादयः परे । रुद्राक्षस्य तु नैकोऽपि कलामर्हति षोडशीम्
पुरुषाणां यथा विष्णुर्ग्रहाणां च यथा रविः । नदीनां तु यथा गङ्गा मुनीनां कश्यपो यथा
उच्चैःश्रवा यथाश्वानां देवानामीश्वरो यथा । देवीनां तु यथा गौरी तद्वच्छ्रेष्ठमिदं भवेत्
नातः परतरं स्तोत्रं नातः परतरं व्रतम् । अक्षय्येषु च दानेषु रुद्राक्षस्तु विशिष्यते
शिवभक्ताय शान्ताय दद्याद्रुद्राक्षमुत्तमम् । तस्य पुण्यफलस्यान्तं न चाहं वक्तुमुत्सहे
धृतरुद्राक्षकण्ठाय यस्त्वन्नं सम्प्रयच्छति । त्रिसप्तकुलमुद्धृत्य रुद्रलोकं स गच्छति
यस्य भाले विभूतिर्न नाङ्गे रुद्राक्षधारणम् । न शम्भोर्भवने पूजा स विप्रः श्वपचाधमः
खादन्मांसं पिबन्मद्यं सङ्गच्छन्नन्त्यजानपि । पातकेभ्यो विमुच्येत रुद्राक्षं शिरसि स्थिते
सर्वयज्ञतपोदानवेदाभ्यासैश्च यत्फलम् । तत्फलं लभते सद्यो रुद्राक्षस्य तु धारणात्
वेदैश्चतुर्भिर्यत्पुण्यं पुराणपठनेन च । यत्तीर्थसेवनेनैव सर्वविद्यादिभिस्तथा
तत्पुण्यं लभते सद्यो रुद्राक्षस्य तु धारणात् । प्रयाणकाले रुद्राक्षं बन्धयित्वा म्रियेद्यदि
स रुद्रत्वमवाप्नोति पुनर्जन्म न विद्यते । रुद्राक्षं धारयेत्कण्ठे बाह्वोर्वा म्रियते यदि
कुलैकविंशमुत्तार्य रुद्रलोके वसेन्नरः । ब्राह्मणो वापि चाण्डालो निर्गुणः सगुणोऽपि च
भस्मरुद्राक्षधारी यः स देवत्वं शिवं व्रजेत् । शुचिर्वाप्यशुचिर्वापि तथाभक्ष्यस्य भक्षकः
म्लेच्छो वाप्यथ चाण्डालो युतो वा सर्वपातकैः । रुद्राक्षधारणादेव स रुद्रो नात्र संशयः
शिरसा धारिते कोटिः कर्णयोर्दशकोटयः । शतकोटिर्गले बद्धो मूर्ध्नि कोटिसहस्रकम्
अयुतं चोपवीते तु लक्षकोटिर्भुजे स्थिते । मणिबन्धे तु रुद्राक्षो मोक्षसाधनकः परः
रुद्राक्षधारको भूत्वा यत्किञ्चित्कर्म वैदिकम् । कुर्वन्विप्रः सदा भक्त्या महदाप्नोति तत्फलम्
रुद्राक्षमालिकां कण्ठे धारयेद्भक्तिवर्जितः । पापकर्मा तु यो नित्यं स मुक्तः सर्वबन्धनात्
रुद्राक्षार्पितचेता यो रुद्राक्षस्तु न वै धृतः । असौ माहेश्वरो लोके नमस्यः स तु लिङ्गवत्
अविद्यो वा सविद्यो वा रुद्राक्षस्य तु धारणात् । शिवलोकं प्रपद्येत कीकटे गर्दभो यथा
स्कन्द उवाच रुद्राक्षान्सन्दधे देव गर्दभः केन हेतुना । कीकटे केन वा दत्तस्तद्ब्रूहि परमेश्वर
श्रीभगवानुवाच शृणु पुत्र पुरावृत्तं गर्दभो विन्ध्यपर्वते । धत्ते रुद्राक्षभारं तु वाहितः पथिकेन तु
श्रान्तोऽसमर्थस्तद्भारं वोढुं पतितवान्भुवि । प्राणैस्त्वक्तस्त्रिनेत्रस्तु शूलपाणिर्महेश्वरः
मत्प्रसादान्महासेन मदन्तिकमुपागतः । यावद्वक्त्रस्य संख्यानं रुद्राक्षाणां सुदुर्लभम्
तावद्युगसहस्राणि शिवलोके महीयते । स्वशिष्येभ्यस्तु वक्तव्यं नाशिष्येभ्यः कदाचन
अभक्तेभ्योऽपि मूर्खेभ्यः कदाचिन्न प्रकाशयेत् । अभक्तो वास्तु भक्तो वा नीचो नीचतरोऽपि वा
रुद्राक्षान्धारयेद्यस्तु मुच्यते सर्वपातकैः । रुद्राक्षधारणं पुण्यं केन वा सदृशं भवेत्
महाव्रतमिदं प्राहुर्मुनयस्तत्त्वदर्शिनः । सहस्रं धारयेद्यस्तु रुद्राक्षाणां धृतव्रतः
तं नमन्ति सुराः सर्वे यथा रुद्रस्तथैव सः । अभावे तु सहस्रस्य बाह्वोः षोडश षोडश