नाकालमरणं तस्य कदापि च भविष्यति । सन्ततिश्चिरकालस्था भोगाः सर्वे सुखादयः
सम्भविष्यन्ति तन्मर्त्यगृहे यः स्तोत्रपाठकः । किं पुनर्बहुनोक्तेन स्तोत्रं सर्वार्थसाधकम्
एतस्य पठनानॄणां भुक्तिमुक्ती न दूरतः । देवा भवत्सु यद्दुःखं कथ्यतां तदसंशयम्
नाशयामि न सन्देहश्चात्र कार्योऽणुरेव च । एवं श्रीभगवद्वाक्यं श्रुत्वा सर्वे दिवौकसः । प्रसन्नमनसः सर्वे पुनरूचुर्वृषाकपिम्
अगस्त्याश्वासनवर्णनम् सूत उवाच श्रीशस्य वचनाद्देवाः सन्तुष्टाः सर्व एव हि । प्रसन्नमनसो भूत्वा पुनरेनं समूचिरे
देवा ऊचुः देवदेव महाविष्णो सृष्टिस्थित्यन्तकारण । विष्णो विन्ध्यनगोऽर्कस्य मार्गरोधं करोति हि
तेन भानुविरोधेन सर्व एव महाविभो । अलब्धभोगभागा हि किं कुर्मः कुत्र याम हि
श्रीभगवानुवाच या कर्त्री सर्वजगतामाद्या च कुलवर्धनी । देवी भगवती तस्याः पूजकः परमद्युतिः
अगस्त्यो मुनिवर्योऽसौ वाराणस्यां समासते । तत्तेजोवञ्चकोऽगस्त्यो भविष्यति सुरोत्तमाः
तं प्रसाद्य द्विजवरमगस्त्यं परमौजसम् । याचध्वं विबुधाः काशीं गत्वा निःश्रेयसः पदीम्
सूत उवाच एवं समुपदिष्टास्ते विष्णुना विबुधोत्तमाः । प्रतीताः प्रणताः सर्वे जग्मुर्वाराणसीं पुरीम्
क्षणेन विबुधश्रेष्ठा गत्वा काशीपुरीं शुभाम् । मणिकर्णीं समाप्लुत्य सचैलं भक्तिसंयुताः
सन्तर्प्य देवांश्च पितॄन्दत्त्वा दानं विधानतः । आगत्य मुनिवर्यस्य चाश्रमं परमं महत्
प्रशान्तश्वापदाकीर्णं नानापादपसङ्कुलम् । मयूरैः सारसैर्हंसैश्चक्रवाकैरुपाश्रितम्
महावराहैः कोलैश्च व्याघ्रैः शार्दूलकैरपि । मृगै रुरुभिरत्यर्थं खड्गैः शरभकैरपि
समाश्रितं परमया लक्ष्म्या मुनिवरं तदा । दण्डवत्पतिताः सर्वे प्रणेमुश्च पुनः पुनः
देवा ऊचुः जय द्विजगणाधीश मान्य पूज्य धरासुर । वातापीबलनाशाय नमस्ते कुम्भयोनये
लोपामुद्रापते श्रीमन्मित्रावरुणसम्भव । सर्वविद्यानिधेऽगस्त्य शास्त्रयोने नमोऽस्तु ते
यस्योदये प्रसन्नानि भवन्त्युज्ज्वलभांज्यपि । तोयानि तोयराशीनां तस्मै तुभ्यं नमोऽस्तु ते
काशपुष्पविकासाय लङ्कावासप्रियाय च । जटामण्डलयुक्ताय सशिष्याय नमोऽस्तु ते
जय सर्वामरस्तव्य गुणराशे महामुने । वरिष्ठाय च पूज्याय सस्त्रीकाय नमोऽस्तु ते
प्रसादः क्रियतां स्वामिन् वयं त्वां शरणं गताः । दुस्तराच्छैलजाद्दुःखात्पीडिताः परमद्युते
इत्येवं संस्तुतोऽगस्त्यो मुनिः परमधार्मिकः । प्राह प्रसन्नया वाचा विहसन् द्विजसत्तमः
मुनिरुवाच भवन्तः परमश्रेष्ठा देवास्त्रिभुवनेश्वराः । लोकपाला महात्मानो निग्रहानुग्रहक्षमाः
योऽमरावत्यधीशानः कुलिशं यस्य चायुधम् । सिद्ध्यष्टकं च यद्द्वारि स शक्रो मरुतां पतिः
वैश्वानरः कृशानुर्हि हव्यकव्यवहोऽनिशम् । मुखं सर्वामराणां हि सोऽग्निः किं तस्य दुष्करम्
रक्षोगणाधिपो भीमः सर्वेषां कर्मसाक्षिकः । दण्डव्यग्रकरो देवः किं तस्यासुकरं सुराः
तथापि यदि देवेशाः कार्यं मच्छक्तिसिद्धिभृत् । अस्ति चेदुच्यतां देवाः करिष्यामि न संशयः
एवं मुनिवरेणोक्तं निशम्य विबुधर्षभाः । प्रतीताः प्रणयोद्विग्नाः कार्यं निजगदुर्निजम्
महर्षे विन्ध्यगिरिणा निरुद्धोऽर्कविनिर्गमः । त्रैलोक्यं तेन संविष्टं हाहाभूतमचेतनम्