मूलमन्त्रं न्यसेत्पश्चात्पूर्ववत्कारयेत्तथा । सद्योजातादिभिः प्रोक्ष्य यावदष्टोत्तरं शतम्
मूलमन्त्रं समुच्चार्य शुद्धभूमौ निधाय च । तस्योपरि न्यसेत्साम्बं शिवं परमकारणम्
प्रतिष्ठिता भवेन्माला सर्वकामफलप्रदा । यस्य देवस्य यो मन्त्रस्तां तेनैवाभिपूजयेत्
मूर्ध्नि कण्ठेऽथवा कर्णे न्यसेद्वा जपमालिकाम् । रुद्राक्षमालया चैवं जप्तव्यं नियतात्मना
कण्ठे मूर्ध्नि हृदि प्रान्ते कर्णे बाहुयुगेऽथवा । रुद्राक्षधारणं नित्यं भक्त्या परमया युतः
किमत्र बहुनोक्तेन वर्णनेन पुनः पुनः । रुद्राक्षधारणं नित्यं तस्मादेतत्प्रशस्यते
स्नाने दाने जपे होमे वैश्वदेवे सुरार्चने । प्रायश्चित्ते तथा श्राद्धे दीक्षाकाले विशेषतः
अरुद्राक्षधरो भूत्वा यत्किञ्चित्कर्म वैदिकम् । कुर्वन्विप्रस्तु मोहेन नरके पतति ध्रुवम्
रुद्राक्षं धारयेन्मूर्ध्नि कण्ठे सूत्रे करेऽथवा । सुवर्णमणिसम्भिन्नं शुद्धं नान्यैर्धृतं शिवम्
नाशुचिर्धारयेदक्षं सदा भक्त्यैव धारयेत् । रुद्राक्षतरुसम्भूतवातोद्भूततृणान्यपि
पुण्यलोकं गमिष्यन्ति पुनरावृत्तिदुर्लभम् । रुद्राक्षं धारयन्पापं कुर्वन्नपि च मानवः
सर्वं तरति पाप्मानं जाबालश्रुतिराह हि । पशवो हि च रुद्राक्षधारणाद्यान्ति रुद्रताम्
किमु ये धारयन्ति स्म नरा रुद्राक्षमालिकाम् । रुद्राक्षः शिरसा ह्येको धार्यो रुद्रपरैः सदा
ध्वंसनं सर्वदुःखानां सर्वपापविमोचनम् । व्याहरन्ति च नामानि ये शम्भोः परमात्मनः
रुद्राक्षालङ्कृता ये च ते वै भागवतोत्तमाः । रुद्राक्षधारणं कार्यं सर्वश्रेयोऽर्थिभिर्नृभिः
कर्णपाशे शिखायां च कण्ठे हस्ते तथोदरे । महादेवश्च विष्णुश्च ब्रह्मा तेषां विभूतयः
देवाश्चान्ये तथा भक्त्या खलु रुद्राक्षधारिणः । गोत्रर्षयश्च सर्वेषां कूटस्था मूलरूपिणः
तेषां वंशप्रसूताश्च मुनयः सकला अपि । श्रौतधर्मपराः शुद्धाः खलु रुद्राक्षधारिणः
श्रद्धा न जायते साक्षाद्वेदसिद्धे विमुक्तिदे । बहूनां जन्मनामन्ते महादेवप्रसादतः
रुद्राक्षधारणे वाञ्छा स्वभावादेव जायते । रुद्राक्षस्य तु माहात्म्यं जाबालैरादरेण तु
पठ्यते मुनिभिः सर्वैर्मया पुत्र तथैव च । रुद्राक्षस्य फलं चैव त्रिषु लोकेषु विश्रुतम्
फलस्य दर्शने पुण्यं स्पर्शात्कोटिगुणं भवेत् । शतकोटिगुणं पुण्यं धारणाल्लभते नरः
लक्षकोटिसहस्राणि लक्षकोटिशतानि च । जपाच्च लभते नित्यं नात्र कार्या विचारणा
हस्ते चोरसि कण्ठे च कर्णयोर्मस्तके तथा । रुद्राक्षं धारयेद्यस्तु स रुद्रो नात्र संशयः
अवध्यः सर्वभूतानां रुद्रवद्धि चरेद्भुवि । सुराणामसुराणां च वन्दनीयो यथा शिवः
रुद्राक्षधारी सततं वन्दनीयस्तथा नरैः । उच्छिष्टो वा विकर्मस्थो युक्तो वा सर्वपातकैः
मुच्यते सर्वपापेभ्यो रुद्राक्षस्य तु धारणात् । कण्ठे रुद्राक्षमाबध्य श्वापि वा म्रियते यदि
सोऽपि मुक्तिमवाप्नोति किं पुनर्मानुषोऽपि सः । जपध्यानविहीनोऽपि रुद्राक्षं यदि धारयेत्
सर्वपापविनिर्मुक्तः स याति परमां गतिम् । एकं वापि हि रुद्राक्षं कृत्वा यत्नेन धारयेत्
एकविंशतिमुद्धृत्य रुद्रलोके महीयते । अतः परं प्रवक्ष्यामि रुद्राक्षस्य पुनर्विधिम्