तद्धारणान्मुच्यते हि स्वर्णस्तेयादिपातकैः । अष्टवक्त्रो महासेन साक्षाद्देवो विनायकः
अन्तकूटं तूलकूटं स्वर्णकूटं तथैव च । दुष्टान्वयस्त्रियं वाथ संस्पृशंश्च गुरुस्त्रियम्
एवमादीनि पापानि हन्ति सर्वाणि धारणात् । विघ्नास्तस्य प्रणश्यन्ति याति चान्ते परं पदम्
भवन्त्येते गुणाः सर्वे ह्यष्टवक्त्रस्य धारणात् । नववक्त्रो भैरवस्तु धारयेद्वामबाहुके
भुक्तिमुक्तिप्रदः प्रोक्तो मम तुल्यबलो भवेत् । भ्रूणहत्यासहस्राणि ब्रह्महत्याशतानि च
सद्यः प्रलयमायान्ति नववक्त्रस्य धारणात् । दशवक्त्रस्तु देवेशः साक्षाद्देवो जनार्दनः
ग्रहाश्चैव पिशाचाश्च वेताला ब्रह्मराक्षसाः । पन्नगाश्चोपशाम्यन्ति दशवक्त्रस्य धारणात्
वक्त्रैकादशरुद्राक्षो रुद्रैकादशकं स्मृतम् । शिखायां धारयेद्यो वै तस्य पुण्यफलं शृणु
अश्वमेधसहस्रस्य वाजपेयशतस्य च । गवां शतसहस्रस्य सम्यग्दत्तस्य यत्फलम्
तत्फलं लभते शीघ्रं वक्त्रैकादशधारणात् । द्वादशास्यस्य रुद्राक्षस्यैव कर्णे तु धारणात्
आदित्यास्तोषिता नित्यं द्वादशास्ये व्यवस्थिताः । गोभेधे चाश्वमेधे च यत्फलं तदवाप्नुयात्
शृङ्गिणां शस्त्रिणां चैव व्याघ्रादीनां भयं न हि । न च व्याधिभयं तस्य नैव चाधिः प्रकीर्तितः
न च किञ्चिद्भयं तस्य न च व्याधिः प्रवर्तते । न कुतश्चिद्भयं तस्य सुखी चैवेश्वरो भवेत्
हस्त्यश्वमृगमार्जारसर्पमूषकदर्दुरान् । खरांश्च श्वशृगालांश्च हत्वा बहुविधानपि
मुच्यते नात्र सन्देहो वक्त्रद्वादशधारणात् । वक्त्रत्रयोदशो वत्स रुद्राक्षो यदि लभ्यते
कार्तिकेयसमो ज्ञेयः सर्वकामार्थसिद्धिदः । रसो रसायनं चैव तस्य सर्वं प्रसिद्ध्यति
तस्यैव सर्वभोग्यानि नात्र कार्या विचारणा । मातरं पितरं चैव भ्रातरं वा निहन्ति यः
मुच्यते सर्वपापेभ्यो धारणात्तस्य षण्मुख । चतुर्दशास्यो रुद्राक्षो यदि लभ्येत पुत्रक
धारयेत्सततं मूर्ध्नि तस्य पिण्डः शिवस्य तु । किं मुने बहुनोक्तेन वर्णनेन पुनः पुनः
पूज्यते सन्ततं देवैः प्राप्यते च परा गतिः । रुद्राक्ष एकः शिरसा धार्यो भक्त्या द्विजोत्तमैः
षड्विंशद्भिः शिरोमाला पञ्चाशद्धृदयेन तु । कलाक्षैर्बाहुवलये अर्काक्षैर्मणिबन्धनम्
अष्टोत्तरशतैर्माला पञ्चाशद्भिः षडानन । अथवा सप्तविंशत्या कृत्वा रुद्राक्षमालिकाम्
धारणाद्वा जपाद्वापि ह्यनन्तं फलमश्नुते । अष्टोत्तरशतैर्माला रुद्राक्षैर्धार्यते यदि
क्षणे क्षणेऽश्वमेधस्य फलं प्राप्नोति षण्मुख । त्रिःसप्तकुलमुद्धृत्य शिवलोके महीयते
रुद्राक्षजपमालाविधानवर्णनम् ईश्वर उवाच लक्षणं जपमालायाः शृणु वक्ष्यामि षण्मुख । रुद्राक्षस्य मुखं ब्रह्मा बिन्दू रुद्र इतीरितः
विष्णुः पुच्छं भवेच्चैव भोगमोक्षफलप्रदम् । पञ्चविंशतिभिश्चाक्षैः पञ्चवक्त्रैः सकण्टकैः
रक्तवर्णैः सितैर्मिश्रैः कृतरन्ध्रविदर्भितैः । अक्षसूत्रं प्रकर्तव्यं गोपुच्छवलयाकृति
वक्त्रं वक्त्रेण संयोज्य पुच्छं पुच्छेन योजयेत् । मेरुमूर्ध्वमुखं कुर्यात्तदूर्ध्वं नागपाशकम्
एवं संग्रथितां मालां मन्त्रसिद्धिप्रदायिनीम् । प्रक्षाल्य गन्धतोयेन पञ्चगव्येन चोपरि
ततः शिवाम्भसाऽऽक्षाल्य ततो मन्त्रगणान्न्यसेत् । स्पृष्ट्वा शिवास्त्रमन्त्रेण कवचेनावगुण्ठयेत्