दिव्यवर्षसहस्रं तु चक्षुरुन्मीलितं मया । पश्चान्ममाकुलाक्षिभ्यः पतिता जलबिन्दवः
तत्राश्रुबिन्दुतो जाता महारुद्राक्षवृक्षकाः । ममाज्ञया महासेन सर्वेषां हितकाम्यया
बभूवुस्ते च रुद्राक्षा अष्टत्रिंशत्प्रभेदतः । सूर्यनेत्रसमुद्भूताः कपिला द्वादश स्मृताः
सोमनेत्रोत्थिताः श्वेतास्ते षोडशविधाः क्रमात् । वह्निनेत्रोद्भवाः कृष्णा दश भेदा भवन्ति हि
श्वेतवर्णश्च रुद्राक्षो जातितो ब्राह्म उच्यते । क्षात्रो रक्तस्तथा मिश्रो वैश्यः कृष्णस्तु शूद्रकः
एकवक्त्रः शिवः साक्षाद्ब्रह्महत्यां व्यपोहति । द्विवक्त्रो देवदेव्यो स्याद्विविधं नाशयेदघम्
त्रिवक्त्रस्त्वनलः साक्षात्स्त्रीहत्यां दहति क्षणात् । चतुर्वक्त्रः स्वयं ब्रह्मा नरहत्यां व्यपोहति
पञ्चवक्त्रः स्वयं रुद्रः कालाग्निर्नाम नामतः । अभक्ष्यभक्षणोद्भूतैरगम्यागमनोद्भवैः
मुच्यते सर्वपापैस्तु पञ्चवक्त्रस्य धारणात् । षड्वक्त्रः कार्तिकेयस्तु स धार्यो दक्षिणे करे
ब्रह्महत्यादिभिः पापैर्मुच्यते नात्र संशयः । सप्तवक्त्रो महाभागो ह्यनङ्गो नाम नामतः
तद्धारणान्मुच्यते हि स्वर्णस्तेयादिपातकैः । अष्टवक्त्रो महासेन साक्षाद्देवो विनायकः
अन्तकूटं तूलकूटं स्वर्णकूटं तथैव च । दुष्टान्वयस्त्रियं वाथ संस्पृशंश्च गुरुस्त्रियम्
एवमादीनि पापानि हन्ति सर्वाणि धारणात् । विघ्नास्तस्य प्रणश्यन्ति याति चान्ते परं पदम्
भवन्त्येते गुणाः सर्वे ह्यष्टवक्त्रस्य धारणात् । नववक्त्रो भैरवस्तु धारयेद्वामबाहुके
भुक्तिमुक्तिप्रदः प्रोक्तो मम तुल्यबलो भवेत् । भ्रूणहत्यासहस्राणि ब्रह्महत्याशतानि च
सद्यः प्रलयमायान्ति नववक्त्रस्य धारणात् । दशवक्त्रस्तु देवेशः साक्षाद्देवो जनार्दनः
ग्रहाश्चैव पिशाचाश्च वेताला ब्रह्मराक्षसाः । पन्नगाश्चोपशाम्यन्ति दशवक्त्रस्य धारणात्
वक्त्रैकादशरुद्राक्षो रुद्रैकादशकं स्मृतम् । शिखायां धारयेद्यो वै तस्य पुण्यफलं शृणु
अश्वमेधसहस्रस्य वाजपेयशतस्य च । गवां शतसहस्रस्य सम्यग्दत्तस्य यत्फलम्
तत्फलं लभते शीघ्रं वक्त्रैकादशधारणात् । द्वादशास्यस्य रुद्राक्षस्यैव कर्णे तु धारणात्
आदित्यास्तोषिता नित्यं द्वादशास्ये व्यवस्थिताः । गोभेधे चाश्वमेधे च यत्फलं तदवाप्नुयात्
शृङ्गिणां शस्त्रिणां चैव व्याघ्रादीनां भयं न हि । न च व्याधिभयं तस्य नैव चाधिः प्रकीर्तितः
न च किञ्चिद्भयं तस्य न च व्याधिः प्रवर्तते । न कुतश्चिद्भयं तस्य सुखी चैवेश्वरो भवेत्
हस्त्यश्वमृगमार्जारसर्पमूषकदर्दुरान् । खरांश्च श्वशृगालांश्च हत्वा बहुविधानपि
मुच्यते नात्र सन्देहो वक्त्रद्वादशधारणात् । वक्त्रत्रयोदशो वत्स रुद्राक्षो यदि लभ्यते
कार्तिकेयसमो ज्ञेयः सर्वकामार्थसिद्धिदः । रसो रसायनं चैव तस्य सर्वं प्रसिद्ध्यति
तस्यैव सर्वभोग्यानि नात्र कार्या विचारणा । मातरं पितरं चैव भ्रातरं वा निहन्ति यः
मुच्यते सर्वपापेभ्यो धारणात्तस्य षण्मुख । चतुर्दशास्यो रुद्राक्षो यदि लभ्येत पुत्रक
धारयेत्सततं मूर्ध्नि तस्य पिण्डः शिवस्य तु । किं मुने बहुनोक्तेन वर्णनेन पुनः पुनः
पूज्यते सन्ततं देवैः प्राप्यते च परा गतिः । रुद्राक्ष एकः शिरसा धार्यो भक्त्या द्विजोत्तमैः