न तारयन्त्युभौ पक्षौ पितॄनेकोत्तरं शतम् । सगर्भो जपसंयुक्तस्त्वगर्भो ध्यानमात्रकः
स्नानाङ्गतर्पणं कृत्वा देवर्षिपितृतोषकम् । शुद्धे वस्त्रे परीधाय जलाद्बहिरुपागतः
विभूतिधारणं कार्यं रुद्राक्षाणां च धारणम् । क्रमयोगेन कर्तव्यं सर्वदा जपसाधकैः
रुद्राक्षान्कण्ठदेशे दशनपरिमिता- न्मस्तके विंशती द्वे षट् षट् कर्णप्रदेशे करयुगलकृते द्वादश द्वादशैव । बाह्वोरिन्दोः कलाभिर्नयनयुगकृते त्वेकमेकं शिखायां वक्षस्यष्टाधिकं यः कलयति शतकं स स्वयं नीलकण्ठः
बद्ध्वा स्वर्णेन रुद्राक्षं रजतेनाथवा मुने । शिखायां धारयेन्नित्यं कर्णयोर्वा समाहितः
यज्ञोपवीते हस्ते वा कण्ठे तुन्देऽथवा नरः । श्रीमत्पञ्चाक्षरेणैव प्रणवेन तथापि वा
निर्व्याजभक्त्या मेधावी रुद्राक्षं धारयेन्मुदा । रुद्राक्षधारणं साक्षाच्छिवज्ञानस्य साधनम्
रुद्राक्षं यच्छिखायां तत्तारतत्त्वमिति स्मरेत् । कर्णयोरुभयोर्ब्रह्मन् देवं देवीं च भावयेत्
यज्ञोपवीते वेदांश्च तथा हस्ते दिशः स्मरेत् । कण्ठे सरस्वतीं देवीं पावकं चापि भावयेत्
सर्वाश्रमाणां वर्णानां रुद्राक्षाणां च धारणम् । कर्तव्यं मन्त्रतः प्रोक्तं द्विजानां नान्यवर्णिनाम्
रुद्राक्षधारणाद्रुद्रो भवत्येव न संशयः । पश्यन्नपि निषिद्धांश्च तथा शृण्वन्नपि स्मरन्
जिघ्रन्नपि तथा चाश्नन् प्रलपन्नपि सन्ततम् । कुर्वन्नपि सदा गच्छन्विसृजन्नपि मानवः
रुद्राक्षधारणादेव सर्वपापैर्न लिप्यते । अनेन भुक्तं देवेन भुक्तं यत्तु तथा भवेत्
पीतं रुद्रेण तत्पीतं घ्रातं घ्रातं शिवेन तत् । रुद्राक्षधारणे लज्जा येषामस्ति महामुने
तेषां नास्ति विनिर्मोक्षः संसाराज्जन्मकोटिभिः । रुद्राक्षधारिणं दृष्ट्वा परिवादं करोति यः
उत्पत्तौ तस्य साङ्कर्यमस्त्वेवेति विनिश्चयः । रुद्राक्षधारणादेव रुद्रो रुद्रत्वमाप्नुयात्
मुनयः सत्यसङ्कल्पा ब्रह्मा ब्रह्मत्वमागतः । रुद्राक्षधारणाच्छ्रेष्ठं न किञ्चिदपि विद्यते
रुद्राक्षधारिणे भक्त्या वस्त्रं धान्यं ददाति यः । सर्वपापविनिर्मुक्तः शिवलोकं स गच्छति
रुद्राक्षधारिणं श्राद्धे भोजयेत विमोदतः । पितृलोकमवाप्नोति नात्र कार्या विचारणा
रुद्राक्षधारिणः पादौ प्रक्षाल्याद्भिः पिबेन्नरः । सर्वपापविनिर्मुक्तः शिवलोके महीयते
हारं वा कटकं वापि सुवर्णं वा द्विजोत्तमः । रुद्राक्षसहितं भक्त्या धारयन् रुद्रतामियात्
रुद्राक्षं केवलं वापि यत्र कुत्र महामते । समन्त्रकं वा मन्त्रेण रहितं भाववर्जितम्
यो वा को वा नरो भक्त्या धारयेल्लज्जयापि वा । सर्वपापविनिर्मुक्तः सम्यग्ज्ञानमवाप्नुयात्
अहो रुद्राक्षमाहात्म्यं मया वक्तुं न शक्यते । तस्मात्सर्वप्रयत्नेन कुर्याद्रुद्राक्षधारणम्
रुद्राक्षमाहात्म्यवर्णनम् नारद उवाच एवंभूतानुभावोऽयं रुद्राक्षो भवतानघ । वर्णितो महतां पूज्यः कारणं तत्र किं वद
श्रीनारायण उवाच एवमेव पुरा पृष्टो भगवान् गिरिशः प्रभुः । षण्मुखेन च रुद्रस्तं यदुवाच शृणुष्व तत्
ईश्वर उवाच शृणु षण्मुख तत्त्वेन कथयामि समासतः । त्रिपुरो नाम दैत्यस्तु पुराऽऽसीत्सर्वदुर्जयः
जितास्तेन सुराः सर्वे बह्मविष्ण्वादिदेवताः । सर्वैस्तु कथिते तस्मिंस्तदाहं त्रिपुरं प्रति
अचिन्तयं महाशस्त्रमघोराख्यं मनोहरम् । सर्वदेवमयं दिव्यं ज्वलन्तं घोररूपि यत्
त्रिपुरस्य वधार्थाय देवानां तारणाय च । सर्वविघ्नोपशमनमघोरास्त्रमचिन्तयम्