एतद्दिवा स्याद्विट्शौचं तदर्धं निशि कीर्तितम् । आतुरस्य तदर्धं तु मार्गस्थस्य तदर्धकम्
स्त्रीशूद्राणामशक्तानां बालानां शौचकर्मणि । यथा गन्धक्षयः स्यात्तु तथा कुर्यादसंख्यकम्
गन्धलेपक्षयो यावत्तावच्छौचं विधीयते । सर्वेषामेव वर्णानामित्याह भगवान्मनुः
वामहस्तेन शौचं तु कुर्याद्वै दक्षिणेन न । नाभेरधो वामहस्तो नाभेरूर्ध्वं तु दक्षिणः
शौचकर्मणि विज्ञेयो नान्यथा द्विजपुङ्गवैः । जलपात्रं न गृह्णीयाद्विण्मूत्रोत्सर्जने बुधः
गृह्णीयाद्यदि मोहेन प्रायश्चित्तं चरेत्ततः । मोहाद्वाप्यथवाऽऽलस्यान्न कुर्याच्छौचमात्मनः
जलाहारस्त्रिरात्रः स्यात्ततो जापाच्च शुध्यति । देशकालद्रव्यशक्तिस्वोपपत्तीश्च सर्वशः
ज्ञात्वा शौचं प्रकर्तव्यमालस्यं नात्र धारयेत् । पुरीषोत्सर्जने कुर्याद् गण्डूषान्द्वादशैव तु
चतुरो मूत्रविक्षेपे नातो न्यूनान्कदाचन । अधोमुखं नरः कृत्वा त्यजेत्तं वामतः शनैः
आचम्य च ततः कुर्याद्दन्तधावनमादरात् । कण्टकिक्षीरवृक्षोत्थं द्वादशाङ्गुलमव्रणम्
कनिष्ठिकाग्रवत्स्थूलं पूर्वार्धे कृतकूर्चकम् । करञ्जोदुम्बरौ चूतः कदम्बो लोध्रचम्पकौ । बदरीति द्रुमाश्चेति प्रोक्ता दन्तप्रधावने
अन्नाद्याय व्यूहध्वंसे सोमो राजायमागमत् । स मे मुखं प्रक्षाल्य तेजसा च भगेन च
आयुर्बलं यशो वर्चः प्रजाः पशुवसूनि च । ब्रह्मप्रज्ञां च मेधां च त्वन्नो देहि वनस्पते
अभावे दन्तकाष्ठस्य प्रतिषिद्धदिनेषु च । अपां द्वादशगण्डूषैर्विदध्याद्दन्तधावनम्
रवेर्दिने यः कुरुते प्राणी दन्तस्य धावनम् । सविता भक्षितस्तेन स्वकुलं तेन घातितम्
प्रतिपद्दर्शषष्ठीषु नवम्येकादशीरवौ । दन्तानां काष्ठसंयोगाद्दहत्यासप्तमं कुलम्
कृत्वालं पादशौचं ह्यमलमथ जलं त्रिःपिबेद् द्विर्विमृज्य तर्जन्याङ्गुष्ठवत्या सजलमभिमृशे- न्नासिकारन्ध्रयुग्मम् । अङ्गुष्ठानामिकाभ्यां नयनयुगयुतं कर्णयुग्मं कनिष्ठा- ङ्गुष्ठाभ्यां नाभिदेशे हृदयमथ तले- नाङ्गुलीभिः शिरांसि
क्षमाहात्म्यवर्णनम् श्रीनारायण उवाच (शुद्धं स्मार्तं चाचमनं पौराणं वैदिकं तथा । तान्त्रिकं श्रौतमित्याहुः षड्विधं श्रुतिचोदितम् ॥ विण्मूत्रादिकशौचं च शुद्धं च परिकीर्तितम् । स्मार्तं पौराणिकं कर्म आचान्ते विधिपूर्वकम् ॥ वैदिकं श्रौत्रमित्यादि ब्रह्मयज्ञादिपूर्वकम् । अस्त्रविद्यादिकं कर्म तान्त्रिको विधिरुच्यते ॥) स्मृत्वा चोङ्कारगायत्रीं निबध्नीयाच्छिखां तथा । पुनराचम्य हृदयं बाहू स्कन्धौ च संस्पृशेत्
क्षुते निष्ठीवने चैव दन्तोच्छिष्टे तथानृते । पतितानां च सम्भाषे दक्षिणं श्रवणं स्पृशेत्
अग्निरापश्च वेदाश्च सोमः सूर्योऽनिलस्तथा । सर्वे नारद विप्रस्य कर्णे तिष्ठन्ति दक्षिणे
ततस्तु गत्वा नद्यादौ प्रातःस्नानं विशोधनम् । समाचरेन्मुनिश्रेष्ठ देहसंशुद्धिहेतवे
अत्यन्तमलिनो देहो नवद्वारैर्मलं वहन् । सदाऽऽस्ते तच्छोधनाय प्रातःस्नानं विधीयते
अगम्यागमनात्पापं यच्च पापं प्रतिग्रहात् । रहस्याचरितं पापं मुच्यते स्नानकर्मणा
अस्नातस्य क्रियाः सर्वा भवन्ति विफला यतः । तस्मात्प्रातश्चरेत्स्नानं नित्यमेव दिने दिने
दर्भयुक्तश्चरेत्स्नानं तथा सन्ध्याभिवन्दनम् । सप्ताहं प्रातरस्नायी सन्ध्याहीनस्त्रिभिर्दिनैः
द्वादशाहमनग्निः सन्द्विजः शूद्रत्वमाप्नुयात् । अल्पत्वाद्धोमकालस्य बहुत्वात्स्नानकर्मणः
प्रातर्न तु तथा स्नायाद्धोमकाले विगर्हितः । गायत्र्यास्तु परं नास्ति इह लोके परत्र च
गायन्तं त्रायते यस्माद्गायत्रीत्यभिधीयते । प्रणवेन तु संयुक्तां व्याहृतित्रयसंयुताम्
वायुं वायौ जयेद्विप्रः प्राणसंयमनत्रयात् । ब्राह्मणः श्रुतिसम्पन्नः स्वधर्मनिरतः सदा
स वैदिकं जपेन्मन्त्रं लौकिकं न कदाचन । गौशृङ्गे सर्षपो यावत् तावद्येषां न स स्थिरः