प्रातरुत्थाय यः कुर्याद्विण्मूत्रं द्विजसत्तमः । नैर्ऋत्यामिषुविक्षेपमतीत्याभ्यधिकं भुवः
विण्मूत्रेऽपि च कर्णस्थ आश्रमे प्रथमे द्विजः । निवीतं पृष्ठतः कुर्याद्वानप्रस्थगृहस्थयोः
कृत्वा यज्ञोपवीतं तु पृष्ठतः कण्ठलम्बितम् । विण्मूत्रं तु गृही कुर्यात्कर्णस्थं प्रथमाश्रमी
अन्तर्धाय तृणैर्भूमिं शिरः प्रावृत्य वाससा । वाचं नियम्य यत्नेन ष्ठीवनश्वासवर्जितः
न फालकृष्टे न जले न चितायां न पर्वते । जीर्णदेवालये कुर्यान्न वल्मीके न शाद्वले
न ससत्त्वेषु गर्तेषु न गच्छन्न पथि स्थितः । सन्ध्ययोरुभयोर्जप्ये भोजने दन्तधावने
पितृकार्ये च दैवे च तथा मूत्रपुरीषयोः । उत्साहे मैथुने वापि तथा वै गुरुसन्निधौ
यागे दाने ब्रह्मयज्ञे द्विजो मौनं समाचरेत् । देवता ऋषयः सर्वे पिशाचोरगराक्षसाः
इतो गच्छन्तु भूतानि बहिर्भूमिं करोम्यहम् । इति सम्प्रार्थ्य पश्चात्तु कुर्याच्छौचं यथाविधि
वाय्वग्नी विप्रमादित्यमापः पश्यंस्तथैव गाः । न कदाचन कुर्वीत विण्मूत्रस्य विसर्जनम्
उदङ्मुखो दिवा कुर्याद्रात्रौ चेद्दक्षिणामुखः । तत आच्छाद्य विण्मूत्रं लोष्ठपर्णतृणादिभिः
गृहीतलिङ्ग उत्थाय स गच्छेद्वारिसन्निधौ । पात्रे जलं गहीत्वा तु गच्छेदन्यत्र चैव हि
गृहीत्वा मृत्तिकां कूलाच्छ्वेतां ब्राह्मणसत्तमः । रक्तां पीतां तथा कृष्णां गृह्णीयुश्चान्यवर्णकाः
अथवा या यत्र देशे सैव ग्राह्या द्विजोत्तमैः । अन्तर्जलाद्देवगृहाद्वल्मीकान्मूषकोत्करात्
कृतशौचावशिष्टाच्च न ग्राह्याः पञ्चमृत्तिकाः । मूत्रात्तु द्विगुणं शौचे मैथुने त्रिगुणं स्मृतम्
एका लिङ्गे करे तिस्र उभयोर्मृद्द्वयं स्मृतम् । मूत्रशौचं समाख्यातं शौचे तद् द्विगुणं स्मृतम्
विट्शौचे लिङ्गदेशे तु प्रदद्यान्मृत्तिकाद्वयम् । पञ्चापाने दशैकस्मिन्नुभयोः सप्त मृत्तिकाः
वामपादं पुरस्कृत्य पश्चाद्दक्षिणमेव च । प्रत्येकं च चतुर्वारं मृत्तिकां लेपयेत्सुधीः
एवं शौचं गृहस्थस्य द्विगुणं ब्रह्मचारिणः । त्रिगुणं वानप्रस्थस्य यतीनां च चतुर्गुणम्
आर्द्रामलकमाना तु मृत्तिका शौचकर्मणि । प्रत्येकं तु सदा ग्राह्या नातो न्यूना कदाचन
एतद्दिवा स्याद्विट्शौचं तदर्धं निशि कीर्तितम् । आतुरस्य तदर्धं तु मार्गस्थस्य तदर्धकम्
स्त्रीशूद्राणामशक्तानां बालानां शौचकर्मणि । यथा गन्धक्षयः स्यात्तु तथा कुर्यादसंख्यकम्
गन्धलेपक्षयो यावत्तावच्छौचं विधीयते । सर्वेषामेव वर्णानामित्याह भगवान्मनुः
वामहस्तेन शौचं तु कुर्याद्वै दक्षिणेन न । नाभेरधो वामहस्तो नाभेरूर्ध्वं तु दक्षिणः
शौचकर्मणि विज्ञेयो नान्यथा द्विजपुङ्गवैः । जलपात्रं न गृह्णीयाद्विण्मूत्रोत्सर्जने बुधः
गृह्णीयाद्यदि मोहेन प्रायश्चित्तं चरेत्ततः । मोहाद्वाप्यथवाऽऽलस्यान्न कुर्याच्छौचमात्मनः
जलाहारस्त्रिरात्रः स्यात्ततो जापाच्च शुध्यति । देशकालद्रव्यशक्तिस्वोपपत्तीश्च सर्वशः
ज्ञात्वा शौचं प्रकर्तव्यमालस्यं नात्र धारयेत् । पुरीषोत्सर्जने कुर्याद् गण्डूषान्द्वादशैव तु
चतुरो मूत्रविक्षेपे नातो न्यूनान्कदाचन । अधोमुखं नरः कृत्वा त्यजेत्तं वामतः शनैः
आचम्य च ततः कुर्याद्दन्तधावनमादरात् । कण्टकिक्षीरवृक्षोत्थं द्वादशाङ्गुलमव्रणम्