उत्तानं किञ्चिदुत्तानं मुखमवष्टभ्य चोरसा । निमीलिताक्षः सत्त्वस्थो दन्तैर्दन्तान्न संस्पृशेत्
तालुस्थाचलजिह्वश्च संवृतास्यः सुनिश्चलः । सन्निरुद्धेन्द्रियग्रामो नातिनिम्नस्थितासनः
द्विगुणं त्रिगुणं वापि प्राणायाममुपक्रमेत् । ततो ध्येयः स्थितो योऽसौ हृदये दीपवत्प्रभुः
धारयेत्तत्र चात्मानं धारणां धारयेद्बुधः । सधूमश्च विधूमश्च सगर्भश्चाप्यगर्भकः
सलक्ष्यश्चाप्यलक्ष्यश्च प्राणायामस्तु षड्विधः । प्राणायामसमो योगः प्राणायाम इतीरितः
प्राणायाम इति प्रोक्तो रेचपूरककुम्भकैः । वर्णत्रयात्मका ह्येते रेचपूरककुम्भकाः
स एव प्रणवः प्रोक्तः प्राणायामश्च तन्मयः । इडया वायुमारोप्य पूरयित्वोदरे स्थितम्
शनैः षोडशमात्राभिरन्यया तं विरेचयेत् । एवं सधूमः प्राणानामायामः कथितो मुने
आधारेलिङ्गनाभिप्रकटितहृदये तालुमूले ललाटे द्वे पत्रे षोडशारे द्विदशदशदलद्वादशार्धे चतुष्के । वासान्ते बालमध्ये डफकतसहिते कण्ठदेशे स्वराणां हंक्षंतत्त्वार्थयुक्तं सकलदलगतं वर्णरूपं नमामि
अरुणकमलसंस्था तद्रजःपुञ्जवर्णा हरनियमितचिह्ना पद्मतन्तुस्वरूपा । रविहुतवहराकानायकास्यस्तनाढ्या सकृदपि यदि चित्ते संवसेत्स्यात्स भुक्तः
स्थितिः सैव गतिर्यात्रा मतिश्चिन्ता स्तुतिर्वचः । अहं सर्वात्मको देवः स्तुतिः सर्वं त्वदर्चनम्
अहं देवी न चान्योऽस्मि ब्रह्मैवाहं न शोकभाक् । सच्चिदानन्दरूपोऽहं स्वात्मानमिति चिन्तयेत्
प्रकाशमानां प्रथमे प्रयाणे प्रतिप्रयाणेऽप्यमृतायमानाम् । अन्तःपदव्यामनुसञ्चरन्ती- मानन्दरूपामबलां प्रपद्ये
ततो निजब्रह्मरन्ध्रे ध्यायेत्तं गुरुमीश्वरम् । उपचारैर्मानसैश्च पूजयेत्तु यथाविधि
स्तुवीतानेन मन्त्रेण साधको नियतात्मवान् । गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः । गुरुरेव परं ब्रह्म तस्मै श्रीगुरवे नमः
शौचविधिवर्णनम् श्रीनारायण उवाच आचारहीनं न पुनन्ति वेदा यदप्यधीताः सह षड्भिरङ्गैः । छन्दांस्येनं मृत्युकाले त्यजन्ति नीडं शकुन्ता इव जातपक्षाः
ब्राह्मे मुहूर्त्ते चोत्थाय तत्सर्वं सम्यगाचरेत् । रात्रेरन्तिमयामे तु वेदाभ्यासं चरेद् बुधः
किञ्चित्कालं ततः कुर्यादिष्टदेवानुचिन्तनम् । योगी तु पूर्वमार्गेण ब्रह्मध्यानं समाचरेत्
जीवब्रह्मैक्यता येन जायते तु निरन्तरम् । जीवन्मुक्तश्च भवति तत्क्षणादेव नारद
पञ्चपञ्च उषःकालः सप्तपञ्चारुणोदयः । अष्टपञ्चभवेत्प्रातः शेषः सूर्योदयः स्मृतः
प्रातरुत्थाय यः कुर्याद्विण्मूत्रं द्विजसत्तमः । नैर्ऋत्यामिषुविक्षेपमतीत्याभ्यधिकं भुवः
विण्मूत्रेऽपि च कर्णस्थ आश्रमे प्रथमे द्विजः । निवीतं पृष्ठतः कुर्याद्वानप्रस्थगृहस्थयोः
कृत्वा यज्ञोपवीतं तु पृष्ठतः कण्ठलम्बितम् । विण्मूत्रं तु गृही कुर्यात्कर्णस्थं प्रथमाश्रमी
अन्तर्धाय तृणैर्भूमिं शिरः प्रावृत्य वाससा । वाचं नियम्य यत्नेन ष्ठीवनश्वासवर्जितः
न फालकृष्टे न जले न चितायां न पर्वते । जीर्णदेवालये कुर्यान्न वल्मीके न शाद्वले
न ससत्त्वेषु गर्तेषु न गच्छन्न पथि स्थितः । सन्ध्ययोरुभयोर्जप्ये भोजने दन्तधावने
पितृकार्ये च दैवे च तथा मूत्रपुरीषयोः । उत्साहे मैथुने वापि तथा वै गुरुसन्निधौ
यागे दाने ब्रह्मयज्ञे द्विजो मौनं समाचरेत् । देवता ऋषयः सर्वे पिशाचोरगराक्षसाः
इतो गच्छन्तु भूतानि बहिर्भूमिं करोम्यहम् । इति सम्प्रार्थ्य पश्चात्तु कुर्याच्छौचं यथाविधि
वाय्वग्नी विप्रमादित्यमापः पश्यंस्तथैव गाः । न कदाचन कुर्वीत विण्मूत्रस्य विसर्जनम्