प्रातरुत्थाय कर्तव्यं यद् द्विजेन दिने दिने । तदहं सम्प्रवक्ष्यामि द्विजानामुपकारकम्
उदयास्तमयं यावद् द्विजः सत्कर्मकृद्भवेत् । नित्यनैमित्तिकैर्युक्तः काम्यैश्चान्यैरगर्हितैः
आत्मनश्च सहायार्थं पिता माता न तिष्ठति । न पुत्रदारा न ज्ञातिर्धर्मस्तिष्ठति केवलम्
तस्माद्धर्मं सहायार्थं नित्यं सञ्चिनु साधनैः । धर्मेणैव सहायात्तु तमस्तरति दुस्तरम्
आचारः प्रथमो धर्मः श्रुत्युक्तः स्मार्त एव च । तस्मादस्मिन्समायुक्तो नित्यं स्यादात्मनो द्विजः
आचाराल्लभते चायुराचाराल्लभते प्रजाः । आचारादन्नमक्षय्यमाचारो हन्ति पातकम्
आचारः परमो धर्मो नृणां कल्याणकारकः । इह लोके सुखी भूत्वा परत्र लभते सुखम्
अज्ञानान्धजनानां तु मोहितैर्भ्रामितात्मनाम् । धर्मरूपो महादीपो मुक्तिमार्गप्रदर्शकः
आचारात्प्राप्यते श्रैष्ठ्यमाचारात्कर्म लभ्यते । कर्मणो जायते ज्ञानमिति वाक्यं मनोः स्मृतम्
सर्वधर्मवरिष्ठोऽयमाचारः परमं तपः । तदेव ज्ञानमुद्दिष्टं तेन सर्वं प्रसाध्यते
यस्त्वाचारविहीनोऽत्र वर्तते द्विजसत्तमः । स शूद्रवद् बहिष्कार्यो यथा शूद्रस्तथैव सः
आचारो द्विविधः प्रोक्तः शास्त्रीयो लौकिकस्तथा । उभावपि प्रकर्तव्यौ न त्याज्यौ शुभमिच्छता
ग्रामधर्मा जातिधर्मा देशधर्माः कुलोद्भवाः । परिग्राह्या नृभिः सर्वैर्नैव ताँल्लङ्घयेन्मुने
दुराचारो हि पुरुषो लोके भवति निन्दितः । दुःखभागी च सततं व्याधिना व्याप्त एव च
परित्यजेदर्थकामौ यौ स्यातां धर्मवर्जितौ । धर्ममप्यसुखोदर्कं लोकविद्विष्टमेव च
नारद उवाच बहुत्वादिह शास्त्राणां निश्चयः स्यात्कथं मुने । कियत्प्रमाणं तद् ब्रूहि धर्ममार्गविनिर्णये
श्रीनारायण उवाच श्रुतिस्मृती उभे नेत्रे पुराणं हृदयं स्मृतम् । एतत्त्रयोक्त एव स्याद्धर्मो नान्यत्र कुत्रचित्
विरोधो यत्र तु भवेत्त्रयाणां च परस्परम् । श्रुतिस्तत्र प्रमाणं स्याद् द्वयोर्द्वैधे स्मृतिर्वरा
श्रुतिद्वैधं भवेद्यत्र तत्र धर्मावुभौ स्मृतौ । स्मृतिद्वैधं तु यत्र स्याद्विषयः कल्प्यतां पृथक्
पुराणेषु क्वचिच्चैव तन्त्रदृष्टं यथातथम् । धर्मं वदन्ति तं धर्मं गृह्णीयान्न कथञ्चन
वेदाविरोधि चेत्तन्त्रं तत्प्रमाणं न संशयः । प्रत्यक्षश्रुतिरुद्धं यत्तत्प्रमाणं भवेन्न च
सर्वथा वेद एवासौ धर्ममार्गप्रमाणकः । तेनाविरुद्धं यत्किञ्चित्तत्प्रमाणं न चान्यथा
यो वेदधर्ममुज्झित्य वर्ततेऽन्यप्रमाणतः । कुण्डानि तस्य शिक्षार्थं यमलोके वसन्ति हि
तस्मात्सर्वप्रयत्नेन वेदोक्तं धर्ममाश्रयेत् । स्मृतिः पुराणमन्यद्वा तन्त्रं वा शास्त्रमेव च
तन्मूलत्वे प्रमाणं स्यान्नान्यथा तु कदाचन । ये कुशास्त्राभियोगेन वर्तयन्तीह मानवान्
अधोमुखोर्ध्वपादास्ते यास्यन्ति नरकार्णवम् । कामाचाराः पाशुपतास्तथा वै लिङ्गधारिणः
तप्तमुद्राङ्किता ये च वैखानसमतानुगाः । ते सर्वे निरयं यान्ति वेदमार्गबहिष्कृताः
वेदोक्तमेव सद्धर्मं तस्मात्कुर्यान्नरः सदा । उत्थायोत्थाय बोद्धव्यं किं मयाद्य कृतं कृतम्
दत्तं वा दापितं वापि वाक्येनापि च भाषितम् । उपपापेषु सर्वेषु पातकेषु महत्स्वपि
अवाप्य रजनीयामं ब्रह्मध्यानं समाचरेत् । ऊरुस्थोत्तानचरणः सव्ये चोरौ तथोत्तरम्