बाणलिङ्गेऽथवा सूर्ये यजेद्देवीमनन्यधीः । जयादिशक्तिसंयुक्ते पीठे देवीं प्रपूजयेत्
पूर्वकोणे सरस्वत्या सहितं पद्मजं यजेत् । श्रिया सह हरिं तत्र नैर्ऋते कोणके यजेत्
पार्वत्या सहितं शम्भुं वायुकोणे समर्चयेत् । देव्या उत्तरतः पूज्यः सिंहो वामे महासुरम्
महिषं पूजयेदन्ते षट्कोणेषु यजेत्क्रमात् । नन्दजां रक्तदन्तां च तथा शाकम्भरीं शिवाम्
दुर्गां भीमां भ्रामरीं च ततो वसुदलेषु च । ब्राह्मीं माहेश्वरीं चैव कौमारीं वैष्णवीं तथा
वाराहीं नारसिंहीं च ऐन्द्रीं चामुण्डकां तथा । पूजयेच्च ततः पश्चात्तत्त्वपत्रेषु पूर्वतः
विष्णुमायां चेतनां च बुद्धिं निद्रां क्षुधां तथा । छायां शक्तिं परां तृष्णां शान्तिं जातिं च लज्जया
क्षान्तिं श्रद्धां कीर्तिलक्ष्म्यौ धृतिं वृत्तिं श्रुतिं स्मृतिम् । दयां तुष्टिं ततः पुष्टिं मातृभ्रान्ती इति क्रमात्
ततो भूपुरकोणेषु गणेशं क्षेत्रपालकम् । वटुकं योगिनीश्चापि पूजयेन्मतिमान्नरः
इन्द्राद्यानपि तद्बाह्ये वज्राद्यायुधसंयुतान् । पूजयेदनया रीत्या देवीं सावरणां ततः
राजोपचारान्विविधान्दद्यादम्बाप्रतुष्टये । ततो जपेन्नवार्णं च मन्त्रं मन्त्रार्थपूर्वकम्
ततः सप्तशतीस्तोत्रं देव्या अग्रे तु सम्पठेत् । नानेन सदृशं स्तोत्रं विद्यते भुवनत्रये
ततश्चानेन देवेशीं तोषयेत् प्रत्यहं नरः । धर्मार्थकाममोक्षाणामालयं जायते नरः
इति ते कथितं विप्र श्रीदुर्गाया विधानकम् । कृतार्थता येन भवेत्तदेतत्कथितं तव
सर्वे देवा हरिब्रह्मप्रमुखा मनवस्तथा । मुनयो ज्ञाननिष्ठाश्च योगिनश्चाश्रमास्तथा
लक्ष्म्यादयस्तथा देव्यः सर्वे ध्यायन्ति तां शिवाम् । तदैव जन्मसाफल्यं दुर्गास्मरणमस्ति चेत्
चतुर्दशापि मनवो ध्यात्वा चरणपङ्कजम् । मनुत्वं प्राप्तवन्तश्च देवाः स्वं स्वं पदं तथा
तदेतत्सर्वमाख्यातं रहस्यातिरहस्यकम् । प्रकृतीनां पञ्चकस्य तदंशानां च वर्णनम्
श्रुत्वैतन्मनुजो नित्यं पुरुषार्थचतुष्टयम् । लभते नात्र सन्देहः सत्यं सत्यं मयोदितम्
अपुत्रो लभते पुत्रं विद्यार्थी प्राप्नुयाच्च ताम् । यं यं कामं स्मरेद्वापि तं तं श्रुत्वा समाप्नुयात्
नवरात्रे पठेदेतद्देव्यग्रे तु समाहितः । परितुष्टा जगद्धात्री भवत्येव हि निश्चितम्
नित्यमेकैकमध्यायं पठेद्यः प्रत्यहं नरः । तस्य वश्या भवेद्देवी देवीप्रियकरो हि सः
शकुनांश्च परीक्षेत नित्यमस्मिन्यथाविधि । कुमारीदिव्यहस्तेन यद्वा बटुकराम्बुजात्
मनोरथं तु सङ्कल्प्य पुस्तकं पूजयेत्ततः । देवीं च जगदीशानीं प्रणमेच्च पुनः पुनः
सुस्नातां कन्यकां तत्रानीयाभ्यर्च्य यथाविधि । शलाकां रोपयेन्मध्ये तथा स्वर्णेन निर्मिताम्
शुभं वाप्यशुभं तत्र यदायाति च तद्भवेत् । उदासीनेऽप्युदासीनं कार्यं भवति निश्चितम्
मनुकृतं देवीस्तवनम् नारद उवाच भगवन् भूतभव्येश नारायण सनातन । आख्यातं परमाश्चर्यं देवीचारित्रमुत्तमम्
प्रादुर्भावः परो मातुः कार्यार्थमसुरद्रुहाम् । अधिकाराप्तिरुक्तात्र देवीपूर्णकृपावशात्
अधुना श्रोतुमिच्छामि येन प्रीणाति सर्वदा । स्वभक्तान्परिपुष्णाति तमाचारं वद प्रभो
श्रीनारायण उवाच शृणु नारद तत्त्वज्ञ सदाचारविधिक्रमम् । यदनुष्ठानमात्रेण देवी प्रीणाति सर्वदा